TransLiteral Foundation
मराठी मुख्य सूची|विधी|शांती विधी|वयोवस्थाभिध शान्तिसमुच्चयः|
अथ त्रैयंबक मृत्युंजय शान्तेः प्रयोगदर्शनम् ।

अथ त्रैयंबक मृत्युंजय शान्तेः प्रयोगदर्शनम् ।

आयुष्याच्या तृतीयावस्थेत शरीराच्या ठिकाणी अनेक आघात - आजार, इंद्रिय - वैफल्य होण्याचा संभव असतो तो टाळला जावा आणि उर्वरित आयुष्य सुखाने जावे म्हणून वय पन्नासपासून दर पाच वर्षांनी ऋषिमुनींनी शांती सांगितल्या आहेत.


अथ त्रैयंबक - मृत्युंजय - शान्तेः प्रयोगदर्शनम् ।
प्रधानदेवता :  मृत्युंजयरुद्रः ।
प्रतिष्ठा - पूजन - हवन - मंत्रः :  ॐ पूर्वकव्याह्रति - संपुटितं त्र्यंबकं० ।
हवनीयद्रव्यं :  समिध् - आज्य - चरु - पायसानि ।
हवनसंख्या :  १००८ वा १०८ वा यथाशक्ति ।
नक्षत्रदेवता :  यजमानस्य जन्मनक्षत्रं तद् देवता ।
प्रतिष्ठा - पूजन - हवन - मंत्रः :  नाममंत्रः ।
हवनीयद्रव्यं :  आज्यम् ।
हवनसंख्या :  २८ वा ८ वा यताशक्ति ।

सर्वशान्तीनां संकल्पस्वरुपं एकमेव । केवलं वयः संख्याभेदः । सर्वासु शान्तिषु हवनसमाप्तौ स्विष्टकृतात् पूर्वं विविधसूक्तानि यजमानाय श्रावयेत् । अनन्तरम् स्विष्टकृतादि - प्रायश्चित्तहोमान्ते बलिदानम्, पूर्णाहुतिं, संस्रावादिहोमशेषं समाप्य कलशोदकैः यजमानं अभिषिंचेत् । नूतनवस्त्रान्ते विभूतिं धृत्वा देवतां सप्तचिरंजीवांश्च प्रार्थयेत । देवतोत्तरपूजनम्, दुग्धप्राशनम्, आज्यावलोकनम्, पीठदानम्, दशदानम्, शतगुंजासुवर्णदानम्, ब्राह्मणभोजनदक्षिणादानम् इत्यादीनां संकल्पः । यजमानं सत्कृत्य ( अहेर ) नीराजनविधिः, आशीर्वादः । त्रिवारं विष्णुस्मरणेन कर्मसमाप्तिं वाचयेत् इति । अयम् उत्तरांगविधिः सर्वत्र समानः ।

अथ त्रैयंबक - मृत्युंजय - शान्तिः ।

( पञ्चनवतितमे वर्षे (९५) प्राप्ते क्रियमाणा । )
( अथ कर्ता यजमानः शक्तः इंद्रियादिबलसम्पन्नश्चेत्‍ स्वयं, नो चेत्‍ पुत्राचार्यादिप्रतिनिधिद्वारा इयं शान्तिः कार्या । कर्ता पुत्रश्चेत्‍ - ‘ मम पितुः जन्मनः० कर्ता आचार्यश्चेत्‍ - ०अमुकगोत्रोत्पन्नस्य अमुकशर्मणः यजमानस्य जन्मनः० ) ।
अथ कर्ता यजमानः जन्मनः सकाशात्‍ पञ्चनवतितमे वर्षे प्राप्ते, जन्मदिने, जन्मनक्षत्रे चन्द्रानुकूल्ये शुभेऽहनि वा, कृताभ्यंगः, कृतनित्यक्रियः, कृताग्निसिद्धिः, शुभे सवस्त्रपीठासने उपविश्य, यज्ञोपवीती, आचम्य, पवित्रपाणिः, प्राणानायम्य, पंचगव्यप्राशनादिना शरीरशुद्धिं विधाय, सुवासिन्या कृतमंगलतिलकः देवतागुर्वादींश्चाभिवाद्य, ब्राह्मणैर्दत्तानुज्ञः स्वासने उपविश्य, पुनः आचम्य, प्राणानायम्यं, देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं अमुकगोत्रः अमुकशर्माऽहं मम जन्मनः सकाशात्‍ पञ्चनवतितमे वर्षे प्राप्ते सूचित - संभाव्यमान - नानाविधरोग - दृष्टिमान्द्य - छायावैकृत्य - भार्यापुत्रादिवियोग - धनधान्य - पशुक्षयादि - विविध - अरिष्ट - निरसनार्थं जन्मराशि - जन्मलग्नाभ्यां सकाशात्‍ गोचरेण अनिष्टस्थानस्थित - आदित्यादि - नवग्रहाणां उत्पन्नोत्पत्स्यमान - पीडापरिहारपूर्वकं सर्वसुखावाप्तिधनधान्याद्यभिवृद्धयर्थं समस्तमंगलप्राप्त्यर्थं देशकालाद्यनुसारतः विद्वदुपदिष्टेन विधिना यथाशक्तिसंभृतसंभारैः यथाज्ञानतः । ( पुत्रश्चेत्‍ ) पितुराज्ञया ( आचार्यश्चेत्‍ ) यजमानानुज्ञया सग्रहमखां त्रैयंबक - मृत्युंजय - शान्तिं करिष्ये । तदंगं स्वस्तिपुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं आचार्यवरणं च करिष्ये । तत्रादौ निर्विघ्नतासिद्धयर्थं महागणपतिपूजनं करिष्ये इति संकल्प्य, तानि कृत्वा, वृताचार्यः स्थंडिलसमीपमुपविश्य, आचम्येत्यादि० श्रीपरमेश्वरप्रीत्यर्थं अमुकगोत्रोत्पन्नेन अमुकशर्मणा यजमानेन संकल्पित - त्रैयंबक - मृत्युंजय - शान्ति - कर्मणि वृतोऽहं यथाज्ञानतः देशकालाद्यनुसारेण एभिर्ब्राह्मणैः सह आचार्यकर्म करिष्ये । तदंगं शरीरशुद्धयर्थं पुरुषसूक्त - जप - पूर्वकम्‍ भू - शुद्धयादि करिष्ये । आदौ निर्विघ्नार्थं महागणपति - स्मरणं च करिष्ये । इत्यादि गौरसर्षपविकिरणादि प्रादेशान्तं कर्म कृत्वा, स्थण्डिलात्‍ पूर्वभागे वेदीं प्रकल्प्य, ( अत्र केचन - सर्वतोभद्रस्य ( लिंगतोभद्रस्य वा ) सर्वसाधारणत्वात्‍ पीठे सर्वतोभद्रं विरच्य, तत्र ब्रह्मादि - मंडल - देवताः आवाह्य, संपूज्य, तण्डुलैराच्छद्य, तदुपरि कलशं संस्थाप्य, वरुणं संपूज्य, कर्णिकायां देवतास्थापनमिच्छन्ति । ) सवस्त्रपीठासने तण्डुलराश्युपरि महीद्यौरित्यादिना कलशं प्रतिष्ठाप्य, वरुणप्रार्थनान्तं कृत्वा, पूर्णपात्रे अष्टदलमध्ये कर्णिकायां कृताग्न्युत्तारणपूर्विकायां सुवर्णप्रतिमायां ॐ भूर्भुवः स्वः व्याह्यति - संपुटित - त्रैयंबकमंत्रेण त्र्यंबक - मृत्युंजय - रुद्र - देवतामावाहयेत्‍ । तद्यथा त्र्यंबको मैत्रावरुणिर्वसिष्ठो मृत्युंजयरुद्रस्त्रिष्टुप्‍ । मृत्युंजयरुद्रावाहने विनियोगः । आवाहनमंत्रस्वरुपं तारव्याह्रतिसंपुटितम्‍ ।

ॐ भूर्भुवः स्वः
ॐ त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनम्‍ ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्‍ ॥
ॐ स्वः भुवः भूः ॐ
( अ. ५, अ. ४, वर्ग - ३० )

अस्यां सुवर्णमय्यां मूर्तौ प्रधानदेवतां मृत्युंजयाय रुद्राय नमः । मृत्युंजयं रुद्रं साङ्गं सपरिवारं सायुधं सशक्तिकं आवाहयामि । ॐ भूः मृत्युंजयं रुद्रं आवा० । ॐ भुवः मृत्युंजयं रुद्रं आवा० । ॐ स्वः मृत्युंजयं रुद्रं आवा० । ॐ भू: भुवः स्वः मृत्युंजयं रुद्रं आवा० । उक्तरित्या मंत्रपाठेन षोडशोपचारैः पूजां कुर्यात्‍ । जपोऽप्येवम्‍ । हवनसमये मन्त्रपाठः एवं ॐ भूर्भुवः स्वः । ॐ त्र्यंबकं यजामहे......मामृतात्‍ । ॐ स्वः भुवः भूः ॐ स्वाहा । एवंरीत्या मंत्रपाठेन हवनम्‍ कार्यम्‍ । तदुत्तरतः नक्षत्रदेवता नाममंत्रेणावाह्य, काण्डानुसमयेन पदार्थानुसमयेन वा सर्वान्‍ व्याह्रतिसंपुटित - त्र्यंबकमंत्रेण षोडशोपचारैः पूजयेत्‍ । प्रधानदेवतासमीपे तन्मंत्रं ( ॐ पूर्वकव्याह्रतिसंपुटित त्र्यंबक० ) अष्टोत्तरशतं अष्टाविंशतिवारं वा जप्त्वा, स्थंडिलान्तिकमेत्य, अद्येत्यादि० संकल्पित - मृत्युंजयं - महारथीशांतिकर्मणि स्थंडिलादिसकलं कर्म करिष्ये । वरदनामानमग्निं प्रतिष्ठाप्य, ध्यात्वा, ध्यानान्ते देवतोत्तरवेद्यां आदित्यादिनवग्रहानावाह्य, संपूज्य, देवदानवसंवादे० इति वरुणप्रार्थनान्तं कृत्वा स्थंडिलसमीपमेत्य समिद्द्वयेत्यन्वादध्यात् । चक्षुष्यन्तं उक्त्वा ग्रहानन्वादध्यात् । अत्र प्रधानं देवं मृत्युंजयं रुद्रं, ॐ पूर्वक - व्याह्रति - संपुटितं त्र्यंबकं० - मंत्रेण समिध् - आज्य - चरु - पायस - द्रव्यैः चतुर्भिः प्रतिद्रव्यं ( अष्टोत्तरसहस्र ) अष्टोत्तरशतसंख्याकाभिराहुतिभिर्वा, नक्षत्रदेवता नाममंत्रेण अष्टाविंशति - अष्ट - संख्याकाभिर्वाज्यद्रव्येण यक्ष्ये । शेषेण स्विष्टकृतमिति चक्षुष्यन्तं कर्म कृत्वा यजमानेन द्रव्यत्यागे कृते, ग्रहहोमं प्रधानदिहोमं विधाय स्विष्टकृतात् प्राक् विविधसूक्तपाठजपः कार्यः । तानि व सूक्तानि - श्रीसूक्तं, रुद्राध्यायं, आयुष्यमंत्रान् जपेत् । ते च ऋक् द्वयं एष वां देवा परावतो सप्तदशर्चं,  आ नो भद्रा दशर्चं, इति वा इति आयुष्यमिति च सूक्तं पठेत् । ततः जप्त्वा वेदपारायणं कार्यम्;  तदसंभवे पुरुषसूक्तं अग्निमीळे इति नवर्चं सूक्तं च पठेत् । ततः स्विष्टकृतादि - प्रायश्चित्तहोमान्ते बलिदानं पूर्णाहुतिं च कृत्वा, संस्रावादिहोमशेषं समाप्य, स्थापितकलशोदकैः सकुटुंबं बंधुवर्गयुतं यजमानं अभिषिंचेत् । तत्र अभिषेकमंत्राः - समुद्रज्येष्ठा० शं न इंद्राग्नी० परं मृत्यो० एष वां देवा इति ऋग्द्वयं० परावतो सप्तदशर्चं, स्वादिष्टयेति दशर्चं, अक्षिभ्यां षटभिः, यज्जाग्रत इति षण्णाम् । ग्रहमंत्रमुख्यदेवतामंत्रेत्यादीनां सर्वेषां अभिषेके विनियोगः ।

( अभिषेकमंत्राणां बाहुल्यात्‍ यथावकाशं यथाशक्ति पाठ: । )

ततो यजमानः अभिषेकवस्त्रं परित्यज्य, धृतशुक्लांबरः, अभिषेकवस्त्रं आचार्याय दद्यात् । विभूतिं धृत्वा आ नो भद्रा इति महाशांतिपूर्वकं देवतोत्तरपूजने कृते, मार्कंडेयादीन् प्रार्थयेत । ततः आयुर्वृद्धयै सतिलगुडसंमिश्रं दुग्धं प्राशयेत् । तत्र मंत्रः ‘ सतिलं गुडसंमिश्रं अंजल्यर्धमितं पयः । मार्कंडेयात् वरं लब्ध्वा पिबाम्यायुर्विवृद्धये । इति पिबेत् । ततः कांस्यपात्रे घृतमासिच्य, तत्र ‘ रुपं रुपं ’ इति मंत्रेण आज्यावलोकनं कृत्वा, तत्पात्रं सदक्षिणाकं ब्राह्मणाय दत्त्वा, गो - भू - तिल - हिरण्यादि दशदानानि कानिचित् प्रत्यक्षाणि, कानिचित् निष्क्रयद्वारा, सर्वाणि वा निष्क्रयरुपेण ब्राह्मणेभ्यः दत्त्वा, तथा शतगुंजापरिमितं सुवर्णं, तन्निष्क्रयं वा विभज्य विभज्य ब्राह्मणेभ्यो दत्त्वा, अशक्तौ शतसर्षपतुलितं वा ततः विसर्जितदेवतापीठदानान्ते   तिलदानं च कृत्वा, तत्र मंत्रः ‘ तिलाः कश्यपसंभूतास्तिलाः पापहराः शुभाः । तिलपात्रप्रदानेन अतः शान्तिं प्रयच्छ मे ॥ ’ इति । पुत्रादिकैः पुष्पमालावस्त्रादिना यजमानं ( अहेर ) सत्कृत्य पुरंध्रीभिः ( सुवासिनीभिः ) आचारात् यजमानस्य यावन्ति वयोवर्षाणि तावद्भिर्वा नीराजनैः ( दीपैः ) नीराजयित्वा, ब्राह्मणेभ्यः दक्षिणां दत्त्वा, तेभ्यः आशीर्वचनं गृहीत्वा, ब्राह्मणभोजनसंकल्पं कृत्वा, देवानभिवाद्य, कर्म परमेश्वरार्पणं कुर्यात् । द्विराचम्य, त्रिवारं विष्णुस्मरणं कुर्यात् इति ।
॥ इति प्राचीनग्रंथानुसारं नारायणशास्त्री जोशी - विरचिता
मृत्युंजय - रुद्र - शान्तिः समाप्त ॥
॥ श्रीकृष्णार्पणमस्तु ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2013-01-15T03:36:50.6630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

as defined

  • यथापरिभाषित 
  • यथानिरूपित 
  • व्याख्या केल्याप्रमाणे 
RANDOM WORD

Did you know?

Why Cows are considered secred in Hinduism?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site