TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:|

श्रावणमास: - हलषष्ठीपूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


हलषष्ठीपूजाविधि:
॥ अथ हलषष्ठीपूजाविधि: ॥

भाद्रपदकृष्णषष्ठी हलपष्ठी । सा वन्ध्याकाकवन्ध्यामृतवन्धादिभिर्वा सुवासिनीभिर्दीर्घायु:पुत्रपौत्रादिसन्तानप्राप्त्यर्थं कार्या । स्नात्वा मध्याह्णसमये इत्युक्तत्वात्सा मध्याह्नव्यपिनी ग्राह्या । प्रात: सुवासिनीपञ्चकमामन्त्र्य पूजास्थानं रङ्गवल्यादिभि: कदलीस्तम्भैश्च मण्डितं कुर्यात्‌ । पञ्चपक्वान्नसहितसौभाग्यद्रव्ययुक्तपञ्चवायनानि सम्पाद्य तथाबदरीशाखां पलाशशाखां कुशस्तम्बं काशस्तम्बं भवानीशङ्करप्रतिमां पूजासामग्रीं च सम्पाद्य मध्याह्णे स्नात्वा धौतवस्त्रावृता श्रृङ्गाराभरणानि च धृत्वा सगीतवादित्रनिर्घोषै: सुवासिनीभि: सह पूजास्थानं प्रविश्य पूजां समारभेत्‌ । तत्र बदरीशाखादीनां रोपणं कृत्वा समन्ततो नूतनवस्त्रेणावेष्टय तदग्रे भवानीशङ्करप्रतिमां स्थापयेत्‌ । ब्राह्मणै: स्थापनं कुर्यादियुक्तत्वात्तदभावे स्त्रिया तत्कर्तुमशक्यत्वात्पतिना सह पूजा कार्येतियुक्तमिति प्रतिभाति । देशकालौ० ममेह जन्मनि जन्मान्तरे च वन्ध्याकाकवन्ध्यामृतवन्ध्यादिदोषपरिहारद्वारा दीर्घायु:श्रीर्विपुलकीर्तियुतपुत्रपौत्राद्यनवच्छिन्नसन्ततिप्राप्त्यर्थं अस्यां हलषष्ठयां भवानीशङ्करदेवताप्रीत्यर्थं षोडशोपचारै: भवानीशङ्करपूजनमहं करिष्ये । तदङ्गत्वेन गणपतिपूजनं आसनविधिं प्रजनने ब्रह्मा तिष्ठत्विति पुरुषसूक्तेन वा न्यासान्‌ कलशपूजनं शङ्खघण्टापूजनं च करिष्ये । गणपतिपूजनादिपूजासम्भारप्रोक्षणान्तं कृत्वा प्रतिमाया अग्न्युत्तारणे प्राणप्रतिष्ठां च कुर्यात । प्राणप्रतिष्ठाविधिश्च सिद्धिविनायकपूजायां द्रष्टव्य: । अथ ध्यानम्‌ । कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम्‌ । सदावसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥ भवानीशङ्कराभ्यां नम इत्यनेन पुरुषसूक्तेन वा षोडशोपचारपूजां कुर्यात्‌ । आवाहनं न जानामीत्यादीना क्षमाप्य यस्य स्मृत्येत्यादिना सम्प्रार्थ्य ततो सखीभिस्सह कथां श्रृणुयात्‌ । ततो ब्राह्मणपूजनं, सुवासिनीपूजनं, वायनं दत्वा, सम्भोज्य, तद्दिने हलकृष्टान्नगोपयोदध्यादिवर्जं भुञ्जीयात्‌ । श्व:प्रात: विसर्जनं कृत्वा पूजापीठं ब्राह्मणाय दत्वा समापयेत्‌ ।
॥ इति हलषष्ठीपूजाविधि: ॥

॥ अथ हलषष्ठीकथाप्रारम्भ: ॥

सूत उवाच । लसत्प्रसन्नवदनां नीलोत्पलदलेक्षणाम्‌ । स्वर्णसिंहासनगतां दिव्यवस्त्रोपशोभिताम्‌ ॥ माणिक्यमणिरत्नोघै: कृताभरणभूषिताम्‌ । वृद्धां देवीं प्रणम्याथ पप्रच्छु: किन्नरस्त्रिय: ॥ स्त्रिय ऊचु: । कृतानि षहुशो देवि त्वत्प्रसादाद्वतानि वै । हलषष्ठीव्रतं सम्यगस्मभ्यं वक्तुमर्हसि ॥ वृद्धोवाच । समाप्ते श्रावणे मासि कृष्णे भाद्रपदस्य च । हलषष्ठी विधातव्या स्त्रीभि:स्वात्महितेच्छया ॥ पुत्रपौत्रप्रदा सा च सुखसौभाग्यवर्धिनी । तद्दिने हलकृष्टान्नं वर्जयेद गोपयो दधि ॥ सुवासिनी; सुप्रभात समामन्त्र्य व्रतार्थिनी । स्नात्वा मध्याह्णसमये धौतवस्त्रावृता तथा ॥ सखीभि: संप्रहृष्टात्मा श्रृङ्गारतिलकादिभि: । गीतवादित्रनिर्घोषै: समाच्छादितदिङमुखा ॥ पूजोपचारमाहृत्य पूजास्थानं प्रविश्य च । रोपयेद बदरीदर्भकाशपालाशपल्लवान्‌ ॥ एकीकृत्य सुवस्त्रेण वेष्टयेन्नूतनेन च । तस्याग्रे तु विधानेन कृत्वा गौरीं शिवं तथा ॥ प्रतिष्ठाप्य प्रतिष्ठाभिर्ब्राह्मणैर्वेदपारगौ: । कुर्यात्प्रयत्नत: पूजां गन्धपुष्पाक्षतादिभि: ॥ धूपैर्दीपै: सनैवेद्यैरुपचारैरनेकधा । एवं पूजां समाप्याथ कथां च श्रृणुयात्तत: ॥ हलषष्ठी व्रतस्यास्य माहात्म्यं सखिभि:सह । आसीच्चन्द्र्पुरे रम्ये चन्द्रभट्ट: सुशो भन: ॥ तस्य पत्नी विशालाक्षी साध्वी पतिपरायणा । द्वे तस्याश्चेटके आस्तां मानाधानेति विश्रुते ॥ वन्ध्याभिस्तिसृभिर्भट्टो राजानं सेवतेऽन्वहम्‌ । तस्मात्प्रसादमासाद्य सम्मानेन समर्चित: ॥ समाप्य सेवां भूपस्य स्वगृहं गन्तुमुद्यत: । स्वगृहं गच्छता तेन द्दष्टं स्वस्थानसेचनम्‌ ॥ न ब्रह्महा न गोध्नोऽहं न कुष्ठी न च दुर्गति: । न चौरो न च पापिष्ठ: कस्मान्मे स्थानसेचनम्‌ ॥ इति चिन्तानतमुख: स संपप्रच्छ वारिदम्‌ ॥ चन्द्रभट्ट उवाच । त्वं मा कथय भोमित्र कुतो मे स्थानसेचनम्‌ । वारिद उवाच । पृष्टश्चैवं त्वया भट्ट सत्यं सत्यं वदाम्यहम्‌ । भोभट्ट त्वमपुत्रोऽसि तस्मात्ते स्थानसेचनम्‌ ॥ श्रुत्वा वचस्तस्य भट्टो दुःखेन परितापित: । गत्वा गेहे न्यपतत स्वाङ्गान्याच्छाद्य वाससा ॥ चिन्तया किं करोमीति पुत्रोत्पत्ति: कथं भवे‌त्‌ । तत: सुलोचना भार्या तत्सकाशमुपागता ॥ द्दष्टवा सा दुःखितं नाथं प्रोवाच मधुरस्वना ॥ सुलोचनोवाच । भो भो नाथ स्वदु:स्वस्य कारणं कथय प्रभी । हृदयं मेऽन्यथा तूर्णं विदीर्यत्येव निश्चितम्‌ ॥ चन्द्रभट्ट उवाच । श्रुणु प्रिये सभामध्ये प्रोत्थितस्य ममासनम्‌ । अपुत्रकत्वात्संसिक्तं वारिदेनेति दुःखित: ॥ किं करोमि क्व गच्छामि कथं पुत्रस्तु लभ्यते । इति भर्तुर्वच: श्रुत्वा सापि चिन्त:पराऽभवत्‌ ॥ तत: स चन्द्रभट्टोऽपि गतो ऽसौ वनगह्णरम्‌ । व्रतं निरशनं कृत्वा जपन्‌ दुर्गां हृदि स्थिताम्‌ ॥ वनं विवेश स व्याघ्रसिंहशार्दूलसवितम्‌ । वनाद्वनान्तरं गत्वा सोऽपश्यद्देवतालयम्‌ ॥ अधिष्ठितं महादेव्याश्चतुर्द्वारैश्च शोभितम्‌ । स तत्र स्तवनं चक्रेअ महादेव्या द्दढासन: ॥ निराहारस्य जपत;: सिद्धो मन्त्र: प्रयत्नत: । गतान्यहानि बहुश: चन्द्रभट्टस्य धीमत: ॥ अथ रात्रौ कृपायुक्ता महादेवी समागता । वरं ब्रहि वरं ब्रूहि प्रजल्पन्‌ सस्मितानना ॥ देव्युवाच । किं प्रार्थ्यते त्वया वत्स सन्तुष्टा संस्तवेन च । अहमेव वरं दिव्यं दास्यामि तव वाञ्छितम्‌ ॥ इत्युक्तश्चन्द्रभट्टोऽसौ हृष्टस्तां समभाषत ॥ चन्द्रभट्ट उवाच । सह्यं पुत्रं वरं देहि यदि तुष्टासि चण्डिके । देव्युवाच । नैव पुत्रस्त्वदर्थेऽस्ति कुत्रत्यी दीयते मया । पुत्रं विना वरं ब्रूहि यन्मया दीयते द्विज ॥ चन्द्रभट्ट उवाच । प्राणत्यागो विधातव्यो यदि नास्ति सुतोद्भव: । किमन्येन वरेणात्र महादेवीश्वरेश्वरेश्वरी ॥ इत्याकर्ण्य महादेवी चिन्तयाकुलिताब्रवीत्‌ ॥ देव्युवाच । भो भट्ट पुत्रो दत्तस्ते यद्वरं मनसेप्सितम्‌ । तस्येप्सितं न पूर्येत तदैव स मरिष्यति ॥ गृहाणाम्रफलं गच्छ भोभट्ट स्वगृहं प्रति । एतदाम्रफलं विप्र पत्न्यै स्वस्यै प्रदापय ॥ एवं संचिन्तितं तेन धनान्धीभूतचेतसा । लब्ध्वा चित्तेप्सितं पुत्रं भट्टस्तु गृहमागत: ॥ सुलोचनायै तद्दत्तं भक्षणायाग्रजं फलम्‌ । वल्कलाष्ठी च दासीभ्यां दत्वा पुत्रानजीजनत्‌ ॥ दिने दिने ते ववृधु: परामापुर्मुदं गृहे । कदाचिद्दैवसंयोगाच्चन्द्रभट्टसुतोऽभवत्‌ ॥ अप्राप्य चेप्सितं भूमौ स पुत्रो मृत एव स: । एवं हि चेटिकापुत्रौ मृतौ भट्टस्य पश्यत: ॥ ततो बहुणिधं शोकं दु:खं कृत्वा मुहुर्मुहु:। पुनर्जगाम तां दुर्गां संस्मरन्‌ वरदाम्बिकाम्‌ । तुतोष च ततस्तस्मै फलमेकं पुनर्ददौ । आम्रमानीय यत्नेन भार्यायै तत्प्रदत्तवान्‌ ॥ तत्फलप्राशनाद गर्भं पुनर्लेभे कुटुम्बिनी । तस्यां सुत: । समुत्पन्नस्तत्फलस्यैव भक्षणात्‌ ॥ अप्राप्य स्वेप्सितं मातु: पुनरेव ममार स: । देव्या: शरणमापन्न: पुनर्लेभे सुतत्रयम्‌ ॥ याचयित्वेप्सितं किञ्चिदलभन्मृत एव स: । एवं चैव सुतास्तेन लब्ध्वा लब्ध्वातिदुःखित: ॥ देवालयं पुन: प्राप्तौ दम्पती तौ सुतार्थिनौ । सुलोचना च सा गुप्ता तत्रैव च समाविशत्‌ ॥ भट्टस्तु दूरतो देव्या जपं कुर्वन्समाविशत्‌ । दिनानि तत्र पञ्चाशद गतानि स्थितयोस्तयो: ॥ अथ रात्रौ महादेवी सुगुप्तं पुत्रमब्रवीत्‌ ॥ देव्युवाच । दास्याम्यस्मै तथैव त्वां गच्छ गच्छ यथा पुन: । पुत्र उवाच । मया दत्तं महद दुःखं देवि मातु: पितुस्तयो: । नाहं पुनर्गमिष्यामि दुःखदो नैव शर्मकृत्‌ ॥ देव्युवाच । एकवारं पुनर्गच्छ पुनरागच्छ पुत्रक । तत्रेप्सितस्य सम्पूर्तिं पितरौ चेत्करिष्यत: ॥ तदा स्थेयं त्वया पुत्र समागन्तव्यमन्यथा ॥ पुत्र उवाच । तानीप्सितानि कथय महामाये श्रृणोम्यहम्‌ । देव्युवाच । जातकर्मादिकं सर्वं प्रहृष्ट: क्रियते यदि । स्वलङकृतापि ते माता प्रगृह्णाति रजोवृतम्‌ ॥ मलमूत्रसमालिप्तं यदि चैवं च संस्पृशेत्‌ । तदा स्थेयं त्वया पुत्र समागन्तव्यमन्यथा ॥ रुदन्तं वा हसन्तं वा प्रीत्या चुम्बति ते मुखम्‌ । रजोऽवगुण्ठितं खाङ्के पुत्र गृह्णाति ते पिता ॥ तदा स्थेयं० ॥ शय्यास्थितं स्वपन्तं वा पृष्ठ कृत्वा तु न खपेत्‌ । तदा स्थेयं० ॥ भ्राष्ट्रे चणकगोधूमहोलकं यदि लभ्यते । तदा स्थेयं० ॥ चतुष्के वाङकशय्यायां लुण्ठनं यदि लभ्यते । तदा स्थेयं० ॥ नौकायां गोपयो दुग्ध्वा मातुलो भार्यया सह । तदा स्थेयं० ॥ घृताक्तमण्डकांस्तुभ्यं यदि दास्यति भोजने । तदा स्थेयं ० ॥ विवाहो राजपुत्र्या च करोमीति च लालयेत्‌ । वर्षे वर्षे च ते जन्म दिवसे चोत्सवं चरेत्‌ ॥ तदा स्थेयं० ॥ स्वसा यमद्वितीयायां भोजयेत्परया मुदा । तदा स्थेयं० ॥ किमीप्सितैस्तैर्बहुभिर्हलषष्ठीव्रतं चरेत्‌ । तदा स्थेयं ० ॥ त्वदर्थे जननी वत्स सर्वमेतत्करोति चेत्‌ । तदा स्थातव्यमेवेति तद‌गृहे पुत्र सर्बदा ॥ इति सर्वं श्रुतं तत्र गुप्तया भट्टभार्यया । तत: प्रभाते सा देवी भट्टाय च वरं ददौ ॥ वरं प्रगृह्य भट्टोऽपि तुष्ट: स्वगृहमागत: । सुलोचनापि तदनु समायाता स्वमालयम्‌ ॥ तत: पुत्र: समभवद्दशमे मासि शोभने । ईप्सितं सर्वमप्यस्य सुतस्यापूरितं तंया ॥ यद्यच्च भाषितं देव्या तथा तत्तच्चकार सा । वशीभूय स्थित:पुत्रश्चिरं भट्टस्य सद्मनि ॥ उवाच भट्टभार्या सा  नमस्कृत्य सुलोचना । पुत्र सर्वं च यद्देव्या त्वदग्रे कथितं पुरा ॥ श्रुतं तच्च मया सम्यग्गुप्तया तत्र सद्मनि । तत्तदेव समानीय स्थापितं हि त्वदीप्सितम्‌ ॥ पुत्र उवाच । अहं मातस्त्वया क्रीत ईप्सितैस्तै: प्रपूरितै: । हलषष्ठीब्रतस्यास्य प्रभावादमरोऽस्म्यहम्‌ ॥ वृद्धोबाच । इत्थं याश्च प्रकुर्वन्ति हलषष्टीव्रतं शुभम्‌ । न तासां पुत्रविरह: कदाचिन्नैव जायते ॥ हलषष्ठीकथा दिव्या श्रोतव्या परया मुदा । सौभाग्यधनधान्यादि सुखानि च समश्नुते ॥ ब्राह्मणेभ्यस्ततो दानं सधवाभ्यस्तु वायनम्‌ । पात्रे पात्रे ददन्नार्यो लभ्यन्ते पुत्र पौत्रकान्‌ ॥ इत्थं व्रतं या: प्रमदा: प्रकुर्युर्वृद्धाख्यदेव्योक्तकथां निशम्य । ता: पुत्रपौत्रादिसमृद्धियुक्ता: सुधान्यसम्पूर्णगृहा भवन्ति ॥

॥ इति श्रीब्रह्माण्डपुराणे वृद्धाकिन्नरीसंवादे हलषष्टीव्रतकथा समाप्ता ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:50:53.0530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हरवळ

  • वि. १ खेळकर ; आनंदी ( मूल ). २ ( माण . ) चपळ . 
  • स्त्री. ( दादर ) हयगय . 
  • वि. ( दादर ) ऊग्र . 
RANDOM WORD

Did you know?

पिंपळाच्या झाडाला फक्त शनिवारीच स्पर्श का करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.