TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:|

श्रावणमास: - षोडशसोमवारकथा

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


षोडशसोमवारकथा
श्रीगणेशाय नम: ॥ अषय ऊचु: । सूत सूत महाभाग वतानि सुबहून्यपि । श्रुतानि त्वन्मुखाद ब्रूहि पुत्रदं व्रतमुत्तमम्‌ ॥ सूत उ० ॥ श्रृणुध्वं ब्राह्मणा यूयं पवित्रं पापनाशनम्‌ । सोमवारव्रतं वक्ष्ये सेतिहासं पुरातनम्‌ ॥ वैदर्भदेशे नगरममरावतिनामकम्‌ । तस्मिन्‌ शिवालयं रम्यं नानावृक्षै: सुशोभितम्‌ ॥ कस्मिंश्चित्समये तत्र ह्यागतौ पार्वतीशिवौ । द्दष्ट्वा स्थानं सुरुचिरं वासं चक्रतुरञ्जसा ॥ उवाच शङ्करं गौरी द्यूतक्रीडां चकार स: । तत्रस्थं पूजकं द्दष्ट्वा प्रत्युवाच ह्युमा सती ॥ सत्यं ब्रूह्यावयोर्मध्ये पणं जैष्यति कोऽत्र वै । उवाच पूजको गौरीं शिवो जेष्यत्यसंशयम्‌ ॥ एवं द्यूते समारब्धे पार्वत्या विजित: पण: । पूजकं शापवचनमुवाच जगदम्बिका ॥ असत्यं भाषसे यस्मात्तस्मात्कुष्ठी भवाधम । शैवस्य सर्वगात्रेषु कुष्ठोऽभूच्छापवाक्यत: ॥ ततस्तौ जन्मतु: शीघ्रं कैलासं तु निजालयम्‌ । शैवस्तु परमां चिन्तामवाप च कुरूपत: ॥ तत्रैव वसतिं चक्रेऽहर्निशं तदघं स्मरन्‌ । एकस्मिन्‌ दिवसे तत्र ह्यप्सरो गण आगत: ॥ शिवस्य दर्शनं कर्तुं तेन द्दष्टस्तु शैवक: । ऊचुस्ता: सकला देव्य: शक्रलोकविभृषणा: ॥ केन कर्मविपाकेन दशां प्राप्तो वदस्व न: ॥ शैव उ० । स्ववृत्तान्तं समाचष्टे पार्वत्या: शापकारणम्‌ । श्रुत्वा वाक्यं तु शैवस्य द्दष्ट्वा तस्य कुरूपताम्‌ ॥ आहु: स्वर्लोकवासिन्य: कृपया परया युता: ॥ अप्सरस ऊचु: ॥ भो भो पूजक चिन्तां त्वं मा कुरुष्व स्थिरो भव । उपायं कथयामो वै सोमवारव्रतं कुरु ॥ तेन व्रतप्रभावेण गतकुष्ठो भविष्यसि ॥ शैव उ० ॥ व्रतराजविधिं ब्रूत येन स्याच्छापमाचनम्‌ । विधानं किं फलं पुण्यं कथं कार्यं मयाधुना ॥ अप्सरस ऊ० । श्रावणे कार्तिके माघे वैशाखे वा शुभे दिने । प्रारम्भयेद व्रतं भक्त्या शिवसन्तुष्टिकारकम्‌ ॥ स्वयं भवेन्निराहारो दिनयामचतुष्टयम्‌ । ततस्तु लोहिते भानौ स्नात्वा सनियमो व्रती ॥ सायंकाले सोमवारे शिवपूजां समारभेत्‌ । उपचारै: षोडशभि: पूजां कुर्यादतन्द्रित: ॥ नानापुष्पैस्तथा बिल्वैर्धूपैर्दीपै: सकर्पुरै: । शेटकार्धं समानीय पिष्टं गोधूमसम्भवम् ॥ अङगारकत्रयं कुर्याद्भर्जयेदनलोपरि । घृतं गुडं च संयोज्य कर्तव्यं लडडुकत्रयम्‌ ॥ तस्मादेकं शङ्कराय गवे चैकं समर्पयेत्‌ । लवणेन विना चैव स्वयमेकं तु भक्षयेत्‌ ॥ अजस्रं नियमेनैवं सोमवारांस्तु षोडश । कृत्वा सप्तदशे प्राप्ते सोमवारे श्रृणुष्व तत्‌ ॥ गोधूमपिष्टमानीय चतु:शेटकसम्मितम्‌ । तुर्यपादेन सहितं कुर्यादङ्गारकांस्तथा ॥ भर्जयित्वा तु तान्‌ सर्वान्‌ सम्यक चूर्णं प्रकल्पयेत्‌ । युक्तं घृतगुडाभ्यां वै कृत्वा भागत्रयं कुरु ॥ पात्रे गृहीत्वा तच्चूर्णं गीतवाद्यपुर:सरम्‌ । शिवालयं ततो गत्वा शिवपूजमारभेत्‌ ॥ एकागेण तु चित्तेन पूजां कुर्जात्समाहित: । एकं भागं तु चूर्णस्य शिवस्याग्रे निवेदयेत्‌ ॥ द्वितीयभागं तत्स्थेभ्य:  सर्वेभ्य: प्रतिपादयेत्‌ । शेषं तृतीयभागं तमानयेत्स्वगृहं प्रति ॥ सुहृद्युत: स्वयं कुर्याद्भक्षणं परमाद्दत: । अनेन विधिना सम्यक्‌ व्रतं कुरु यथोदितम्‌ ॥ अनेन व्रतचीणेंन गतकुष्ठो भविष्यसि । इति तासां वच: श्रुत्वा पूजको हृष्टमानस: ॥ व्रतं चकार भावेन गतकुष्ठोऽभवत्तदा । रूपं सुनिर्मलं जातं देवानामपि दुर्लभम्‌ ॥ तत्रैव वासं कृतवान्‌ पूजां कुर्वन्‌ समाहित: । एकस्मिन्‌ दिवसे तत्र पार्वतीपरमेश्वरौ ॥ यद्दच्छया समायातौ विमानेनार्कवर्चसा । द्दष्ट्वा शैवं कुष्ठहीनं विस्मितं परमं गतौ ॥ ऊचे परमया प्रीत्या पूजकं तत्र पार्वती । केन व्रतप्रभावेण जातोऽसि गतकुष्ठक: ॥ पूजक उवाच । जगन्मातनमस्तेऽस्तु त्राहि मा कृपया शुभे । सोमवारव्रतेनैव गत: कुष्ठो ममाशु वै ॥ सूत उ० । इति तस्य वच: श्रुत्वा विस्मिता मनसि ह्यभूत्‌ । करिष्ये व्रतमेतद्धि गुहकोपोपशान्तये ॥ तत: प्रीत्या जगद्धात्री प्रचक्रे विधिवद्वतम्‌ । तेन व्रतप्रभावेण स्वामी जातो विमत्सर: ॥ विचार कृतवान्‌ ह्येवं कोपो मातरि नोचित: । अनाहूतो गत: स्वामी मातृदर्शनलालस: ॥ आगतं स्वामिनं द्दष्ट्वा हर्षेण महतान्विता । अङ्कमारोप्य पुत्रं तं चुचुम्बे मुखपङ्कजम्‌ ॥ केन योगेन मे मात: कोपो नष्टो वदस्व तत्‌ ॥ पार्वत्युवाच । शिवव्रतप्रभावाच्च कोपो नष्टस्तवात्मज । स्वाम्युवाच । कश्यपो ब्राह्मण:कश्चिन्मम मित्रं तु वल्लभम्‌ । अहं व्रतं करिष्यामि तस्य दर्शनकाङ्क्षया ॥ तत: स्वामी व्रतं चक्रे मित्रदर्शनलालस: । मित्रप्राप्तिस्तस्य जाता व्रतस्यास्य प्रभावत: ॥ मित्रस्तु स्वामिनं द्दष्ट्वा ऊचे मधुरया गिरा । केन पुण्यप्रभावेण जातं दर्शनमावयो: ॥ स्वाम्यु० । सोमवारव्रतेनैव तव मित्र समागम: । तदव्रतं कृतवान्‌ विप्रो विवाहोत्सुकमानस: ॥ वतस्य पूर्णतां कृत्वा विदेशे गतवान्‌ द्विज: । मार्गे गच्छन्‌ स विप्राग्यो ददर्श नगरं महत्‌ ॥ प्रविश्य नगर तत्र द्दष्टवान्‌ कौतुकाद द्विज: । तत्र राजा महानासीत्तस्य कन्या स्वयंवर: ॥ तस्या: स्वयंवरार्थं हि मिलिता: सर्वभूभुज: । पणं चकार राजासौ कन्यायाश्च स्वयंवरे ॥ करेणुका रत्नमालां यस्य कण्ठेऽर्पयिष्यति । सर्वलक्षणसम्पन्ना तस्मै कन्या प्रदीयते ॥ स्वयंवरोत्सवं द्रष्टुं गतोऽसौ द्विजपुङ्गव: । तदा विधिवशात्सर्वान्नृपान्मुक्त्वा करेणुका ॥ तां मालां विप्रकण्ठे च समर्पयत दैवत: । वाद्यघोषेण विप्रोऽसौ प्रविष्टो राजसदमनि ॥ यथोक्तविधिना वध्वा विवाहं कृतवान्नृप: । सम्प्राप्य राजकन्यां स जगाम स्वगृहं प्रति ॥ एकदा राजकन्या सा विस्मिता प्रेमभावत: । उवाच मधुरं वाक्यं भर्तारं विप्रपुङ्गवम्‌ ॥ केन पुण्यप्रभावेण प्राप्ता राजसुता त्वया । पथिकेन दरिद्रेण मार्गे बहु धनं यथा ॥ कथयामि स्ववृत्तान्तं तव प्राप्तेश्च कारणम्‌ । सोमवारव्रतेनैव प्राप्ता त्वं राजकन्यके ॥ व्रतप्रभावं सा ज्ञात्वा चक्रे व्रतमनुत्तमम्‌ । मानसं पुत्रमिच्छन्ती राजकन्या वृषध्वजात्‌ ॥ व्रते सम्पूर्णतां याते शिवोऽदान्मानसं सुतम्‌ । दीर्घायु: कुलवान्‌ ज्ञानी गुणवान्‌ रूपवान्‌ छुचि: ॥ दान्त: क्षमी च शूरश्च पुण्यशील: प्रतापवान्‌ । एताद्दशं सुतं प्राप्य मानसं वृषभध्वजात्‌ ॥ स्वमातरमुवाचाथ पुत्रस्तु विनयान्तित: । केन पुण्यप्रभावेण पुत्रप्राप्तिस्तवानघे ॥ मातापुत्रमुवाचेदं कारणं तु शिववतम्‌ । पुत्रस्तु मातरं प्राह ह्यस्ति मे राज्यकामना ॥ तत्र राज्ञ:सुतो नासीत्कन्या चैका शुभानना । तां कन्यां यौवनप्राप्तां द्दष्ट्वाऽथ वरवर्णिनीम्‌ ॥ वरावलोकने यत्नमकरोन्नृपतिस्तदा । योग्यं वरमिमं द्दष्टवा सर्वलक्षणलक्षितम्‌ ॥ प्रधानं प्रेषयित्वा तु वरमानीतवान्‌ प्रभु: । विवाहमकरोद्राजा महोत्सवपुर:सरम्‌ ॥ सा कन्या विधिना दत्ता स्वराज्येन समन्विता ॥ दत्वा राज्यं तु जामात्रे गतो राजा तपोवनम्‌ ॥ राज्यं चकार जामाता प्रजापालनतत्पर: । सोमवारवतेनैव राज्यं प्राप सुदुर्लभम् ॥ सम्पूर्णवतसङ्कल्पस्तस्य राज्ञो महात्मन: । सोमवार: सप्तदश: सम्प्राप्तस्तद्दिने तदा ॥ उवाच राजा स्वां पत्नीं वतस्य विधिमुत्तमम्‌ । गोधूमपिष्टं पादोर्ध्वं चतु:शेटकमानत: ॥ गृहीत्वा भर्जयेदग्नौ कृत्वाङ्गारत्रयं शुभे । तस्य चूर्णं पुन: कृत्वा घृतेन गुडसंयुतम्‌ ॥ शिवालये च तच्चूर्णं शीव प्रेषय कामिनि । इति भर्तृवच: श्रुत्वा विस्मिता राजकन्यका ॥ एवस्मिन्‌  क्रियमाणे तु राज्ञामनुचितं भवेत्‌ ।
इत्थं विचार्य मनसि कथं कार्यं मयाधुना ॥ ततश्व राजपत्नी तु पूजापात्रे निधाय च । रौप्यमुद्रा: पञ्चशतं प्रेषितास्तु शिवालये ॥ ज्ञात्वा स्वव्रतभङगं तु रुष्टोऽभूच्चन्द्रशेखर: । स्वप्नमध्ये तदाऽऽगत्य शिवो राजानमब्रवीत्‌ ॥ तव पत्न्या महाराज व्रतभङ्ग: वृतो मम । व्रतभङगाद्राज्यनाशो भविष्यति न संशय: ॥ त्यज भार्यां महाराज कुरु राज्यस्य रक्षणम्‌ । तत: प्रबुद्धो राजा तु प्रातराहूय मन्त्रिणम्‌ ॥ तेन साकं विचार्याथ प्रधानो नृपमव्रवीत्‌ । राज्यमस्या: पितु: प्राप्तं पत्नीत्यागो हि गर्हित: ॥ इति तस्य वच: श्रुत्वा राजाऽभूच्चिन्तयान्वित: । पुनस्तथा शिवाज्ञप्त:प्रधानं वाक्यमब्रवीत्‌ ॥ उचितस्त्याग एवास्या नोचेद्राज्यं विनश्यति । इत्थं द्वाभ्यां विनिश्चित्य त्यक्ता । सा राजकन्यका ॥ निष्कासिता बहि:सा तु नगराच्च वनं गता । शोचन्ती दीनवदना एकासीत्यादचारिणी ॥ भ्रमन्ती वनमध्ये सा ददर्श नगरं तत: । तत्र गत्वा च वृद्धस्त्रीगृहे वासं चकार ह ॥ वृद्धस्त्री तामुवाचेदमापणे गच्छ भामिनि । विक्रयं तन्तुपुञ्जस्य कृत्वा मौल्यं समानय ॥ तद गृहीत्वा गता मागें महावात्या समागता । हृत्वा कराद्राजपत्न्यास्तन्तुपुञ्जं वियदगतम्‌ ॥ तदगृहं पुनरागत्य दीना तूष्णीमवस्थिता । ज्ञात्वा सा जरठा सर्वमितो गच्छेति चात्रवीत ॥ तदगृहादागता साध्वी तैलकारस्य वेश्यमनि। तैलपूर्णा: पञ्चकुम्भा भग्नास्तद्दर्शनात्तदा ॥ उवाच तां तैलकार इतो गच्छ कृपां कुरु । तेन निष्कासिता सा तु नदीतीरं समागता ॥ सा नदी निर्जला जाता गहना कर्मणो गति: । वने वासं चकाराथ दुःखेन च महावृता ॥ इतस्ततो भ्रमन्ती च सा ददर्श सरोववरम्‌ । नानापक्षिगणैर्युक्तं नानावृक्षोपशोभितम्‌ ॥ कुमुदोप्तलकल्हारै: शोभितं जलपूरितम्‌ । तस्या दर्शनमात्रेण तज्जले कृमयोऽभवन्‌ ॥ गोभि: सह समायाता गोपास्तस्मिन्‌सरोवरे । तज्जलं पातुकामास्ते दद्दशुस्ते जले कृमीन् ॥ तत्र द्दष्ट्वाराजपत्नी मूचुस्ते गोपबालका: । अस्या दर्शनमात्रेण कीटा जाता: सहस्रश: ॥ इति कोलाहलो जातो गोपबालै: कृतस्तदा । कोलाहलमुपश्रुत्य जटिल: कश्चिदागत: ॥ शिवाल्ये सुखासीनो नातिदूरं शिवालयम्‌ । गृहीत्वा राजपत्नीं तांजटिलोऽगाच्छिवालयम् ॥ दीनामश्रुमुखीं भीतां द्दष्ट्वोवाच कृपामना: । नि:शङ्कं राजपुत्रि त्वं वासं कुरु ममाश्रमे ॥ कन्यातमं पालयिष्ये दत्वाऽन्नाच्छादनं तव । श्रुत्वा वाक्यं कृपायुक्तमुवास कृपणा सती ॥ सर्वं चकार दासीवत्सेकसंमार्जनादिकम्‌ । दु:खमीद्दक्‌ तया प्रासं व्रतभङगाच्छिवस्य च ॥ राजपत्न्या: करस्पर्शान्नदीशुष्का जलेष्वपि । अभवन्‌ कीटका नित्यमीश्वरक्षोभकारणात्‌ ॥ इत्यदभुततमं द्दष्ट्वा जटिलो विस्मितोऽभवत्‌ । अस्या: शरीरे पापानां बाहुल्यं वर्तते ध्रुवत्‌ ॥ तत्पापपरिहारार्थमनुष्ठानं करोम्यहम्‌ । इति सञ्चित्य मनसा शिवमन्त्रं जजाप स: ॥ जपानुष्ठानमात्रेण प्रसन्नोऽभूत्सदाशिव: । वरं ब्रूहि महायोगिन्‌ किं ते मनसि वर्तते ॥ इत्युक्त: शङ्करेणाशु प्रार्थयामास बै जटी । अनया किं कृतं पापं तद्वदस्व सदाशिव ॥ शिव उ० ॥ शिवयोगिन्‌ सोमवारवतभङ्गस्तया कृत: । तेन दोषेण महता दुःखिता राजकन्यका ॥ तद्दोषपरिहारार्थं सोमवारवतं शुभम् । कर्तव्यमनया शीघं मम सन्तोषकारकम्‌ ॥ वतस्याचरणाद्योगिन्‌ भविता पापसङक्षय: । अचिरेणैव कालेन स्वभर्त्तारमुपैष्यति ॥ इत्युक्त्वा जटिलं शम्भु: कैलासं गतवान्‌ प्रभु: । तत: सम्बोधिता तेन जटिलेन कृपालुना ॥ सोमवारवतं चक्रे भक्त्या परमया युता । वतप्रभावात्सञ्जाता  भर्तुस्तस्या: स्मृतिस्तदा ॥ मम पत्नी राजकन्या क्व गता पादचारिणी । सिंहव्याघ्रादिभिर्दुष्टैर्भक्षिता वा मृता सती ॥ वने वा नगरे ग्रामे अस्ति वा यत्र कुत्रचित्‌ । अन्वेषणे ततो राज्ञा चारा: सम्प्रेषितास्तदा ॥ तत: सर्वेषु देशेषु वनेषु नगरेषु च । चक्रुस्ते मार्गणं तस्या दिवानिशमतन्द्रिता: ॥ भ्रमित्वा सर्वदेशेषु परिश्रान्ता: सुदु:स्विता: । आगतास्ते ततश्वारा जटिलस्याश्रमं प्रति ॥ तत्र द्दष्ट्वा राजपन्तीं हर्षोद्भरितमानसा: । नमस्कृत्वाऽथ जटिलमूचुस्ते विनयान्विता: ॥ नृपाज्ञया त्विमां नेतुमागता:स्म तवाश्रमम् । दातुमर्हसि योगीन्द्र राजपत्नीं पतिवताम्‌  ॥ इति चारवच: श्रुत्वा जटिलो वाक्यमव्रवीत । नाहं दास्यामि युष्माकं राजपन्तीं कदाचन ॥ निवेदयत राजानं स च युक्तं करोतु तत्‌ । इति तस्य वच: श्रुत्वा चारास्ते पुनरागता: ॥ राजानं कथयामासु:सर्वं वृत्तान्तमञ्जसा । जटिलस्याश्रमे राजन्‌ वर्तते तव वल्लभा ॥ भवद्दर्शनमिच्छन्ती शिवाराधनतत्परा । तामानेतुं समागच्छ त्वमेव नृपसत्तम ॥ योगिराजस्य राजेन्द्र दर्शनं ते भविष्यति । इति चारवच:श्रुत्वा राजाऽभूद्धृष्टमानस: ॥ चाराणां बेतनं दत्वा कर्तव्यार्थं विचिन्तयत्‌ । तत: प्रधानमाहूय विचारं कृतवान्नृप: ॥ मया पत्नीं समानेतुं गन्तव्यं भवता सह । इति निश्चित्य राजासौ निर्जगाम तत; पुरात्‌ । जटिलस्याश्रमं गन्तुं सामात्य: सर्वसैनिक: । गत्वा तस्याश्रमं पुण्यं ददर्श जटिलं नृप: ॥ उवाच वल्गुवाक्येन पवित्रोऽहं त्वयानघ । अद्य मे सफलं जन्म अद्य मे सफलं तप: ॥ अद्य मे सफलं तीथे सफलाश्च मनीरथा: । दर्शनात्तव योगीन्द्र कृतकृत्योऽस्मि सर्वदा ॥ इति राज्ञो वच: श्रुत्वा प्रसन्नो जटिलस्तदा । पस्पर्श स्वकरेणैव राजानं विनयान्वितम्‌ ॥ पृष्ट्वा निरामयं सर्वमुक्तवान्नृपसत्तमम्‌ । ज्ञातं मया महाराज तवागमनकारणम्‌ ॥ मया तव प्रिया होषा पालिता पुत्रिका समा । गृहाण पत्नीं सुभगां तव दर्शनमिच्छति ॥ पुत्रानुत्पाद्य नीतिज्ञान्  भुङक्ष्व भोगान्यथोप्सितान्‌ । पुत्रे राज्यं समाधाय परं पदमवाप्त्यसि ॥ इत्युक्त्वा प्रददौपत्नीं राज्ञस्तस्य महातपा: । ततो नृप:प्रहृष्टात्मा पुरत: प्राञ्जलि: स्थित: ॥ पूजयामास जटिलं बहुमानपुर:सरम्‌ । सुवर्णै रत्नमणिभिर्वस्त्रालङकारभूषणै: ॥ नमस्कृत्वा मुनीन्द्राय पत्नीं जग्राह चाद्दत: । विनता राजकन्या सा ननाम चरणौ मुने: ॥ गृहीत्वा तु मुनेराज्ञामाशिषं समवाप्य च । पृष्ट्वा सर्वानाश्रमस्थानागता भर्तृसन्निधौ ॥ शिबिकां तां समारोप्य ययौ स्वनगरं नृप: । प्रविवेश पुरं राजा हर्षेण महतान्वि त: ॥ ध्वजैर्हेमपताकाभि: काञ्चनै: कलशैस्तथा । मुक्ताजालैर्बितानैश्च तोरणै: समलङकृतम् ॥ सिक्तं चन्दनसेकाद्यैर्नरनारीसुशोभितम्‌ । तत: स्वगृहमागत्य ब्राह्मणान्दक्षिणादिभि: ॥ तोषयित्वा तथा पौरान्‌ ताम्बूलैर्वस्त्रभूषणै: । बहु कालं तया रेमे यथा शच्या दिवस्पति: ॥ राज्यं चकार नित्यं च प्रजापालनतत्पर: । भुक्त्वा भोगांस्तथा पुत्रानुत्पाद्य कुलभूषणान्‌ ॥ इष्ट्वा बहुविधैर्यज्ञै: कव्यै: स्तोष्य पितृनपि । पुत्रे राज्यं समास्थाय जगाम तपसे वनम्‌ ॥ तस्मिन्‌ शिवं समाराध्य प्राप्तवान्‌ परमं पदम्‌ । सूत उवाच ॥ इत्येतत्कथितं विप्रा व्रतानामुत्तमं व्रतम्‌ । सुगुप्तं पुत्रदं सोमवारषोडशनामकम्‌ ॥ धर्मकामार्थमोक्षाणां साधनं शिवतोषकृत्‌ । एतद व्रतं य: कुरुते सर्वान्कामानवाप्तयात्‌ ॥ पुत्रार्थी पुत्रमाप्नोति धनार्थी धनमाप्नुयात्‌ । बहुना किमिहोक्तने वन्ध्यापि लभते सुतम्‌ ॥ एवं व्रतस्य महिमा कथित: सेतिहासक: । करोति व्रतकर्तारं शिवो भक्तं सदा शिवम्‌ । एतदव्रतण ता क्रुरुते च नारी भर्त्रा समेता रमते सुखेन । पुत्रान्‌ समाप्नोति व्रतप्रभावादन्ते च मुक्तिं लभते ध्रुवं सा ॥ अश्वमेधेन यत्पुण्यं बाजपेयेन यद्भवेत्‌ । कथाश्रवणमात्रेण तत्पुण्यं लभते नर: ॥ इत्येतत्कथितं विप्रा रहस्यं सविधानकम्‌ । यस्यानुष्ठानमात्रेण कोटियज्ञफलं लभेत्‌ ॥ इति श्रीषोडशसोमवारकथा समाप्ता ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:50:52.1300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सावली पडणें

  • पूर्वचिन्हें होणें. 
  • परिणाम होण्याइतकें जवळ, आटोक्यांत असणें. ‘ नवव्या मासाची सावली पडल्यावर बाळंत झाली तर पोरास भय नाहीं.’ 
  • परिणाम होणें 
  • अनुकरण करणें. 
RANDOM WORD

Did you know?

श्रीयंत्र स्थापना व मुहूर्त याबद्दल माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.