मराठी मुख्य सूची|विधी|शांती विधी|वयोवस्थाभिध शान्तिसमुच्चयः|
शान्तिः ।

अथ महामृत्युंजय - शान्तिः ।

आयुष्याच्या तृतीयावस्थेत शरीराच्या ठिकाणी अनेक आघात - आजार, इंद्रिय - वैफल्य होण्याचा संभव असतो तो टाळला जावा आणि उर्वरित आयुष्य सुखाने जावे म्हणून वय पन्नासपासून दर पाच वर्षांनी ऋषिमुनींनी शांती सांगितल्या आहेत.


( शततमे (१००) वर्षे क्रियमाणा । )
( अथ कर्ता यजमानः शक्तः इंद्रियादिबलसम्पन्नश्चेत्‍ स्वयं, नो चेत्‍ पुत्राचार्यांदि - प्रतिनिधिद्वारा इयं शान्तिः कार्या । )
अथ कर्ता यजमानः प्रतिनिधिद्वारा चेत्‍, मम पितुः जन्मनः सकाशात्‍ शततमे वर्षे प्राप्ते, ( कर्ता पुत्रादिश्चेत्‍ पूर्ववत्‍ ऊहः कार्यः । ) जन्मदिने, जन्मनक्षत्रे, चन्द्रानुकूल्ये शुभेऽहनि वा, कृताभ्यंगः, कृतनित्यक्रियः, कृताग्निसिद्धिः, शुभे सवस्त्रपीठासने उपविश्य, यज्ञोपवीती, आचम्य,पवित्रपाणिः प्राणानायम्य, पंचगव्यप्राशनादिना शरीरशुद्धिं विधाय, सुवासिन्या, कृतमंगलतिलकः, देवतागुर्वादींश्चाभिवाद्य, ब्राह्मणैर्दत्तानुज्ञः स्वासने उपविश्य, पुनः आचम्य, प्राणानायम्य, देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं अमुकगोत्रः अमुकशर्माऽहं मम पितुः ( प्रतिनिधिश्चेत्‍ ) जन्मनः सकाशात्‍ गोचरेण अनिष्टस्थानस्थित - आदित्यादि - नवग्रहाणां उत्पन्नोत्पत्स्यमान - पीडापरिहारपूर्वकं सर्वसुखावाप्तिधनधान्याद्यभिवृद्धयर्थं समस्त मंगलप्राप्त्यर्थं देशकालाद्यनुसारतः विद्वदुपदिष्टेन विधिना ( कर्ता पुत्रश्चेत्‍ पितुराज्ञया, आचार्यश्चेत्‍ अमुकगोत्रोत्पन्नस्य अमुकशर्मणः यजमानस्य आज्ञया संकल्पोक्त - फलप्राप्तये ) यथासंभृतसंभारैः यथाशक्ति यथाज्ञानतः सग्रहमखां शौनकोक्तां महामृत्युंजयशान्तिं करिष्ये । तदंगं स्वस्तिपुण्याहवाचनं, मातृकापूजनं, नांदीश्राद्धं आचार्यवरणं च करिष्ये । तत्रादौ निर्विघ्नतासिद्धयर्थं महागणपतिपूजनं करिष्ये । इति संकल्प्य, तानि कृत्वा वृताचार्यः स्थंडिलसमीपमुपविश्य, आचम्येत्यादि० श्रीपरमेश्वरप्रीत्यर्थं अमुकगोत्रोत्पन्नेन अमुकशर्मणा यजमानेन संकल्पित - महामृत्युंजयशान्तिकर्मणि वृतोऽहं यथाज्ञानतः देशकालाद्यनुसारेण एभिर्ब्राह्मणैः सह आचार्यकर्म करिष्ये । तदंगं शरीरशुद्धयर्थं पुरुषसूक्त - जप - पूर्वकम्‍ भू - शुद्धयादि करिष्ये, आदौ निर्विघ्नार्थं महागणपति - स्मरणं च करिष्ये इत्यादि । गौरसर्षपविकिरणादि प्रादेशान्तं कर्म कृत्वा, स्थण्डिलात्‍ पूर्वभागे वेदीं प्रकल्प्य, ( अत्र केचन सर्वतोभद्रस्य ( लिंगतोभद्रस्य वा ) सर्वसाधारणत्वात्‍ पीठे सर्वतोभद्रं विरच्य, तत्र ब्रह्मादि - मंडल - देवताः आवाह्य, संपूज्य, तण्डुलैराच्छाद्य, तदुपरि कलशं संस्थाप्य, वरुणं संपूज्य, कर्णिकायां देवतास्थापनमिच्छन्ति ) अष्टदले कर्णिकायां कृताग्न्युत्तारणपूर्विकायां सुवर्णप्रतिमायां तार - त्रिबीज - व्याह्रति - संपुटित - त्रैयंबक - मंत्रेण महामृत्युंजयदेवता स्थापयेत्‍ ( तारशब्दस्यार्थः ओंकारः ) तद्यथा, त्र्यंबकं मैत्रावरुणिर्वसिष्ठो महामृत्युंजयस्त्रिष्टुप्‍ । अस्यां सुवर्णमय्यां मूर्तौ महामृत्युंजयावाहने विनियोगः ।

ॐ हौं जूं सः ॐ भूर्भुवः स्वः ।
ॐ त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनं
उर्वारुकमिव बंधनान्मृत्योर्मुक्षीय मामृतात्‍ ॥
ॐ स्वः भुवः भूः ॐ सः जूं हौं ॐ
( अ - ५, अ - ४, वर्ग - ३० )

अस्यां सुवर्णमय्यां मूतौ प्रधानदेवतां महामृत्युंजयं सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि । ॐ भूः महामृत्युंजयं आवा० । ॐ भुवः महामृत्युंजयं आवा० । ॐ स्वः महामृत्युंजयं आवा० । ॐ भूर्भुवः स्वः महामृत्युंजयं आवा० । इति आवाह्य । परितः पूर्वादिक्रमेण पूगीफले विश्वेश्वराद्यैकादशरुद्रावाहनं कुर्यात्‍ - तथा - ॐ विश्वेश्वराय नमः । ॐ विश्वेश्वरमावाहयामि । ॐ महादेवाय नमः । महादेवं आवाहयामि । ॐ विरुपाक्षाय नमः । विरुपाक्षं आवाहयामि । ॐ सदाशिवाय नमः सदाशिवं आवाहयामि । ॐ त्र्यंबकाय नमः त्र्यंबकं आवाहयामि । ॐ त्रिपुरुषाय नमः त्रिपुरुषं आवाहयामि । ॐ रुद्राय नमः रुद्रं आवाहयामि । ॐ त्रिपुरान्तकाय नमः त्रिपुरान्तकं आवाहयामि । ॐ सर्वेश्वराय नमः सर्वेश्वरं आवाहयामि । ॐ शंकराय नमः शंकरं आवाहयामि । ॐ विश्वरुपाय नमः विश्वरुपं आवाहयामि । इत्यैकादशरुद्रानावाह्य । पूजनसमये मंत्रपाठो यथापूर्ववदेव । ॐ हौं जूं सः० ॐ भूर्भुवः स्वः० ॐ त्र्यंबकं यजामहे० ॐ स्वः भुवः भूः ॐ सः जूं हौंः ॐ । महामृत्युंजयाद्यावाहितदेवताभ्यो नमः । ध्यायामि । आसनार्थे अक्षतान्‍ समर्पयामि । एवंरीत्या षोडशोपचारैह पूजयेत्‍ । हवनसमयेऽपि एतादृशो मंत्रपाठः करणीयः ।

तदुत्तरतः उद्यन्नद्येतिमंत्रेण सूर्यं स्थापयेत्‍ । उद्यन्नद्येत्यस्य काण्वः प्रस्कण्वः सूर्योऽनुष्टुप्‍ । सूर्यावाहने विनियोगः ।

ॐ उद्यन्नद्य मित्रसह आरोहन्नुत्तरां दिवं
ह्रद्‍ रोगं मम सूर्य हरिमाणं च नाशय ॥
( अ - १, अ - ४, वर्ग - ७ )

ॐ भूर्भुवः स्वः । अस्मिन्पूगीफले ( सुवर्णप्रतिमायां वा ) सूर्याय नमः । सूर्यं आवाहयामि ।

तदुत्तरतः नक्षत्रदेवता नाममंत्रेणावाह्य, एवं देवता - आवाहनोत्तरं सर्वासां एकतन्त्रेण तार - त्रिबीज - व्याह्रति - संपुटित - त्रैयंबक - मंत्रेण ॐ महामृत्युंजयाद्यावाहित - देवताभ्यो नमः । आसनार्थे अक्षतां समर्पयामि । एवंरीत्या षोडशोपचारपूजां कुर्यात्‍ । अभिषेकसमये यथावकाशं सकृत्‍ रुद्रावर्तनम्‍ । नमः सोमायेत्येकं वर्गं वा पठेत्‍ । पूजनोत्तरं आवाहनमंत्रस्य (२८) अष्टाविंशति वारं जपं कृत्वा उत्तिष्ठेत्‍ । स्थंडिलान्तिकमेत्य, अद्येत्यादि० संकल्पित - महामृत्युंजय - शांतिकर्मणि स्थंडिलादिसकलं कर्म करिष्ये । वरदानामानमग्निं प्रतिष्ठाप्य, ध्यात्वा, ध्यानान्ते देवत्तोरवेद्यां आदित्यादिनवग्रहानावाह्य, संपूज्य, देवदानवसंवादे० इति वरुणप्रार्थनान्तं कृत्वा, स्थंडिलसमीपमेत्य, समिद्‍ द्वयेत्यन्वादध्यात्‍ । चक्षुष्यन्तं उक्त्वा ग्रहानन्वादध्यात्‍ । अत्र प्रधानदेवं महातार - त्रिबीज - व्याह्रति - संपुटित - त्र्यंबकेति मृत्युंजयं मंत्रेण समिद्‍ - आज्य - चरुपायस - चतुर्भिः द्रव्यैः प्रतिद्रव्यम्‍ अष्टोत्तरसहस्र (१००८) संख्याकाभिराहुतिभिः अष्टोत्तरशताहुतिभिर्वाः (१०८) विश्वेश्वरादिएकादश - रुद्र - परिवार - देवताः केवलेन पायसद्रव्येण अष्टाविंशति अष्टवारं वा । सूर्यं उद्यन्नद्येति मंत्रेण २८ अष्टाविंशतिवारं तिलद्रव्येण, नक्षत्रदेवतां २८ अष्टाविंशति अष्टवारं वा नाममंत्रेण आज्येन यक्ष्ये । शेषेण स्विष्टकृतमिति चक्षुष्यन्तं कर्म कृत्वा यजमानेन द्रव्यत्यागे कृते, ग्रहहोमं प्रधानदिहोमं विधाय, स्विष्टकृतात् प्राक् विविधसूक्तपाठजपः कार्यः । तानि च सूक्तानि - श्रीसूक्तं, रुद्राध्यायं, आयुष्यमंत्रान् जपेत् । ते च ऋग्द्वयं एष वां देवा, परावतो सप्तदशर्चं,  आ नो भद्रा दशर्चं इति वा इति आयुष्यमिति च सूक्तं पठेत् । ततः वेदपारायणं कार्यम् । तदसंभवे पुरुषसूक्तं अग्निमीळे इति नवर्चं सूक्तं च पठेत् । ततः स्विष्टकृतादि - प्रायश्चित्त - होमान्ते बलिदानं पूर्णाहुतिं च कृत्वा, संस्रावादिहोमशेषं समाप्य, स्थापितकलशोदकैः सकुटुंबं बंधुवर्गयुतं यजमानं अभिषिंचेत् । तत्र अभिषेकमंत्राः - समुद्रज्येष्ठा० शं न इंद्राग्नी० परं मृत्यो० एष वां देवा० ऋग्द्वयं, परावतो सप्तदशर्चं, स्वादिष्टयेति दशर्चं, अक्षिभ्यां षटभिः, यज्जाग्रत इति षण्णाम् । ग्रहमंत्रमुख्यदेवतामंत्रेत्यादीनां सर्वेषां अभिषेके विनियोगः ।

( अभिषेकमंत्राणां बाहुल्यात् यथावकाशं यथाशक्ति पाठ: । )

ततो यजमानः अभिषेकवस्त्रं परित्यज्य, धृतशुक्लांबरः, अभिषेकवस्त्रं आचार्याय दद्यात् । विभूतिं धृत्वा आ नो भद्रा इति महाशांतिजपपूर्वकं देवतोत्तरपूजने कृते,‘ सतिल गुडसंमिश्रं अंजल्यर्धमितं पयः । मार्कंडेयात्‍ वरं लब्ध्वा पिबाम्यायुर्विवृद्धये । इति पिबेत् । ततः कांस्यपात्रे घृतमासिच्य, तत्र ‘ रुपं रुपं ’ इति मंत्रेण आज्यावलोकनं कृत्वा, तत्पात्रं सदक्षिणाकं ब्राह्मणाय दत्त्वा, गो - भू - तिलहिरण्यादि दशदानानि कानिचित् प्रत्यक्षाणि, कानिचित् निष्क्रयद्वारा, सर्वाणि वा निष्क्रयरुपेण ब्राह्मणेभ्यो दत्त्वा, तथा शतगुंजापरिमितं सुवर्णं, तन्निष्क्रयं वा विभज्य विभज्य ब्राह्मणेभ्यो दत्त्वा, अशक्तौ शतसर्षपतुलितं वा ततः विसर्जितदेवतापीठदानान्ते   तिलदानं च कृत्वा, तत्र मंत्रः ‘ तिलाः कश्यपसंभूतास्तिलाः पापहराः शुभाः । तिलपात्रप्रदानेन अतः शान्तिं प्रयच्छ मे ॥ ’ इति । पुत्रादिकैः पुष्पमालावस्त्रादिना यजमानं ( अहेर ) सत्कृत्य पुरंध्रीभिः ( सुवासिनीभिः ) आचारात् यजमानस्य यावन्ति वयोवर्षाणि तावद्भिर्वा नीराजनैः ( दीपैः ) नीराजयित्वा, ब्राह्मणेभ्यः दक्षिणां दत्त्वा, तेभ्यः आशीर्वचनं गृहीत्वा, ब्राह्मणभोजनसंकल्पं कृत्वा, देवानभिवाद्य, कर्म परमेश्वरार्पणं कुर्यात् । द्विराचम्य, त्रिवारं विष्णुस्मरणं कुर्यात् इति ।
॥ इति प्राचीनग्रंथानुसारं नारायणशास्त्री जोशी - विरचिता
महामृत्युंजय - शान्तिः समाप्ता ॥
॥ श्रीकृष्णार्पणमस्तु ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP