संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:|

श्रावणमास: - नागपूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ श्रावणशुक्लपञ्चम्यां नागपूजाविधि: ॥

पञ्चमी षणमुहूर्ता परा ग्राह्येति सकलसिद्धान्त: । तत्र यथाकुलाचारं पीठे भित्तौ वा चन्दनेन हरिद्रया वा नव नागान्‌ नागपत्नींश्च विलिख्य, मृन्मयान्‌ पिष्टमयान्‌ वा कृत्वा पूजामारभेत्‌ । तत्र दाक्षिणात्याचारानुसारेण प्रयोग: । पञ्चम्यां प्रात: कृतनित्यक्रियो देशकालौ स्मृत्वा, मम सकुटुम्बस्य सपरिवारस्य सर्वदा सर्वत: सर्पभयनिवृत्तिपूर्वकसर्पप्रसादसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं श्रावणशुक्लपञ्चम्यां नागपूजनं करिष्ये । कलशपूजनादिसम्भारप्रोक्षणान्तं कृत्वा, आवाहयेत्‌ ।

१. अनन्ताय० अनन्तं आवा० ।
२. वासुकये० वासुकिं आ० ।
३. शेषाय न० शेषं आवा० ।
४. पद्मनाभाय० पद्मनाभं० ।
५. कम्बलाय० कम्बलं आ० ।
६. शङ्खपालाय० शङ्खपालं० ।
७. धृतराष्ट्राय० धृतराष्ट्रं० ।
८. तक्षकाय० तक्षकं आ० ।
९. कालियाय० कालियं आ० ।
१०. नागपत्नीभ्यो० नागपत्नी:० ।

अनन्तादिनागेभ्यो० अनन्तादिनागान्‌ ध्यायामि । नवनाग शताधीश शब्दोद्धारक काश्यप । नानारत्नसमायुक्तमासनं प्र० ॥ आसनं० । अनन्तप्रीतये शेष जगदा धार विग्रह । पाद्यं गृहाण भक्त्या त्वं काद्रवेय नमोऽस्तु ते ॥ पाद्यं० । कश्यपानन्दजनक मुनिवन्द्य महाप्रभो । अर्ध्यं गृहाण सर्वज्ञ गन्धपुष्पाक्षतैर्युंतम् ॥ अर्ध्यं० । सहस्त्रफणरूपेण वसुधाधारक प्रभो । गृहाणाचमनं देव पावनं च सुशीतलम्‌ ॥ आचमनीयं० । सर्पराज नमस्तुभ्यं दधिमध्वाज्यसंयुतम्‌ ॥ मधुपर्कं प्रदास्यामि स्वीकुरुष्व जगत्प्रभो ॥ मधुपर्कं० ॥ क्षीरं दधि घृतं चैव मधु शर्करया युतम्‌ । प्रञ्चामृतस्नानमियं स्वीकुरुष्व दयानिधे ॥ पञ्चामृतस्ना० ॥ गङगादिसर्वतोयेभ्यो जलमाहृत्य शीतलम्‌ । स्नानार्थं च प्रयच्छामि गृ० ॥ स्नानं० । पञ्चोपचारपूजां कृत्वा, अभिषेक: । कौशेययुग्मं देवेश प्रीत्या तव मायार्पितम्‌ । पन्नगाधीश नागेन्द्र तार्क्ष्यशत्रो नमोऽस्तु ते ॥ वस्त्रं० । सर्पराज नमस्तेऽस्तु त्राहि मां भवसागरात्‌ । ब्रह्मसूत्रं सोत्तरीयं गृ० ॥ यज्ञोपवीतं० ॥ कर्पूरकस्तूरिककेसराढयं गोरोचनं चागरुरक्तचन्दनम्‌ । श्रीचन्दनाक्तं शुभदिव्यगन्धं गृहाण विष्णुप्रिय ते मयार्पितम्‌ ॥ चन्दनं० । काश्मीरपञ्चलिप्तांश्च शालितण्डुलनिर्मितान्‌ । पातालाधिपते तुभ्यमर्पये त्वं गृहण भो: ॥ अक्षतान्‌० । हरिद्रा कुङ्कमं चैव कण्ठसूत्रं च ताडकम्‌ । सिन्दूरं कज्जलं चारु षट्‌ सौभाग्यं गृहाण भो: ॥ सौभाग्यद्रव्यं० ॥ करवीरैर्जातिकुसुमैश्चम्पकैर्बकुलै: शुभै: । शतपत्रैश्च कल्हारैरर्चयेत्पन्नगोत्तमम्‌ ॥ पुष्पाणि स० ॥ दध्यक्षतदूर्वाङकुरान्‌ कुशाङकुरांश्च समर्पयामि ॥

॥ नामपूजा ॥

१. अनन्ताय नम: ।
२. वासुकये नम: ।
३. शेषाय नम: ।
४. पद्मनाभाय० ।
५. कम्बलाय न० ।
६. शङ्खपालाय० ।
७. धृतराष्ट्राय न० ।
८. तक्षकाय नम: ।
९. कालियाय न० ।
१०. नागपत्नीभ्यो० ।

वनस्पतिर० धूपं० ॥ आज्यं च व० दीपं द० ॥ नैवेद्यं गृह० नैवेद्यं० ॥ लाजान्‌, चणकान्‌, पयश्च स० । आचमनीयं स० ॥ करोद्वर्तनं० ॥ इदं फलं म० फलं स० ॥ पूगीफलं० ताम्बूलं० ॥ हिरण्यगर्भ० दक्षिणां० ॥ नीराजयामि त्वां देव पन्नगाधिपते प्रभो । कश्यपानन्दजनक कर्पूरेण सुखप्रद ॥ कर्पूरदीपं० । नानाफलसमायुक्तं पुष्पाञ्जलिमिमं प्रभो । समर्पयामि नागेन्द्र दीनंमां रक्ष सागरात्‌ ॥ पुष्पाञ्जलिं० । नमामि वासुकिं नागं नैमित्तं तक्षकं विभुम्‌ । नमामि शङ्खं नागेन्द्रं कुमुदं प्रणमाम्यहम्‌ ॥ अनन्तं भुजगं श्रेष्ठं नौमि कर्कोटकं विभुम्‌ । नमामि पुलिकं नाम नागलोकनिवासिनम्‌ ॥ नमस्कारान्‌ स० ॥ आवणे शुक्लपञ्चम्यां यत्कृतं नागपूजनम्‌ । तेन तृप्यन्तु मे नागा भवन्तु सुखदा सदा ॥ अज्ञानाद ज्ञानतो वापि यन्मया पूजनं कृतम्‌ । न्य़ूनातिरिक्तं तत्सर्वं भो नागा: क्षन्तुमर्हथ ॥ युष्प्तत्प्रसादात्सकला मम सन्तु मनोरथा: । सर्वदा मत्कुले मास्तु भयं सर्पविषोद्भवम्‌ ॥ इति सम्प्रार्थ्य, कृतस्य पूजासाङ्गतासिध्यर्थं अनन्तादिनागप्री० यथाशक्ति पायसाद्यन्नेन सुवासिनीब्राह्मणांश्च भोजजिष्ये ॥ यस्य स्मृ० अनेन मया कृतेन पूज० अनन्तादिनागा: प्रीयन्ताम्‌ ॥ अथवा आयंगौरित्यादि वैदिकमन्त्रेण षोडशोपचारै: सम्पूज्य, नमो अस्तु सर्पेभ्य इति नमस्कारान्कृत्वा प्रार्थनादि समापयेत्‌ ॥ तद्दिने भूमे: खननकर्षणाद्युपघातं लोहपात्रे पोलिकादिकरणं च न कुर्यादिति ॥ इति नागपूजा समाप्ता ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP