चतुर्थं ब्राम्हणम् - भाष्यं २१

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :---  ब्रम्हापरं सर्वभावस्य साध्यत्वोपपत्ते: । न हि परस्य ब्रम्हाण: सर्वभावापत्तिर्विज्ञानसाध्या । विज्ञानसाध्यां च सर्वभावापत्तिमाह । यस्मात्तत्सर्वमभवदिति । तस्मादब्रम्हा वा इदमग्र आसीदित्यपरं ब्रम्होह भवितुमर्हति ॥

भाष्यं :---  मनुष्याधिकाराद्वा तद्भावी ब्राम्हाण: स्यात । सर्वं भविष्यन्तो मनुष्या मन्यन्त इति हि मनुष्या: प्रकृतास्तेषां चाभ्युदयनि:श्रेयससाधने विशेषतोऽधिकर इत्युक्तम् । न परस्य ब्रम्हाणो नाप्यपरस्य प्रजापते: । अतो द्वैतैकत्वापरब्रम्हाविद्यया कर्मसहितयाऽपरब्रम्हाभावमुपसंपन्नो भोज्यादपावृत्त: सर्वप्राप्त्योच्छिन्नकामकर्मबन्धन: परब्रम्हाभावी ब्रम्हाविद्याहेतोर्ब्रम्होत्यभिधीयते । द्दष्टश्च लोके भाविनीं वृत्तिमाश्रित्य शब्दप्रयोगो यथौदनं पचतीति । शास्त्रे च पारिव्राजक: सर्वभूताभयदक्षिणामित्यादि तथेहेति केचिदब्रम्हा ब्रम्हाभावी पुरुषो ब्राम्हाण इति व्याचक्षते ॥

भाष्यं :---  तन्न सर्वभावापत्तेरनित्यत्वदोषात । न हि सो‍ऽस्ति लोके परमार्थतो यो निमित्तवशाद्भावान्तरमापद्यते नित्यश्चेति । तथा ब्रम्हाविज्ञाननिमित्तकृता चेत्सर्वभावापत्तिर्नित्या चेति विरुद्धम । अनित्यत्वे च कर्मफलतुल्यतेत्युक्तो दोष: ॥

भाष्यं :---  अविद्याकृतासर्वत्वनिवृत्तिं चेत्सर्वभावापत्तिं ब्रम्हाविद्याफलं मन्यसे ब्रम्हाभाविपुरुषकल्पना व्यर्था स्यात् ।  प्राग्ब्रम्हाविज्ञानादपि सर्वो जन्तुर्ब्रम्हात्वान्नित्यमेव सर्वभावापन्न: परमर्थातोऽविद्यया त्वब्रम्हात्वमसर्वत्वं चाध्यारोपोइतम् । यथा शुक्तिकायां रजतं व्योम्नि वा तलमलवत्त्वादि तथेह ब्रम्हाण्यध्यारोपितमविद्ययाऽव्रम्हात्वमसर्वत्वं च ब्रम्हाविद्यया निवर्त्यत ति मन्यसे यदि तदा युक्तं यत्परमार्थत आसीत्परं ब्रम्हा ब्रम्हाशब्दस्य मुख्यार्थवादित्वाद्वेदस्य । न त्वियं कल्पना युक्ता ब्रम्हाशब्दार्थविपरीतो ब्रम्हाभावी पुरुषो ब्रम्होत्युच्यत इति । श्रुतहान्यश्रुतकल्पनाया अन्याय्यत्वात महत्तरे प्रयोजनान्तरेऽसति ॥

भाष्यं :--- अविद्याकृतव्यतिरेकेणाब्रम्हात्वमसर्वत्वं च विद्यत एवेति चेन्न ।  तस्य ब्रम्हविद्ययाऽपोहानुपपत्ते: । न हि क्वचित्साक्षाद्वस्तुधर्मस्यापोढ्री द्दष्टा कर्त्री वा ब्रम्हाविद्या । अविद्यायास्तु सर्वत्रैव निवर्तिका द्दश्यते ॥

भाष्यं :---  तथेहाप्यब्रम्हात्वमसर्वत्वं चाविद्याकृतमेव निवर्त्यतां ब्रम्हाविद्यया । न तु पारमार्थिकम वस्तु कर्तुं निवर्तयितुं वाऽर्हति ब्रम्हाविद्या । तस्माव्द्यर्थैव श्रुथान्यश्रुतकल्पना ॥

भाष्यं :---  ब्रम्हाण्यविद्यानुपपत्तिरिति चेन्न ब्रम्हाणि विद्याधानात्‍ । नहि शुक्तिकायां रजताध्यारोपणेऽसति शुक्तिकात्वं ज्ञाप्यते चक्षुर्गोचरापन्नायामियं शुक्तिका न रजतमिति । तथा सदेवेदं सर्व ब्रम्हौवेदं सर्वमात्मैवेदं सर्वं नेदं द्वैतमस्त्यब्रम्होति व्रम्हाण्येकत्वविज्ञानं न विद्यातव्यं ब्रम्हाण्यविद्याध्यारोपणायामसत्याम ॥

भाष्यं :---  न ब्रूम: शुक्तिकायामिव ब्रम्हाण्यतद्धर्माध्यारोपणा नास्तीति किं तर्हि न ब्रम्हा स्वात्मन्यतद्धर्माध्यारोपनिमित्तमविद्याकर्तृ चेति । भवत्वेवं नाविद्याकर्तृ भ्रान्तं च ब्रम्हा । किंतु नैवाब्रम्हाविद्याकर्ता चेतनो भ्रान्तोऽन्य इष्यते ॥ “नान्योऽतोऽस्ति विज्ञाता नान्यदतोऽस्ति विज्ञतृ तत्त्वमस्यात्मानमेवावेदहं ब्रम्हास्म्यन्योऽस्ति विज्ञाता नान्यदतोऽस्ति विज्ञातृ तत्त्वमस्यात्मानमेवावेदहं ब्रम्हास्म्यन्योऽसावन्योऽहमस्मीति न स वेद” “शुनि चैव श्वपाके च” । “यस्तु सर्वाणि भूतानि” “यस्मिन्सर्वाणि भूतानि” इति च मन्त्रवर्णात ॥

भाष्यं :--- नव्नेवं शास्त्रोपदेशानर्थक्यमिति । बाढमेवमवगतेऽस्त्वेवाऽऽनर्थक्यम् । अवगमानर्थक्यमपीति चेन्न । अनवगमनिवृत्तेर्द्दष्टत्वात । तन्निवृत्तेरप्यनुपपत्तिरेकत्व इति चेन्न । द्दष्टविरोधात । द्दश्यते हयेकत्वविज्ञानादेवानवगमनिवृत्ति: । द्दश्यमानमप्यनुपपन्नमिति ब्रुवतो द्दष्टविरोध: स्यात् । न च द्दष्टविरोध: केनचिदप्यभ्युपगम्यते । न च द्दष्टेऽनुपपन्नं नाम द्दष्टत्वादेव । दर्शनानुपपत्तिरिति चेत्तत्राप्येषैव युक्ति: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP