चतुर्थं ब्राम्हणम् - भाष्यं २०

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- सूत्रिता ब्रहाविद्याऽऽत्मेत्येवोपासीतेति यदर्थोपनिषत्कृत्स्नाऽपि । तस्यैतस्य सूत्रस्य व्याचिख्यासु: प्रयोजनाभिधित्सउयोपोज्जिघांसति । तदिति वक्ष्यमाणमनन्तरवाक्येऽवद्योत्यं वस्त्वाहुर्ब्राम्हाणा ब्रम्हा विविदिषवो जन्मजरामरणप्रबन्धचक्रभ्रमणकृतायासदु:खोदकापारमहोदधिप्लवभूतं गुरुमासाद्य तत्तीरमुत्तितीर्षवो धर्माधर्मसाधनतत्फललक्षणात्साध्यसाधनरूपान्निर्विण्णास्तद्विलक्षणनित्यनिरतिशयश्रेय:प्रतिपित्सव: किमाहुरित्याह ॥

भाष्यं :--- यदब्रम्हाविद्यया ब्रम्हा परमात्मा तद्यया वेद्यते सा ब्रम्हाविद्या तया ब्रम्हाविद्यया सर्वं निरवशेषं भविष्यन्तो भविष्याम इत्येवं मनुष्या यन्मन्यन्ते । मनुष्यग्रहणं विशेषतोऽधिकारज्ञापनार्थम् । मनुष्या एव हि विशेषतोऽभ्युदयनि:श्रेयससाधनेऽधिकृता इत्यभिप्राय: ॥

भाष्यं :---  यथा कर्मविषये फलप्राप्तिं कर्मभ्यो मन्यन्ते तथा ब्रम्हाविद्याया:सर्वात्मभाव फलप्राप्तिं ध्रुवामेव मन्यन्ते । वेदप्रामाण्यस्योभयत्राविशेषा‍त ॥

भाष्यं :--- तत्र विप्रतिषिद्धं वस्तु लक्ष्यतेऽत: पृच्छाम: । किमु तदब्रम्हा यस्य विज्ञानात्सर्वं भविष्यन्तो मनुष्या मन्यन्ते । तत्किमवेद्यस्माद्विज्ञानात्तदब्रम्हा सर्वमभवत् । ब्रम्हा च सर्वमिति श्रूयते ॥

भाष्यं :--- तद्यद्यविज्ञाय किंचित्सर्वमभवत्तथाऽन्येषामप्यस्तु किं ब्रम्हाविद्यया । अथ विज्ञाय सर्वमभवद्विज्ञानसाध्यत्वात्कर्मफलेन तुल्यमेवेत्यनित्यत्वप्रसङग: सर्वभावस्य ब्रम्हाविद्याफलस्य । अनवस्थादोषश्च तद्प्यन्यद्विज्ञाय सर्वमभवत्तत: पूर्वमप्यन्यद्विज्ञायेति ॥

भाष्यं :---  न तावदविज्ञाय सर्वमभवत । शास्त्रार्थवैरूप्यदोषात । फलानित्यत्वदोषस्तर्हि नैकोऽपि दोषोऽर्थविशेषोपपत्ते : ॥९॥

श्रुति :--- ब्रम्ह वा इदमग्र आसीत्तदात्मानमेवावेत् ॥

अर्थ :--- पूर्वीं हें सर्व ब्रम्हाच होतें. तें आपल्यालाच जाणतें झालें.

भाष्यं :--- यदि किमपि विज्ञायैव ताब्रम्हा सर्वमभवत्पृच्छाम: किमु तदब्रम्हावेद्यस्मात्तत्सर्वमभवदिति । एवं चोदिते सर्वदोषानागन्धित प्रतिवचनमाह ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP