TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:|

श्रावणमास: - जन्माष्टमीपूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


जन्माष्टमीपूजाविधि:
यत्पुरुषं० वनस्पतिरसोदभूतं कालागरुसमन्वितम्‌ । गृहाण देवदेवेश गुणसागर गोपते ॥ धूपं ॥ ब्राह्मणो० त्वं ज्योति: सर्वदेवानां तेजस्त्वं तेजसां परम्‌ । आत्मज्योतिर्नमस्तुभ्यं दीपोऽयं प्रति० ॥ दीपं ॥ चन्द्रमाम० नानागन्धसमायुक्तं भक्ष्यभोज्यं चतुर्विधम्‌ । नैवेद्यार्थं मया दत्तं गृ० ॥ नैवेद्यं० ॥ आचमनं० । करोद्वर्तनं० । ताम्बूलं च सकर्पूरं पूगीफलसमन्वितम्‌ । मुखवासकरंरम्यं प्रीतिदं प्रति० ॥ ताम्बूलं० । सौवर्णं राजतं ताम्रं नानारत्नसमन्वितम्‌ । कर्मसादगुण्यसध्यर्थं दक्षिणा प्रतिगृह्यताम्‌ ॥ दक्षिणां० ॥ रम्भाफलं
नारिकेलं तथैवाम्रफलानि च । पूजितोऽसि सुरश्रेष्ठ गृह्यतां कंससूदन ॥ फलं० ॥ श्रियेजा० कर्पूरनिर्मितं दीपं स्वर्णपात्रे निवेशितम्‌ । नीराजनं मया दत्तं वरद प्रति० ॥ कर्पूरदीपं० । नाभ्याआ० । यानि कानि० प्रदक्षिणां० । सप्तास्यास० नमस्ते देवदेवेश नमस्ते करुणालय । नमस्ते सर्वभूतेश नमस्ते लोकसाक्षिणे ॥ नमस्कारान्‌० ॥ यज्ञेन यज्ञ० अञ्जलिस्थानि पुष्पाणि अर्पयामि जगत्पते । गृहाण सुमुखो भूत्वा जगदानन्ददायक ॥ पुष्पाञ्जलिं० ॥ सर्वोपचारपूजनसमाप्तौ द्वादशाङ्गलविस्तारं रौप्यमयं स्थण्डिलादिलिखितं प्रत्यक्षं वा रोहिणीयुतं चन्द्रम्‌-सोमेश्वराय सोमाय तथा सोमोद्भवाय च । सोमस्य पतये नित्यं तुभ्यं सोमाय वै नम: ॥ इति गन्धादिभि: सम्पूज्य शङ्खेन पुष्पचन्दनकुशसहितं जलमादायार्ध्यं दद्यात्‌ । क्षीरोदार्णवसम्भूत अत्रिगोत्रसमुद्भव । गृहाणार्घ्यं शशाङ्केदं रोहिण्या सहितो मम ॥ चन्द्रमसे नम इदमर्ध्यं० ॥ ज्योत्स्नापते नमस्तुभ्यं ज्योतिषां पतये नम: । नमस्ते रोहिणीकान्त अर्ध्यं  न: प्रति० ॥ चन्द्रमसे नम: इदमर्ध्यं० । तत: श्रीकृष्णायार्ध्यां  दद्यात्‌ । जात: कंसवधार्थाय भूभारोत्तारणाय च । पाण्डवानां हितार्थाय धर्मसंस्थापनाय च ॥ कौरवाणां विनाशाय दैत्यानां निधनाय च । गृहाणार्ध्यं मया दत्तं देवक्या सहितो हरे ॥ देवकीसहितश्रीकृष्णाय० इदमर्ध्यं० । तत: प्रार्थयेत्‌ । त्राहि मां सर्वलोकेश हरे संसारसागरात्‌ । त्राहि मां सर्वपापघ्न दुःखशोकार्णवात्प्रभो ॥ सर्वलोकेश्वर त्राहि पतितं मां भवार्णचे । त्राहि मां सर्वदुःखघ्न रोगशोकार्णवाद्धरे ॥ यस्य-स्मृत्या० । अनेन मया कृतेन पूजनेन श्रीकृष्णाद्यावाहितदेवता: प्रीयन्ताम्‌ ॥ ततस्तां रात्रिं पुराणश्रवणादिना नयेत्‌ । प्रात:काले उत्तरपूजां विधाय उक्तपारणानिर्णीते काले ब्राह्मणान्‌ सम्भोज्य, ओंनमो वासुदेवाय गोब्राह्मणहिताय च । शान्तिरस्तु शिवं चास्तु इत्युक्त्वा मां विसर्जयेत्‌ ॥ इत्यनेन देवता विसृज्य स्वयं भुञ्जीत ॥ इति जन्माष्टमीपूजाविधि: ॥

॥ अथ जन्माष्टमीकथाप्रारम्भ: ॥

इन्द्र उवाच ॥ कथयस्व रहत्यं मे व्रतानामुत्तमं व्रतम्‌ । यन्न कस्यचिदाख्यातं तन्मे ब्रूहि तपोधन ॥ नारद उवाच ॥ श्रृणु देवेन्द्र वक्ष्यामि व्रतानामुत्तामं महत । कृष्णजन्माष्टमी नाम तिथि: पूर्वाधनाशिनी ॥ तस्यां कृष्णं समभ्यर्च्य सर्वपापक्षयो भवेत्‌ । आयुरारोग्यमैश्वर्यं चतुर्वर्गश्च जायते ॥ इन्द्र उवाच ॥ का सा जन्माष्टमी ब्रह्मन्‌ कथं देवं समर्चयेत्‌ । कृष्ण: कोऽसौ यदर्चातो भुक्तिर्मुक्तिश्च जायते ॥ नारद उवाच ॥ पुरा यदुकुले राजा कंसो नामासुरोभवत्‌ । विष्णुना निहतो देत्य: कालनेमिरितिश्रुत: ॥ स एव जात: कंसाख्य उग्रसेनसुतो बली । तस्यानुजा रूपवती देवकीत्येव विश्रता ॥ पिता तां बसुदेवाय ददौ शूरात्मजाय तु । गते बहु तिथे काले कंसो देवज्ञमब्रवीत्‌ ॥ वद दैवज्ञ मे मृत्युर्भविता कीद्दश: कुत: । यदि जानामि मे मृत्युं करिष्ये तत्प्रतिक्रियाम्‌‍ ॥ दैवज्ञ उवाच ॥ तवानुजा तु या बाला देवकी नाम विश्रता । तस्यास्त्वामष्टमो गर्भो हनिष्यति न संशय: ॥ माघासितचतुर्दश्यां तब मृत्युर्भविष्यति । नारद उवाच ॥ एवमुक्तस्तदा कंसश्चिन्ताशोकपरायण: ॥१०॥
भगिनीं हन्तुमारब्धो भावित्बान्न जघान ताम्‌ । किन्तु कारागृहे क्षिप्त्वा जातं जातमहन्‌ शिशुम् ॥ हतेषु षट्सु बोलषु देवक्या औग्रसेनिना । विस्रस्ते सप्तमे गर्भे भगवानष्टमो भवत्‌ ॥ तत:कारागृहद्वारि सन्नद्धानसुरान्बहून्‌ । श्रृङ्खलार्गलकीलादियत्नं बहु चकार स: ॥ कदाचिद्देवकी देवी जलाहरणकैतवात्‌ । आगता यमुनातीरमश्वत्थस्य तले स्थिता ॥ भ्रातुदौंरात्म्यमालोक्य रुदन्ती शोककर्षिता । नन्दपत्नीं यशोदाख्यां गुर्विणीं दद्दशेन्तिके ॥ तामाहूय सखीं तत्र निजं दुःखं न्यवेदयत्‌ । ततो नन्दवधू प्राह यदि मे कन्यका भेवत्‌ ॥ त्वत्पुत्रसमकालं तु तदा विनिमयोऽस्तु नौ । कन्यायां त्वयि नीतायां कंसो नैनां हनिष्यति ॥ श्रुत्वा तु देवकीवाक्यं यशोदा प्रीतमानसा । विसर्जयिता शिबिरं पुन: प्रायात्‌ त्वरान्विता ॥ ततो भाद्रासिताष्टम्यां निशीथे सुषुवे सुतम्‌ । यशोदापि तदा कन्यां नन्दपत्नी व्यजीजनत्‌ ॥ देवक्या नोदितस्तत्र वसुदेव: सुतं निजम्‌ । विनिमातुं समादाय प्रययौ नन्दगोकुलम्‌ ॥२०॥
यशोदाशयने स्थाप्य बालमादाय कन्यकाम्‌ । पुनरागान्निजं वेश्म द्वारपालैर्न वीक्षित: ॥ ततो बालध्वनिं श्रुत्वा द्वारपालैर्निवेदितम्‌ । निशम्य कंस: कुपित: प्रययौ देवकीगृहम्‌ ॥ बलादाकृष्य तां कन्यां भ्रामयित्वा शिलातले । चिक्षेप सा गताऽऽकाशं सायुधाष्टभुजान्विता ॥ अब्रवीत्किं मया मन्द हतया ते भविष्यति । तव प्राणहरो जातो नन्दगोपकुलेऽर्भक: ॥ तया कथितमाकर्ण्य कंसश्चिन्तापरायण: । पूतनां प्रेषयामास राक्षसीं बालघातिनीम्‌ ॥ योषित्त्वान्माययात्मानं नन्दगोकुलमागता । सूतीशयनतो बालमादाय प्रददौ स्तनम्‌ ॥ बाल: स्तन्यं समप्राणैराचकर्ष निमीलयन्‌ । तेनातिविह्णला भीता त्यक्त्वा तं प्राद्रवद्भयात्‌ ॥ तत: कंसोऽसुरं भीमं द्विजरूपमनोदयत्‌ । सोऽपि भिक्षाटनच्छद्मा यशोदामन्दिरं ययौ ॥ यशोदास्नापितं बालं सुप्तं वीक्ष्य द्विजं च तम्‌ । स्नातुं गन्तुमना: सुभ्रूर्द्विजं स्थाप्य विनिर्गता ॥ ततो द्विज: समुत्थाय बालं हन्तुसमुद्यत: ॥३०॥
बालोऽप्येनं जिघृक्षन्तं भृशमाहत्य मुष्टिभि: । धृत्वा करे शिरस्तस्य दधिभाण्डे न्यवेशयत्‌ ॥ पुनर्बालवपुर्भूत्वा सुष्वापैव स पूर्ववत्‌ । स्नात्वाऽऽगता: यशोदा तु द्विजं द्दष्ट्व्वै ताद्दशम्‌ ॥ दधिभाण्डगतग्रीवं निर्भत्स्यैनं व्यवासयत्‌ । श्रुत्वा चिन्तापर: कंसो नन्दमाहूय चाब्रवीत्‌ ॥ पारिजातप्रसूनानिश्व: प्रभाते समानय । नोचेत्त्वां निहनिष्यामि सदारपशुबान्धवम्‌ ॥ गृहमागत्य नन्दोऽपि चिन्ताशोकपरायण: । रुरोद भृशसन्तप्तो यथोदाऽनुशुशोच तम्‌ ॥ रुदन्तौ पितरौ वीक्ष्य श्रुत्वोदन्तं च तन्मुखात्‌ । ययौ कन्दुकमादाय शिशुभिर्यमुनातटम्‌ ॥ ततो निजेच्छया तोये कृष्णश्चिक्षेय कन्दुकम्‌ । तत: कदम्बमारुह्य कन्दुकादानकौतुकी ॥ पपात यमुनातोये गत: कालियसद्मनि । नागभार्या समालोक्य बालं कोमलमब्रबीत्‌ ॥ मनोज्ञ कोऽसि कस्यासि कथमागमनं तव । भीतोऽसि किं कुतो द्यूतो द्यूते पराजित्यागतोऽसि वा ॥ अपेक्षसेऽत्र किं ब्रूहि कालियोऽतीव निर्दय: । यदि जागर्त्ति भस्म त्वां करिष्यति न संशय: ॥४०॥
नागभार्यावच: श्रुत्वा तत: कृष्णो जगाद ताम्‌ । सम्यक्‌ ज्ञातं त्वया भीरु मया द्यूते पराजितम्‌ ॥ कंसेनासं मम द्यूतं कालियस्य शिरो ग्लह: । समायातस्तदा दातुं प्रतिबोधय कालियम्‌ ॥ तच्छुत्वा त्वरिता भीता कालियं वाक्यमब्रवीत्‌ । किं सुप्तोऽसि चिरं मूढ द्वारे शत्रु: समागत: ॥ कालियोऽपि तत: कोपात्फूत्कारानी रयन्मुहु: । आजगाम त्वरा कृष्णं गरुडस्थं ददर्श तम्‌ ॥ अथ भीतो हरिं ज्ञात्वा प्रणम्यानर्च भक्तित: । पारिजातोद्भवैर्मल्यैर्दिव्यै रत्नाम्बरादिभि: ॥ तत: प्रसन्नो भगवानब्रवीत्प्रणतं प्रति । अभयं तेऽस्तु मां कंसे प्रापयस्वाविचारत: ॥ ततो रुदन्तीं तत्पत्नीमाश्वास्य प्रययौ हरि: । दत्वा कंसाय माल्यानि पित्रोस्तत्सन्यवेदयत्‌ ॥ द्दष्ट्व्वा कंसोऽपि बालस्य महिमानमलौकिकम्‌ । भीतस्तस्य वधार्थाय दानवान्‌ समचोदयत्‌ ॥ अरिष्टं धेनुकं वत्सं बकं केशिनमेव च । गतास्ते विलयं सर्वे कृष्णबाहुलार्दिता: ॥ धनुर्मखमहच्छद्म कृत्वा गोपान्समाह्णयत्‌ । अथ नन्दादयो गोपा गृहीत्वोपायनं बहु ॥५०॥
सबालवृद्धमहिला मथुरां गन्तुमुद्यता: । कृष्णोप्यागत्य मथुरां बलदेवादिभिर्वृत: ॥ अतिवाह्य निशामेकां प्रभाते गन्तुमुद्यत: । रङ्गद्वारि समासीनं महामात्रेण नोदितम्‌ ॥ द्वीपं कुवलयापीडं ह्त्वा रङ्गे समागत: । तत्र दृष्टवा तु तौ मल्लौ घोरौ चाणूरमुष्टिकौ ॥ शलं तोशलकं चैव निजघान सलीलया । तत उत्प्लुत्य तरसा राजमञ्चं समारुहत्‌ ॥ अपहृत्यास्य मुकुटंमञ्चाद्‌ भूमावचिक्षिपत्‌ । तत: पपातास्य हृदि सोऽपि प्राणानवासृजत्‌ ॥ ततो गृहीत्वा केशेषु विचकर्ष सभातले । सोऽयं कंसवधार्थाय भगवान्कृष्णरूपधृक ॥ जातो यदुकुले तस्य व्रतं पापप्रणाशनम्‌ । भाद्रे मास्यसिताष्टम्यामस्य व्रतमुदीरितम्‌ ॥ मण्डपंकारयेत्तत्र तोरणाद्यैरलङ्कृतम्‌ । तत्र संस्थाप्य देवेशं सौवर्णं शक्तित:कृतम्‌ ॥ देवकीं वसुदेवं च यशोदां नन्दमेव च । यमुनां कालियमपि क्रुर्याच्छक्ति विनिर्मितान्‌ ॥ हैमान्वा राजतांस्तामान्मृन्मयान्वापि कारयेत्‌ । शक्त्या सम्पूज्य देवेशं दत्वा दानान्यनेकश: ॥६॥
उत्सवं कारयेत्तत्रगीतवाद्यादिमङ्गलै: । मरिचं पिप्पलीं शुण्ठिं जातीफललवङ्गकम्‌ ॥ स्थापयेत्सूतिकागेहे ताम्बूलाद्यं निवेदयेत्‌ । एवं सम्पूज्य यत्नेन रात्रौ जागरणंचरेत्‌ ॥ प्रात: सम्पूज्य देवेशं ब्राह्मणान्‌ भोज्य शक्तित: । व्रतं सम्पूर्णतामेति भुक्तिमुक्तिफलप्रदम्‌ ॥ सर्वपापक्षयकरं कथाश्रवणमात्रत: । नारद उवाच ॥ ईद्दग्विधं ते कथितं व्रतं पापप्रणाशनम्‌ ॥ यस्यानुष्ठानमात्रेण सर्वपापै: प्रमुच्यते ॥ इति श्रीभविष्योत्तरपुराणे जन्माष्टमीव्रतकथा समाप्ता ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:50:53.3030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

संबंध-संबंध सुटला आणि तंटा मिटला

  • आपण एखाद्या माणसाचा संबंध सोडला म्हणजे आपोआपच तंटयाचा निकाल लागतो. 
RANDOM WORD

Did you know?

देवक म्हणजे काय ? त्याचे महत्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.