संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
श्रृङ्गारपद्धतिः

श्रीपादुकासहस्रम् - श्रृङ्गारपद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्


शौरेः श्रृङ्गारचेष्टानां प्रसूतिं पादुकां भजे ।
यामेष भुङ्क्ते शुद्धान्तात् पूर्वं पश्चादपि प्रभुः ॥२५१॥
प्रणतत्रिदशेन्द्रमौलिमालामकरन्दार्द्रपरागपङ्किलेन ।
अनुलिम्पति पादुके स्वयं त्वामनुरूपेण पदेन रङ्गनाथ ॥२५२॥
अवदातहिमांशुकानुषक्तं
पदरक्षे त्वयि रङ्गिणः कदाचित् ।
किमपि स्थितमद्वितीयमाल्यं
विरलावस्थितमौक्तिकं स्मरामि ॥२५३॥
असहायगृहीतरङ्गनाथामवरोधाङ्गणसीम्नि पादुके त्वाम् ।
सुदृशः स्वयमर्चयन्ति दूरादवतंसोत्पलवासितैरपाङ्गैः ॥२५४॥
निर्विश्यमानमपि नूतनसन्निवेशं
कैवल्यकल्पितविभूशणकायकान्तिम् ।
कालेषु निर्विशसि रङ्गयुवानमेका
शृङ्गारनित्यरसिकं मणिपादरक्षे ॥२५५॥
निद्रायितस्य कमितुर्मणिपादुके त्वं
पर्यङ्किकापरिसरं प्रतिपद्यमाना ।
श्वासानिलप्रचलितेन भजस्यभीक्ष्णं
नाभीसरोजरजसा नवमङ्गरागम् ॥२५६॥
शयितवति रजन्यां पादुके रङ्गबन्धौ
चरनकमलपार्श्वे सादरं वर्तसे त्वम् ।
फणिपतिशयनीयादुत्थितस्य प्रभाते
प्रथमनयनपातं पावनं प्राप्तुकामा ॥२५७॥
चरणकमलसङ्गाद्रङ्गनाथस्य नित्यं
निगमपरिमलं त्वं पादुके निर्वमन्ती ।
नियतमतिशयाना वर्तसे सावरोधं
हृदयमधिवसन्तीं मालिकां वैजयन्तीम् ॥२५८॥
उपनिषदबलाभिर्नित्यमुत्तंसनीयं
किमपि जलधिकन्याहस्तसंवाहनार्हम् ।
तव तु चरणरक्षे देवि लीलारविन्दं
चरणसरसिजं तच्चारु चाणूरहन्तुः ॥२५९॥
अखिलान्तःपुरवारेष्वनेकवारं पदावनि स्वैरम् ।
अनुभवति रङ्गनाथो विहारविक्रान्तिसहचरीं भवतीम् ॥२६०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
॥ श्रृङ्गारपद्धतिर्दशमी ॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP