चतुर्थं ब्राम्हणम् - भाष्यं ११

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :---  यथा भुक्त्वा गच्छतीति भुजिगमिक्रिययो: पूर्वापरकालयोरितरेतरविच्छेदोऽविशिष्टश्च कर्ता तद्वदिहापि स्यान्न तु तत्स्थस्यैव भावान्तरोपजनन एतत्संभवति । न च स्थानान्तरेण वियुज्य स्थानान्तरसंयोगलक्षण: प्रवेशो निरवयवस्यापरिच्छिन्नस्य द्दष्ट: । सावयव एव प्रवेशश्रवणादिति चेन्न । “दिव्यो हयमूर्त: पुरुष: ” “निष्कलं निष्कियम् ” इत्यादि श्रुतिभ्य: । सर्वव्यपदेशधर्मविशेषप्रतिषेधश्रुतिभ्यश्च ॥

भाष्यं :---  प्रतिबिम्बप्रवेशवदिति चेन्न । वस्त्वन्तरेण विप्रकर्षानुपपत्ते: । द्रव्ये गुणप्रवेशवदिति चेत । न । अनाश्रितत्वात् । नित्यपरतन्त्रस्यैवाऽऽश्रितस्य गुणस्य द्रव्ये प्रवेश उपचर्यते । न तु ब्रम्हण: स्वातन्त्र्यश्रवणात्तथा प्रवेश उपपद्यते । फले बीजवदिति चेन्न । सावयवत्ववृद्धिक्षयोत्पत्तिविनाशादिधर्मवत्त्वप्रसङगात । न चैवं धर्मवत्त्वं ब्रम्हाण: “अजोऽजर:” इत्यादिश्रुतिन्यायविरोधात् । तस्मादन्य एव संसारी परिच्छिन्न इह प्रविष्ट इति चेन्न ॥

भाष्यं :---  “ सेयं देवतैक्षत” इत्यारभ्य “नामरूपे व्याकरवाणि” इति तस्या एव प्रवेशव्याकरणकर्तृत्वश्रुते: । तथा “तत्सृष्टवा तदेवानुप्राविशत्” “ स एतमेव सीमानं विदार्यैंतया द्वारा प्रापद्यत ।”“ सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते”“ त्वं कुमार उत वा कुमारी त्वं जीर्णी दण्डेन वञ्चसि” “पुरश्चके द्विपद:” “रूपं रूपं इति च मन्त्रवर्णान्न परादन्यस्य प्रवेश: ॥

भाष्यं :---  प्रविष्टानामितरेतरेतरभेदात्परानेकत्वमिति चेत । न । “एको देवो बहुधा संनिविष्ट:’ “एक: सन्वहुधा विचचार” “त्वमेकोऽसि बहूननुप्रविष्ट:” “एको देव: सर्वभूतेषु गुढ: सर्वव्यापी सर्वभूतान्तरात्मा” इत्यादिश्रुतिभ्य: ॥

भाष्यं :---  प्रवेश उपपद्यते नोपपद्यत इति तिष्ठतु तावत्प्रविष्टानां संसारित्वात्तदनन्यत्वाच्च परस्य संसारित्वमिति चेत् । न । अशनायाद्यत्ययश्रुते: । सुखित्वदु:खित्वादिदर्शनान्नेति चेत् । न। “न लिप्यते लोकदु:खेन बाहय:” इति श्रुते: ॥

भाष्यं :---  “तत्केन कं पश्येत” “नेह नानाऽस्ति किंचन” “तत्र को मोह: क: शोक एकत्वमनुपश्यत:” इत्यादिना विद्याविषये तत्प्रतिषेधाच्च नाऽऽत्मधर्मत्वम ॥

भाष्यं :---  तार्किकसमयविरोधादयुक्तिमिति चेन्न । युक्त्याऽप्यात्मनो दु:खित्वानुपपत्ते: ॥

भाष्यं :---  न हि दु:खेन प्रत्यक्षविषयेणाऽऽत्मनो विशेष्यत्वं प्रत्यक्षाविषयत्वात् । आकाशस्य शब्दगुणवत्त्ववदात्मनो दु:खित्वमिति चेन्न । एकप्रत्ययविषयत्वानुपपत्ते: ॥

भाष्यं :---  न हि सुखग्राहकेण प्रत्यक्षविषयेण प्रत्ययेन नित्यानुमेयस्याऽऽत्मनो विषयीकरणमुपपद्यते । तस्य च विषयीकरण आत्मन एकत्वाद्विषयविषय्यभावप्रसङग: । एकस्यैव विषयविषयित्वं दीपवदिति चेन्न । युगपदसंभवादात्मन्यंशानुपपत्तेश्च । एतेन विज्ञानस्य ग्राहग्राहकत्वं प्रत्युक्तम् ॥

भाष्यं :---  प्रत्यक्षानुमानविषययोश्च दु:खात्मनोर्गुणगुणित्वेनानुमानम् । दु:खस्य नित्यमेव प्रत्यक्षविषयत्वाद्रूपादिसामानादिकरण्याच्च ॥

भाष्यं :---  मन:संयोगजत्वेऽप्यात्मनि दु:खस्य सावयवत्वविक्रियावत्त्वानित्यत्वप्रसङ्गात । न हयविकृत्य संयोगि द्रव्यं गुण: कश्चिदुपयन्नपयन्वा दष्ट: क्वचित । न च निरवयवं विक्रियमाणं द्दष्टं क्वचिदनित्यगुणाश्रयं वा नित्यम । न चाऽऽकाशा आगमवादिभिर्नित्यतयाऽवगम्यते । न चान्यो द्दष्टान्तोऽस्ति॥

भाष्यं :---  विक्रियमाणमपि तत्प्रत्ययानिवृत्तेर्नित्यमेवेति चेन्न । द्रव्यस्यावयवान्यथात्वव्यतिरेकेण विक्रियानुपपत्ते: ॥

भाष्यं :---  सावयवत्वेऽपि नित्यत्वमिति चेन्न । सावयवस्यावयवसंयोगपूर्वकत्वे सति विभागोपपत्ते: । वज्रादिष्वदर्शनान्नेति चेन्न । अनुमेयत्वात्संयोगपूर्वत्वस्य । तस्मान्नाऽऽऽत्मनो दु:खाद्यनित्यगुणाश्रयत्वोपपत्ति: ॥

भाष्यं :---  परस्यादु;ख्खित्वेऽन्यस्य च दु:खिनोऽभावे दु:खोपशमनाय शास्त्रारम्भानर्थक्यमिति चेन्न । अविद्याध्यारोपितदु:खित्वभ्रमापोहार्थत्वात् । आत्मनि प्रकृतसंख्यापूरणभ्रमापोहवत, कल्पितदु:ख्यात्माभ्युपगमाच्च ॥

भाष्यं :---  जलसूर्यादिप्रतिबिम्बबदात्मप्रवेशश्च प्रतिबिम्बवव्द्याकृते कार्य उपलभ्यत्वम् । प्रागुत्पत्तेरनुपलब्ध आत्मा पश्चात्कार्ये च सृष्टे व्याकृते बुद्धेरन्तरुपलभ्यमान: सूर्यादिप्रतिबिम्बवज्जलादौ कार्यं सृष्टवा प्रविष्ट इव लक्ष्यमाणो निर्दिश्यते “स एष इह प्रविष्ट:” “तत्सृष्टवा तदेवानुप्राविशत” “स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत” “सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य’ इत्येवमादिभि: ॥

भाष्यं :---  न तु सर्वगतस्य निरवयवस्य दिग्देसकालान्तरापक्रमणप्राप्तिलक्षण: प्रवेश: कदाचिदप्युपपद्यते । न च परादात्मनोऽन्योऽस्ति द्रष्टा “नान्यदतोऽस्ति द्रष्ट्र नान्यदतोऽस्ति श्रोतृ” इत्यादिश्रुतेरित्यवोचाम ॥

भाष्यं :---  उपलब्ध्यर्थत्वाच्च सृष्ट्प्रवेस्थित्यप्ययवाक्यानाम । उपलब्धे: पुरुषार्थत्वश्रवणात ।” “स यो ह वैतत्परमं ब्रम्हा वेद ब्रम्हौव भवति” “आचार्यवान्पुरुषो वेद” “तस्य तावदेव चिरम” इत्यादिश्रुतिय: । “ततो मां तत्त्वतो ज्ञात्वा विशते तानन्तरम” “तद्धयग्र्‍यं सर्वविद्यानां प्राप्यते हयमृतं तत:” इत्यादिस्मृतिभ्यश्च । भेददर्शनापवादाच्च सृष्टयादिवाक्यानामात्मकैत्वदर्शनार्थपरत्वोपपत्ति: । तस्मात्कार्यस्थस्योपलभ्यत्वमेव प्रवेश इत्युपचर्यते । आ नखाग्रेभ्यो नखाग्रमर्यादमात्मनश्वैतन्यमुपलभ्यते ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP