संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:|

श्रावणमास: - शिवामुष्टिव्रतविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ अथ शिवामुष्टिव्रतविधि:॥

विवाहानन्तरमाद्ये श्रावणे प्रतिसोमवासरे शिवामुष्टिव्रतं पञ्चवर्षपर्यन्तं स्त्रीणां विहितम्‌ । तत्र प्रातर्नधादौ स्नात्वा शिवालय गत्वा पूजनं कुर्यात्‌ ॥ अथ पूजाविधि:आचम्य, देशकालौ स्मृत्वा मम अवैधव्यपुत्रपौत्राद्यैहिकनानाविधभोगप्राप्तिपूर्वकशिवलोकप्राप्तिद्वारा मयाऽऽचरितशिवामुष्टिव्रताङ्गभूतं श्रीउमामहेश्वरप्रीत्यर्थं यथामिलितोपचारद्रव्यै: तण्डुलादिधान्यसमर्पणपूर्वकं उमामहेश्वरपूजनं करिष्ये ॥ इति सङ्गल्प्य, ओंनम: शिवाय शान्ताय पञ्चवक्त्राय शूलिने । नन्दिभृङगिमहाकालगणयुक्ताय शम्भवे ॥ इति मन्त्रेण गन्धै: पुष्पैर्धूपैर्दीपैर्नानाविधैर्नैवेद्यैश्चतण्डुलादिधान्यानां सार्धमुष्टिं च कर्कटीनारिकेलादिफलै: सह समर्प्य सम्पूजयेत्‌ । अनेन पू० श्रीउमा० प्रीयेताम्‌ ॥ समर्पणीयधान्यानि तु प्रथमे सोमवासरे रौप्यमयतण्डुलसहिता: शालितण्डुला: । द्वितीये, सुवर्णमययवैस्तिलैर्वा सहिता यवास्तिला वा । तृतीये, सुवर्णमयगोधूमसहिता गोधूमा: । चतुर्थे, सुवर्णमयमुदगसहिता मुद्‌गा: ॥ प्रतिवर्षमेवं कुर्यात्‌ । ततो ब्राह्मणान्‌ सम्भोज्य स्वयं मौनेन भुञ्जीयात्‌ ॥

अथ विवाहानन्तरमाद्ये श्रावणे प्रथमे भौमवारे मङगलागौरीव्रतग्रहणसङ्कल्प: । भर्ता पत्न्या सहोपविश्य, आचम्य प्राणा०मम सपत्नीकस्य पुत्रपौत्राद्यैहिकनानाविधभोगप्राप्तिपूर्वकावैधव्यप्राप्तये च श्रीगौरीलोकप्राप्त्यर्थं पञ्चवर्षपर्यन्तं मङ्गलागौरीव्रतग्रहणं करिष्ये ॥ प्रथमे वत्सरे मातुर्गेहे कर्तव्यमेव च । ततो भर्तृगृहे कार्यमवश्यं स्त्रीभिरादरात्‌ ॥ पञ्चमे वत्सरे प्राप्ते कुर्यादुद्यापनं शुभे ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP