संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
यन्त्रिकापद्धतिः

श्रीपादुकासहस्रम् - यन्त्रिकापद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्


उदग्रयन्त्रिकां वन्दे पादुकां यन्निवेशनात् ।
उपर्यपि पदं विष्णोः प्रत्यादिष्टप्रसाधनम् ॥८०१॥
प्रसभं प्रतिरुध्य कण्टकादीन्
भवती शौरिपदाम्बुजादधस्तात् ।
चराणावनि धारयत्यमुष्मि -
न्नुचितच्छायमुपर्यपि प्रतीकम् ॥८०२॥
मुरभिन्मणिपादुके त्वदीया -
मनघामङ्गुलियन्त्रिकामवैमि ।
स्वयमुन्नमितां प्रदेशिनां ते
परमं दैवतमेकमित्यृचन्तीम् ॥८०३॥
स्वदते मणिपादुके त्वदीया पदशाखायुगयन्त्रिका विचित्रा ।
परमं पुरुषं प्रकाशयन्ती प्रणवस्येव परेयमर्धमात्रा ॥८०४॥
अनुयातमनोरथा मुरारेर्भवती केलिरथश्रियं दधाति ।
चरणावनि यन्त्रिका तवैषा तनुते कूबरसम्पदं पुरस्तात् ॥८०५॥
शङ्के भवत्याः सुभगं प्रतीकं रङ्गेशपादाङ्गुलिसङ्ग्रहार्थम् ।
त्राणाय पादावनि विष्टपानामाज्ञाकरीमङ्गुलिमुद्रिकां ते ॥८०६॥
अलङ्कृतं कर्णिकयोपरिष्टा -
दुदग्रनालं तव यन्त्रिकांशम् ।
पद्मापतेः पादसरोजलक्ष्म्याः
प्रत्येमि पादावनि केलिपद्मम् ॥८०७॥
उपरि विनिहितस्य केशवाङ्घ्रे -
रुपरि पदावनि यन्त्रिकात्मिका त्वम् ।
इति तव महिमा लघूकरोति
प्रणतसुरेश्वरशेखराधिरोहम् ॥८०८॥
नित्यं पदावनि निबद्धकिरीटशोभं
पद्मालयापरिचितं पदमुद्वहन्त्याः ।
अङ्गीकरोति रुचिमङ्गुलियन्त्रिका ते
साम्राज्यसम्पदनुरूपमिवातपत्रम् ॥८०९॥
प्रथमा कलेव भवती चरणावनि भाति रङ्गचन्द्रमसः ।
श्रृङ्गोन्नतिरिव यत्र श्रियं विभावयति यन्त्रिकायोगः ॥८१०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
॥ यन्त्रिकापद्धतिः षङ्विंशी ॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP