संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
रेखापद्धतिः

श्रीपादुकासहस्रम् - रेखापद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्


सूचयन्तीं स्वरेखाभिरनालेख्यसरस्वतीम् ।
अलेखनीयसौन्दर्यामाश्रये शौरिपादुकाम् ॥८११॥
मणिमौलिनिघर्षणात् सुराणां
वहसे काञ्चनपादुके विचित्रम् ।
कमलापतिपादपद्मयोगा -
दपरं लक्षणमाधिराज्यसारम् ॥८१२॥
अभितो मणिपादुके स्फुरन्त्या -
स्तव रेखाविततेस्तथाविधायाः ।
मुरंवैरिपदारविन्दरूढै -
रनुकल्पायितमाधिराज्यचिह्नैः ॥८१३॥
रेखया विनमतां दिवौकसां मौलिरत्नमकरीमुखोत्थया ।
पादुके वहसिं नूनमद्भुतं शौरिपादपरिभोगलक्षणम् ॥८१४॥
त्रिदशमकुतरत्नोल्लेखरेखापदेशात्
परिणमयसि पुंसां पादुके मूर्ध्निं लग्ना ।
नरकमथनसेवासम्पदं साधयित्री
नियतिविलिखितानां निष्कृतिं दुर्लिपीनाम् ॥८१५॥
पदकमलतलान्तःस्म्श्रितान्यातपत्र -
ध्वजसरसिजमुख्यान्यैश्वरीलक्षणानि ।
अवगमयसि शौरेः पादुके मादृशाना -
मुपरि परिणतैः स्वैर्देवि रेखाविशेषैः ॥८१६॥
स्नाता पदावनि चिरं परिभुज्य मुक्ता
पादेन रङ्गनृपतेः शुभलक्षणेन ।
रेखान्तरैर्नवनवैरुपशोभसे त्वं
संस्कारचन्दनविलेपनपङ्कलग्नैः ॥८१७॥
भक्तया मुहुः प्रणमतां त्रिदशेश्वराणां
कोटीरकोटीकषणादुपजायमानैः ।
आभाति शौरिचरणादधिकानुभावा
रेखाशतैस्तव पदावनि काऽपि रेखा ॥८१८॥
पादावनि प्रतिपदं परमस्य पुंसः
पादारविन्दपरिभोगविशेषयोग्या ।
स्वाभाविकान् सुभगभक्तिविशेषदृश्यान्
रेखात्मकान् वहसि पत्रलताविशेषान् ॥८१९॥
रेखापदेशतस्त्वं प्रशमयितुं प्रलयविप्लवाशङ्काम् ।
वहसि मधुजित्पदावनि मन्ये निगमस्य मातृकालेख्यम् ॥८२०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
॥ रेखापद्धतिः सप्तविंशी ॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP