मराठी मुख्य सूची|विधी|शांती विधी|वयोवस्थाभिध शान्तिसमुच्चयः|
अथ सहस्रचन्द्र दर्शन शान्तिः ।

अथ सहस्रचन्द्र दर्शन शान्तिः ।

आयुष्याच्या तृतीयावस्थेत शरीराच्या ठिकाणी अनेक आघात - आजार, इंद्रिय - वैफल्य होण्याचा संभव असतो तो टाळला जावा आणि उर्वरित आयुष्य सुखाने जावे म्हणून वय पन्नासपासून दर पाच वर्षांनी ऋषिमुनींनी शांती सांगितल्या आहेत.


( अशीतितमे वर्षे (८०) प्राप्ते क्रियामाणा । )
अथ कर्ता यजमानः जन्मनः सकाशात्‍ अशीतितमे वर्षे प्राप्ते, जन्मदिने जन्मनक्षत्रे चन्द्रानुकूल्ये शुभेऽहनि वा कृताभ्यंगः कृतनित्यक्रियः, कृताग्निसिद्धिः शुभे सवस्त्रपीठासने उपविश्य, यज्ञोपवीती, आचम्य, पवित्रपाणिः, प्राणानायम्य पंचगव्यप्राशनादिना शरीरशुद्धिं विधाय, सुवासिन्या कृतमंगलतिलकः देवतागुर्वादींश्चभिवाद्य, ब्राह्मणैर्दत्तानुज्ञः स्वासने उपविश्य, पुनः आचम्य, प्राणानायम्य देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं अमुकगोत्रः अमुकशर्माऽहं मम जन्मनः सकाशत्‍ अशीतितमे वर्षे प्राप्ते सूचित - संभाव्यमान - नानाविधरोग - दृष्टिमान्द्य - छायावैकृत्य - भार्यापुत्रादिवियोग - धनधान्य - पशुक्षयादि - विविध - अरिष्ट - निरसनार्थं जन्मराशि - जन्मलग्नाभ्यां सकाशात्‍ गोचरेण अनिष्टस्थानस्थित - आदित्यादि - नवग्रहाणां उत्पन्नोत्पत्स्यमानपीडानिरसनपूर्वकं सर्वसुखावाप्तिधनधान्याद्यभिवृद्धयर्थं समस्तमंगलप्राप्त्यर्थं देशकालाद्यनुसारतः विद्वदुपदिष्टेन विधिना यथाशक्तिसंभृतसंभारैः यथाज्ञानतः सग्रहमखां सहस्रचन्द्र - दर्शन - शान्तिं करिष्ये । तदंगं स्वस्तिपुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं आचार्यवरणं च करिष्ये । तत्रादौ निर्विघ्नता - सिद्धयर्थं महागणपतिपूजनं करिष्ये इति संकल्प्य, तानि कृत्वा, वृताचार्यः स्थंडिलसमीपमुपविश्य आचम्येत्यादि० श्रीपरमेश्वरप्रीत्यर्थं अमुकगोत्रोत्पन्नेन अमुकशर्मणा यजमानेन संकल्पित - सहस्रचंद्र - दर्शन - शान्ति - कर्मणि वृतोऽहं यथाज्ञानतः देशकालाद्यनुसारेण एभिर्ब्राह्मणैः सह आचार्यकर्म करिष्ये । तदंगं शरीरशुद्धयर्थं पुरुषसूक्त - जप - पूर्वकम्‍ भू - शुद्धयादि करिष्ये । आदौ निर्विघ्नार्थं महागणपति - स्मरणं च करिष्ये । इत्यादि गौरसर्षपविकिरणादि प्रादेशान्तं कर्म कृत्वा, स्थण्डिलात्‍ पूर्वभागे वेदीं प्रकल्प्य, ( अत्र केचन - सर्वतोभद्रस्य ( लिंगतोभद्रस्य वा ) सर्वसाधारणत्वात्‍ पीठे सर्वतोभद्रं विरच्य, तत्र ब्रह्मादि - मंडल - देवताः आवाह्य, संपूज्य, तण्डुलैराच्छाद्य, तदुपरि कलशं संस्थाप्य, वरुणं संपूज्य, कर्णिकायां देवतास्थापनमिच्छन्ति । ) सवस्रपीठासने तण्डुलराश्युपरि महीद्यौरित्यादिना कलशं प्रतिष्ठाप्य, वरुणप्रार्थनान्तं कृत्वा, पूर्णपात्रे अष्टदलमध्ये कर्णिकायां कृताग्न्युत्तारणपूर्विकायां सुवर्णप्रतिमायां सहस्रसंख्याक - दर्शन - गुणविशिष्टं चन्द्रं, नवो नवो भवति० इति मंत्रेण आवाह्य, तद्दक्षिणपार्श्वे अधिदेवतां मृत्युंजयं - त्र्यंबकेति मंत्रेण आवाह्य, तद्वामपार्श्वे कालस्वरुपं सूर्यं आ कृष्णेनेति मंत्रेण स्थापयेत्‍ । तद्यथा नवो नवो भवतीति मन्त्रस्य सूर्या सावित्री चन्द्रस्त्रिष्टुप्‍ । सहस्त्रसंख्याकदर्शनगुणविशिष्ट - चन्द्रावाहने विनियोगः ।

ॐ नवो नवो भवति जायमानो
ऽह्नां केतुरुषसामेत्यग्रम्‍ ।
भागं देवेभ्यो वि दधात्यायन्‍
प्र चंद्रमास्तिरते दीर्घमायुः ।
( अ - ८, अ - ३, वर्ग - २३ )


अस्यां सुवर्णमय्यां मूर्तौ प्रधानदेवतां सहस्रसंख्याकदर्शनगुणविशिष्टचंद्राय नमः । सहस्रसंख्याकदर्शनगुणविशिष्टचंद्रं सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि । ॐ भूः सहस्रसंख्याक० चंद्रं आवा० । ॐ भुवः सहस्रसंख्याक० चंद्रं आवा० । ॐ स्वः सहस्रसंख्याक० चंद्रं आवा० । ॐ भूर्भुवः स्वः सहस्रसंख्याक० चंद्रं आवा० । तद्दक्षिणतः अधिदेवतां मृत्युंजयं त्र्यंबकेति मंत्रेण आवाह्य । त्र्यंबकं मैत्रावरुणिर्वसिष्ठस्त्र्यंबको मृत्युंजयस्त्रिष्टुप्‍ । त्र्यंबक मृत्युंजयावाहने विनियोगः ।

ॐ त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनम्‍ ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्‍ ॥
( अ - ५, अ - ४, वर्ग - ३० )


अस्यां सुवर्णमय्यां मूर्तौ ( पूगीफले वा ) ॐ भूर्भुवः स्वः त्र्यंबकाय मृत्युंजयाय नमः । त्र्यंबकं मृत्युंजयं आवाहयामि । भूरित्यादि आवाह्य । वामपार्श्वे प्रत्यधिदेवतां कालस्वरुपसूर्यं आ कृष्णेनेति मंत्रेणावाह्य । आ कृष्णेनांगिरसवसिष्ठः कालस्वरुपः सूर्यः पुर उष्णिक्‍ - कालस्वरुपसूर्यावाहने विनियोगः ।

ॐ आ कृष्णेन रजसा वर्तमानो
निवेशयन्नमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेन
आ देवो याति भुवनानि पश्यन्‍ ॥
( अ - १, अ - ३, वर्ग - ६ )


अस्यां सुवर्णमय्यां मूर्तौ ( पूगीफले वा ) कालस्वरुप - सूर्याय नमः । कालस्वरुपं सूर्यं आवाहयामि । भूः इत्यादि आवाह्य । तदुत्तरतः नक्षत्रदेवतां नाममंत्रेणावाह्य, काण्डानुसमयेन पदार्थानुसमयेन वा सर्वान्‍ संपूज्य, प्रधानदेवतासमीपे तन्मंत्रं ( नवो नवो भवति ) अष्टोत्तरशतं अष्टाविंशतिवारं वा जप्त्वा, स्थंडिलान्तिकमेत्य, अद्येत्यादि० संकल्पित - सहस्रचंद्रदर्शन - शांतिकर्मणि स्थंडिलादि - सकलं कर्म करिष्ये । वरदनामानमग्निं प्रतिष्ठाप्य, ध्यात्वा, ध्यानान्ते देवतोत्तरवेद्यां आदित्यादिनवग्रहानावाह्य, संपूज्य, देवदानवसंवादे० इति वरुणप्रार्थनान्तं कृत्वा, स्थंडिलसमीपमेत्य समिदद्वयेत्यन्वादध्यात्‍ । चक्षुष्यन्तं उक्त्वा ग्रहानन्वादध्यात्‍ । अत्र प्रधानं देवं सहस्रसंख्याकदर्शनगुणविशिष्टचंद्रं नवो नवो भवति इति मंत्रेण अष्टोत्तरसहस्र (१००८) संख्याकाहुतिभिः आज्याहुतिभिः, अशक्तौ अष्टोत्तरशताहुतिभिर्वा (१०८) अधिदेवताप्रत्यधिदेवते च तैरेव द्रव्यैः अष्टोत्तरशतसंख्याकाभिः, अष्टाविंशतिसंख्याभिर्वा, नक्षत्रदेवतां नाममंत्रेण अष्टाविंशतिअष्टसंख्याकाभिर्वाज्यद्रव्येण यक्ष्ये । शेषेण स्विष्टकृतमिति चक्षुष्यन्तं कर्म कृत्वा यजमानेन द्रव्यत्यागे कृते, ग्रहहोमं प्रधानादिहोमं विधाय स्विष्टकृतात्‍ प्राक्‍ विविधसूक्तपाठजपः कार्यः । तानि च सूक्तानि - श्रीसूक्तं, रुद्राध्यायं आयुष्यमंत्रान्‍ जपेत्‍ । ते च ऋक्‍ - द्वयं एष वां देवा परावतो सप्तदशर्चं, आ नो भद्रा दशर्चं, इति वा इति, आयुष्यमिति च सूक्तं पठेत्‍ । ततः वेदपारायणं कार्यं तदसंभवे पुरुषसूक्तं अग्निमीळे इति नवर्चं सूक्तं च पठेत्‍ । ततः स्विष्टकृतादि प्रायश्चित्तहोमान्ते बलिदानं पूर्णाहुतिं च कृत्वा संस्रावादिहोमशेषं समाप्य, स्थापितकलशोदकैः सकुटुंबं बंधुवर्गयुतं स्थापितकलशोदकैः सकुटुंबं बंधुवर्गयुतं यजमानं अभिषिंचेत्‍ । तत्र अभिषेकमंत्राः - समुद्रज्येष्ठा० शं न इंद्राग्नी० परं मृत्यो० एष वां देवा ऋग्द्वयं० परावतो सप्तदशर्चं, स्वादिष्टयेति दशर्चं, अक्षिभ्यां षटभिः, यज्जाग्रत इति षण्णाम्‍ । ग्रहमंत्र - मुख्यदेवता - मंत्रेत्यादीनां सर्वेषां अभिषेके विनियोगः ।

( अभिषेकमंत्राणां बाहुल्यात्‍ यथावकाशं यथाशक्ति पाठः । )

ततो यजमानः अभिषेकवस्त्रं परित्यज्य, धृतशुक्लांबरः अभिषेकवस्त्रं आचार्याय दद्यात्‍ । विभूतिं धृत्वा आ नो भद्रा इति महाशांतिजपपूर्वकं देवतोत्तरपूजने कृते, मार्कंडेयादीन्‍ प्रार्थयेत्‍ । ततः आयुर्वृद्धयै सतिलगुडसंमिश्रं दुग्धं प्राशयेत्‍ । तत्र मंत्रः ‘ सतिलं गुडसंमिश्रं अंजल्यर्घमितं पयः । मार्केडेयात्‍ वरं लब्ध्वा पिबाम्यायुर्विवृद्धये । इति पिबेत्‍ । ततः कांस्यपात्रे घृतमासिच्य. तत्र ‘ रुपं रुपं ’ इति मंत्रेण आज्यावलोकनं कृत्वा तत्पात्रं, सदक्षिणाकं ब्राह्मणाय दत्त्वा गो - भू - तिल - हिरण्यादि - दशदानानि कानिचित्‍ प्रत्यक्षाणि, कानिचित्‍ निष्क्रयद्वारा, सर्वाणि वा निष्क्रयरुपेण ब्राह्मणेभ्यः दत्त्वा, तथा शतगुंजापरिमितं सुवर्ण, तन्निष्क्रयं वा विभज्य विभज्य ब्राह्मणेभ्यो दत्त्वा, अशक्तो शतसर्षपतुलितं वा, ततः विसर्जितदेवतापीठदानान्ते तिलदानं च कृत्वा, तत्र मंत्रः ‘ तिलाः कश्यपसंभूतास्तिलाः पापहराः शुभाः । तिलपात्रप्रदानेन अतः शान्तिं प्रयच्छ मे ॥ ’ इति । पुत्रादिकैः पुष्पमालावस्त्रादिना यजमानं ( अहेर ) सत्कृत्य पुरंध्रीभिः ( सुवासिनीभिः ) आचारात्‍ यजमानस्य यावन्ति वयोवर्षाणि तावद्भिर्वा नीराजनैः ( दीपैः ) नीराजयित्वा, ब्राह्मणेभ्यः दक्षिणां दत्त्वा, तेभ्यः आशीर्वचनं गृहीत्वा, ब्राह्मणभोजनसंकल्पं कृत्वा, देवानभिवाद्य, कर्म परमेश्वरार्पणं कुर्यात्‍ । द्विराचम्य, त्रिवारं विष्णुस्मरणं कुर्यात्‍ इति ।
॥ इति प्राचीनग्रंथानुसारं नारायणशास्त्री जोशी - विरचिता
सहस्त्रचंद्र - दर्शन - शांतिः समाप्ता ॥
॥ श्रीकृष्णार्पणमस्तु ॥


N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP