संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
शेषपद्धतिः

श्रीपादुकासहस्रम् - शेषपद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्


सृष्टां भूमावनन्तेन नित्यं शेषसमाधिना ।
अहं सम्भावयामि त्वामात्मानमिव पादुके ॥७५१॥
पद्माभोगात् पादुके रङ्गभर्तुः
पादस्पर्शाद्भोगमन्यं प्रपित्सोः ।
शेषस्यैकां भूमिकामब्रवीत् त्वा -
माचार्याणामग्रणिर्यामुनेयः ॥७५२॥
शेषत्वमम्ब यदि संश्रयति प्रकामं
त्वद्भूमिकां समधिगम्य भुजङ्गराजः ।
त्वामेव भक्तिविनतैर्वहतां शिरोभिः
काष्ठां गतं तदिह केशवपादरक्षे ॥७५३॥
मा भूदियं मयि निषण्णपदस्य नित्यं
विश्वम्भरस्य वहनाद्वयथितेति मत्वा ।
धत्से बलाभ्यधिकया मणिपादुके त्वं
शेषात्मना वसुमतीं निजयैव मूर्त्या ॥७५४॥
तत्तादृशा निजबलेन निरूढकीर्तिः
शेषस्तवैव परिणामविशेष एषः ।
रामेण सत्यवचसा यदनन्यवाह्यां
वोढुं पुरा वसुमतीं भवती नियुक्ता ॥७५५॥
शेषत्वसीमनियतां मणिपादरक्षे
त्वामागमाः कुलवधूमिव बालपुत्राः ।
त्वद्रूपशेषशयितस्य परस्य पुंसः
पादोपधानशयितामुपधानयन्ति ॥७५६॥
भरतशिरसि लग्नां पादुके दूरतस्त्वां
स्वतनुमपि ववन्दे लक्ष्मणः शेषभूतः ।
किमिदमिह विचित्रं नित्ययुक्तः सिषेवे
दशरथतनयः सन् रङ्गनाथः स्वमेव ॥७५७॥
भूयोभूयः स्तिमितचलिते यस्य सङ्कल्पसिन्धौ
ब्रह्मेशानप्रभृतय इमे बुद्बुदत्वं भजन्ति ।
तस्यानादेर्युगपरिणतौ योगनिद्रानुरूपं
क्रीडातल्पं किमपि तनुते पादुके भूमिकाऽन्या ॥७५८॥
अहीनात्मा रङ्गक्षितिरमणपादावनि सदा
सतामित्थं त्राणात् प्रथितनिजसत्रत्वविभवा ।
अविद्यायामिन्याः स्पृशसि पुनरेकाहपदवीं
क्रतूनामाराध्या क्रतुरपिच सर्वस्त्वमसि नः ॥७५९॥
बहुमुखभोगसमेतैर्निर्मुक्ततया विशुद्धिमापन्नैः ।
शेषात्मिका पदावनि निषेव्यसे शेषभूतैस्त्वम् ॥७६०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्व कृतिषु श्रीरङ्गनाथपादुकासहस्रे
॥ शेषपद्धतिस्त्रयोविंशी ॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP