TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:|

श्रावणमास: - मङ्गलागौरीकथा

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


मङ्गलागौरीकथा
॥ अथ मङ्गलागौरीकथाप्रारम्भ: ॥

आसीत्कापिलनगरे सुमन्तो नाम वै द्विज: । धनधान्यसमायुक्त  आत्मकर्मरतोऽभवत्‌ ॥ अनपत्यस्य तस्याथ कालो भूरि गतस्तत:
योगी कश्चिद्धि तद्‌द्वारि भिक्षां देहीत्ययाचत ॥ भिक्षामगृह्णन्‌ संयात अपुत्र इति शङ्गया । तस्य वै चेष्टितं भार्या कथयामाप्त भर्तरि ॥ तत्सर्वं स विचार्याथ भार्यां प्रति वचोऽब्रवीत्‌ । पुनरायाति चेत्स त्वमन्नानि भूरि चाक्षिप ॥ तत्सर्वं सा चकाराथ भिक्षां त्यक्त्वा जगाद च । अपुत्रस्य गृहाद्भिक्षा नैव ग्राह्या कदाचन ॥ पात्रं भित्वा च तद्‌द्वारि निर्गतस्तु यथाऽऽगत: । भर्ता तच्चेष्टितं ज्ञात्वा देव्या: स्थानमुपागमत्‌ ॥ तत्र गत्वा निराहारमेकविंशद्दिनानि वै । पुत्रार्थं क्लिश्यतस्तस्य द्दष्ट्वा देवी जगाद ह ॥ पुत्रस्ते भविता विप्र गच्छ षोडशवार्षिक: । तत: पञ्चत्वमायच्छेत्पुत्रस्ते भविता चिरात्‌ ॥ तत्सर्वमकरोद्विप्र: पत्नीगर्भमधारयत्‌ । नवमे मासि सञ्जात: पुत्रो रूपगुणान्वित: ॥ जातकर्मादिसंस्कारान्‌ चकार च मुदान्वित: । व्रतादेशे तत: कृत्वा स्थित: स तु यथाविधि ॥१०॥
तस्य माता तु भर्तारमन्वहं प्रार्थयत्यहो । विवाह: क्रियतामस्य बालस्य गुणशालिन: ॥ सोऽब्रवीद्बार्यया सार्धमभीष्टं किञ्चिदस्ति वै । काशी प्रेष्यानयिष्यामि ततोद्वाहं करोम्यहम्‌ ॥ काशीं प्रस्थापयामास मातुलेन समन्वितम्‌ । पथि गच्छन्‌ शनैर्ग्रामानतिक्रम्य च भूरिश: ॥ कस्मिंश्चिन्नगरे स्थित्वा द्दष्ट्वा कन्यासमूहकम्‌ । क्रीडन्तं चूतवृक्षेषु नानाभावैरनेकधा ॥ क्रोधयुक्ता तयोर्मध्ये विधवेत्यवदद भृशम्‌ । तच्छुत्वाऽन्या तु तां प्राह दुष्टे वदसि किं मम ॥ मम माता व्रतं चक्रे मङ्गलागौरिनामकम् । जिघ्रन्ति या धूपगन्धं विधवा न भवन्ति ता: ॥ तच्छुत्वा मातुलस्तस्या: प्रययौ कन्यकागृहम्‌ । उषित्वा तु ततो रात्री सुमुखेन समन्वित: ॥
तस्मिन दिने गृहस्वामी कन्यामुद्वाहयत्‌ कृती । तैलादिरोपणं चक्रे मण्डपस्थापनं तथा ॥ मुहूर्तसमये तस्य ज्वरेण पीडितो वर: । वरमाता समागम्य तन्मातुलमयाचत ॥ घटिकाद्वयपर्यन्तं कुमारं देहि मे प्रभो । पाणिं जग्राहयामास वध्वा: सा च यथाविधि ॥२०॥
विवाहहोममकरोत्स विवेश तत: परम्‌ । प्रोत्थाय च तत: पत्नीमुवाच क्षुधितोऽस्म्यहम्‌ ॥ सा चत्वरितमुत्थाय लडडुकादीन्‍ सुसंस्कृतान्‍ । पात्रे निक्षिप्य तान्सर्वान्‍ भोजयामास तं पतिम्‌ ॥ याचयामास तच्चिह्णं दत्वा चाचमनीयकम्‌ । दत्वा तस्यै स्वाङ्गुलीयं ययौ वाराणसीं पुरीम्‌ ॥ वधूमाता पूर्ववतं शय्यायामुपवेशयत्‌ । तत: प्रभाते विमले प्रबुद्धा सा तु सुन्दरी ॥ सुप्तं वरं विलोक्याथ कोऽसाविति व्यचिन्तयत्‌ । विवाहोत्सवकाले तु आहूता सा तु कन्यका ॥ नायामि मात: कोऽत्रासौ भर्ता मे न भवेदयम्‌ । यद्यसी स्यात्तु भर्ता मे वृत्तान्तं रात्रिसम्भवम्‌ ॥ कथयिष्यति चेत्सर्वमागमिष्याम्यहं तत: । एवं निराकृत: सोऽथ जगाम स्वां पुरी प्रति ॥ पिता तु चिन्तयाविष्टो जननी चातिदुःखिता । तस्य चान्वेषणार्थाय पिता सत्रं चकार ह ॥ माता च तामुवाचेदं मङ्गलागौरिसंज्ञकम्‌ । व्रतं कुरु प्रयत्नेन सौभाग्यवर्धनं परम्‌ ॥ कन्योवाच । कथं व्रतं मया कार्यं भो मातर्ब्रूहि मां प्रति । उद्यापनविधिं चैव कोविधि: का च देवता ॥३०॥
मातोवाच । श्रावणस्य सिते पक्षे प्रथमे भौमवासरे । तद्दिने नियमं कुर्याद्दन्तधावनपूर्वकम्‌ ॥ स्नात्वा मङ्गल तैलेन शुचिर्भूत्वा समाचरेत्‌ । श्रावणे प्रति भौमं तु पूजयेत्‌ पञ्चवर्षकम्‌ ॥ उद्यापनं तत: कुर्यात्सम्पूर्णफलहेतवे । सौवर्णीं प्रतिमा कृत्वा मङ्गलागौरिसंज्ञिताम्‌ ॥ द्वात्रिंशन्मोदकान्‌ क्रुत्वा दूर्वाश्चानीय षोडश । नानाफलानि पुष्पाणि विविधान्‌ पल्लवांस्तथा ॥ सुगन्धं चन्दनं चैव कङ्कमं च हरिद्रकम्‌ । ताडपत्रं कण्ठसूत्रं कटकं वस्त्रसंयुतम्‌ ॥ षोडशैस्तन्तुभिर्युक्तं दीपं दद्याद घृतेन च । सोपलां द्दषदं चैव शुभ्रवस्त्रद्वयं तथा ॥ पञ्चामृतादिसम्भारानाहृत्याथ प्रपूजयेत्‌ । धान्यराश्युपरि स्थाप्य द्दषदं सोपलां तथा ॥ तत्र वस्त्रोपरि न्यस्य सौवर्णीं प्रतिमां तत: । एवं पूजा प्रकर्तव्या उपचारै: पृथक पृथक ॥ फलै: षोडशभिर्युक्तं वायनं च द्विजाय तु । मूर्तिं सोपलसंयुक्तां दद्यात्सोपस्करांतथा ॥ दम्पती पूजतेत्पश्चाद्वस्त्रालङ्करणादिभि: । एवमुद्यापनं कृत्वा दम्पती भोजयेत्तत: ॥४०॥
स्वयं च बन्धुभि: सार्धं भुञ्जीयादुत्सवान्वित: । एवं सोद्यापनं पुत्रि वतं सौभाग्यवर्धनम्‌ ॥ अवैधव्यस्य सम्प्राप्त्यै कुरु त्वं धर्षपञ्चकम्‌ । व्रतं प्रगृह्य सा बाला मात्रादिष्टं शुभं च यत्‌ ॥ तत: सत्रे समारब्ध अन्नदानं च भूरिश: । भुक्तेभ्यो ब्राह्मणेभ्यश्च ताम्बूलं सा प्रयच्छति ॥ सपुत्रो मातुल: काशीं बहुकालेन जग्मिवान्‌ । कृत्वा तीर्थविधिं सर्वं स्थितस्तद्दिवसावधि ॥ प्राप्य मृत्युदिनं चाथ प्रययौ मणिकर्णिकाम्‌ । नाभिमात्रे जले स्थाप्य विधानमकरोत्तत: ॥ मृत्युञ्जयविधिं चान्यमुपायमकरोत्तदा । गौरीव्रतप्रभावेण पार्वत्या नोदित: शिव: ॥ तत्रागत्य शिव:साक्षाद द्दष्ट्वा तं द्विजपुङ्गवम्‍ । मृतबालस्य निकटे विलपन्तमनेकधा ॥ कस्त्वं कोऽसौ मृत: पुत्र इति पृष्ट: शिवेन वै । प्रोवाच ब्राह्मणस्तस्मै देव्या वरसमुद्भव: ॥ अपुत्रस्य सुमन्तस्य बाल: षोडशवार्षिक: । कालधर्ममनुप्राप्तमेनं शोचामि मातुल: ॥ तयो: कष्टं दशां गौरी द्दष्ट्वा प्रोवाच शङ्करम्‌ । बालोऽसौ जीव्यतां नाथ मदव्रतस्य प्रभावत: ॥५०॥
तथैव कृतवान्‌ देवो भवानिप्रेमवत्सल: । उत्थाय बाल: शनकैगौरीव्रतप्रभावत: ॥ मातुलो हर्षसंयुक्तो निर्गत्य स्वपुरं प्रति । नगरीं तां तु सम्प्राप्तौ यत्र पूर्वमवस्थितौ ॥ द्दष्ट्वा तु पथिकौ दूतैर्नीतौ सत्रगृहं प्रति । तत्र स्थितौ विप्रवर्थौ भुक्तौ ताम्बूलमर्थिनौ ॥ ताम्बूलं मातुले दत्वा ततो लज्जापराङमुखी । रात्रौ भुक्तपतिं ज्ञात्वा ततो रोमान्विताऽभवत्‌ ॥ मात्रा द्दष्टा तु सा कन्या उवाच पतिमात्मन: । सङ्केत: कथ्यतां नाथरजन्यां यदभूत्पुरा ॥ स पृष्ट: सोऽतिनिर्बन्धमुवाच पूर्वचेष्टितम्‌ । वतं ज्ञात्वा तु जनक: पत्न्यै सर्वं न्यवेदयत्‌ ॥ ततो महोत्सवं कृत्वा दायादं प्रददौ मुदा । मातुलोऽप्यगमद ग्राममादाय द्विजकन्यकाम्‌ ॥ ग्रामसीमामनुप्राप्तं पुत्रं तं भार्यया युतम्‌ । जनै: कथितवृत्तान्तं पिता द्रष्टुं समागत: ॥ प्राप्त: पुत्र: सपत्नीको मातुलेन समन्वित: । आलिकं तर्कयामास त्यत्क्वा पुत्रं समागत: ॥ शपर्थर्बहुनिर्बन्धै: सत्यं ज्ञात्वा मुदान्वित: । महोत्सवं तत: पित्रोर्जातं द्दष्ट्वा च दम्पती ॥६०॥
तत: पृष्टा तु सा सर्वं कथयामास पूर्वत: । गौरीदेव्या: प्रभावेण जीवितोऽपि पतिर्मम ॥ मात्रा दत्तं व्रतं मह्यं मङ्गलागौरिसंज्ञितम्‌ । सापि चक्रे व्रतं देव्या मङ्गलागौरिसंज्ञितम्‌ ॥ अवैधव्यं वंशवृद्धि: पुत्रपौत्रादिसन्तति: श्रृण्वतां जायते चात्र अन्ते मुक्तिर्भवेद ध्रुवम्‌ ॥६३॥
इति श्रीभविष्योत्तरपुराणे मङ्गलागौरीव्रतकथा समाप्ता ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:50:52.4270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

pedestal fan

  • पादपीठ पंखा 
RANDOM WORD

Did you know?

सुतकात वर्ज्य कार्ये कोणती? गोड सुतक म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site