चतुर्थं ब्राम्हणम् - भाष्यं १६

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- अनन्यसाधनत्वाच्च निरोधस्य । न हयात्मविज्ञानतत्स्मृतिसंतानव्यतिरेकेन चित्तवृत्तिनिरोधस्य साधनमस्ति । अभ्युपगम्येदमुक्तं न तु ब्रम्हा विज्ञानव्यतिरेकेणान्यन्मोक्षसाधनमवगम्यते ॥

भाष्यं :---  आकाङक्षाभावाच्च भावनाभाव: । यदुक्तं यजेतेत्यादौ किं केन कथमिति भावनाकाङक्षायां फलसाधनेतिकर्तव्यताभिराकाङक्षापनयनं यथा तद्वदिहाप्यात्मविज्ञानविधावप्युपपद्यत इति । तदसत । एकमेवाद्वितीयं तत्त्वमसि नेति नेत्यनन्तरमबाहयमयमात्मा ब्रम्होत्यादिवाक्यार्थविज्ञानसमकालमेव सर्वाकाङक्षाविनिवृत्ते: । न च वाक्यार्थविज्ञाने विधिप्रयुक्त: प्रवर्तते । विध्यन्तरप्रयुक्तौ चानवस्थादोषमवोचाम । न चैकमेवाद्वितीयं ब्रम्होत्यादिवाक्येषु विधिरवगम्यते । आत्मस्वरूपान्वाख्यानेनैवावसितत्वात् ॥

भाष्यं :--- वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामाण्यमिति चेत् । अथापि स्याद्यथा सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वमित्येवमादौ वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामाण्यमेवमात्मार्थवाक्यानामपीति चेन्न । विशेषात् । न वाक्यस्य वस्त्वन्वाख्यानं क्रियान्वाख्यानं वा प्रामाण्याप्रामाण्यकारणं किं तर्हि निश्चितफलवद्विज्ञानोत्पादकत्वम् । तद्यत्रास्ति तत्प्रमाणं वाक्यं यत्र नास्ति तदप्रमाणम्‍ ॥

भाष्यं :--- किं च भो: पृच्छामस्त्वामात्मस्वरूपान्वाख्यानपरेषु वाक्येषु फ्लवन्निश्चितं च विज्ञानमुत्पद्यते न वा । उत्पद्यते चेत्कथमप्रामाण्यमिति । किं वा न पश्यस्यविद्याशोकमोहभयादिसंसारबीजदोषनिवृत्तिं  विज्ञानफलम् । न शृणोषि वा किं “तत्र को मोह: क: शोक एकत्वमनुपश्यत: । मन्त्रविदेवास्मि नाऽऽत्मवित्सोऽहं भगव: शोचामि तं मा भगवाञ्छोकस्य पारं तारयतु” इत्येवमाद्युपनिषद्वाक्यशतानि ॥


भाष्यं :--- एवं विद्यते किं सोऽरोदीदित्यादिषु निश्चितं फलवच्च विज्ञानम । न चेद्विद्यतेऽस्त्वप्रामाण्यम् । तदप्रामाण्ये फलवन्निश्चितविज्ञानोत्पाद्कस्य किमित्यप्रामाण्यं स्यात् । तदप्रामाण्ये च दर्शपूर्णमासादिवाक्येषु को विश्रम्भ: ॥

भाष्यं :--- ननु दर्शपूर्णमासादिवाक्यानां पुरुषप्रवृत्तिविज्ञानोतादकत्वादकत्वात्प्रामाण्यम् । आत्मविज्ञानवाक्येषु तन्नास्तीति । सत्यमेवम । नैष दोष: । प्रामाण्यकारणोपपत्ते: । प्रामाण्यकारणं च यथोक्तमेव नान्यत । अलंकारश्चायं यत्सर्वप्रवृत्तिबीजनिरोधफलवद्विज्ञानोत्पादकत्वमात्मप्रतिपादकवाक्यानां नाप्रामाण्यकारणम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP