TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
मराठी मुख्य सूची|विधी|शांती विधी|वयोवस्थाभिध शान्तिसमुच्चयः|
अथ मृत्युंजय महारथी शान्तिः ।

अथ मृत्युंजय महारथी शान्तिः ।

आयुष्याच्या तृतीयावस्थेत शरीराच्या ठिकाणी अनेक आघात - आजार, इंद्रिय - वैफल्य होण्याचा संभव असतो तो टाळला जावा आणि उर्वरित आयुष्य सुखाने जावे म्हणून वय पन्नासपासून दर पाच वर्षांनी ऋषिमुनींनी शांती सांगितल्या आहेत.


अथ मृत्युंजय महारथी शान्तिः ।
( पञ्चाधिक - षष्टितमे वर्षे (६५) प्राप्ते क्रियमाणा । )
अथ कर्ता यजमानः जन्मनः सकाशात् पंचाधिक - षष्टितमे वर्षे प्राप्ते, जन्मदिने जन्मनक्षत्रे चंद्रानुकूल्ये शुभेऽहनि वा कृताभ्यंगः कृतनित्यक्रियः, कृताग्निसिद्धः शुभे सवस्त्रपीठासने उपविश्य, यज्ञोपवीती, आचम्य, पवित्रपाणिः, प्राणानायम्य, देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं अमुकगोत्रः अमुकशर्माऽहं मम जन्मनः सकाशात् पंचाधिकषष्टितमे वर्षे प्राप्ते सूचित - संभाव्यमान - नानाविधरोग - दृष्टिमान्द्य - छायावैकृत्य - भार्यापुत्रादिवियोग - धनधान्य - पशु - क्षयादि - विविध - अरिष्ट - निरसनार्थं जन्मराशि - जन्मलग्नाभ्यां सकाशात् गोचरेण अनिष्टस्थानस्थित - आदित्यादि नवग्रहाणां उत्पन्नोत्पत्स्यमानपीडानिरसनपूर्वकं सर्वसुखावाप्तिधनधान्याद्यभिवृद्धयर्थं समस्तमंगल - प्राप्त्यर्थं देशकालाद्यनुसारतः विद्वदुपदिष्टेन विधिना यथाशक्तिसंभृतसंभारै; यथाज्ञानतः सग्रहमखां महारथ - मृत्युंजय - देवता - प्रीत्यर्थं मृत्युंजय - महारथीं शान्तिं करिष्ये । तदंगं स्वस्तिपुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं आचार्यवरणं च करिष्ये । तत्रादौ निविघ्नतासिद्धयर्थं महागणपतिपूजनं करिष्ये इति संकल्प्य तानि कृत्वा, वृताचार्यः स्थंडिलसमीपमुपविश्य, आचम्येत्यादि० श्रीपरमेश्वरप्रीत्यर्थं अमुकगोत्रोत्पन्नेन अमुकशर्मणा यजमानेन संकल्पित - मृत्युंजय - महारथी - शान्ति - कर्मणि वृतोऽहं यथाज्ञानतः देशकालाद्यनुसारेण एभिर्ब्राह्मणैः सह आचार्यकर्म करिष्ये । तदंगं शरीरशुद्धयर्यं पुरुषसूक्त - जप - पूर्वकम् भू - शुद्धयादि करिष्ये । आदौ निर्विघ्नार्थं महागणपतिस्मरणं च करिष्ये । इत्यादि गौरसर्षपविकिरणादि प्रादेशान्तं कर्म कृत्वा, स्थण्डिलात् पूर्वभागे वेदीं प्रकल्प्य, ( अत्र केचन - सर्वतोभद्रस्य ( लिंगतोभद्रस्य वा ) सर्वसाधारणत्वात् पीठे सर्वतोभद्रं विरच्य, तत्र ब्रह्मादि - मंडल - देवताः आवाह्य, संपूज्य, तण्डुलैराच्छाद्य, तदुपरि कलशं संस्थाप्य, वरुणं संपूज्य, कर्णिकायां देवतास्थापनमिच्छन्ति । ) सवस्त्रपीठासने तण्डुलराश्युपरि महीद्यौरित्यादिना कलशं प्रतिष्ठाप्य, वरुणप्रार्थनान्तं कृत्वा, पूर्णपात्रे अष्टदलमध्ये कर्णिकायां कृताग्न्युत्तारणपूर्विकायां सुवर्णप्रतिमायां प्रधानदेवं मृत्युंजयमहारथं आवाहयेत् मा नो महान्त इति मंत्रेण । तद्यथा मा नो महान्त इति मंत्रस्य आंगिरसकुत्सो मृत्युंजयमहारथरुद्रो जगती मृत्युंजयमहारथरुद्रावाहने विनियोगः ।

ॐ मा नो महान्तमुत मा नोऽअर्भकं
मा नऽउक्षंतमुतमा न उक्षितम् ।
मा नो वधीः पितरं मोत मातरं
मा नः प्रियाः स्तन्वो रुद्र रीरिषः ॥
( ऋ - अ - १, अ - ८, वर्ग - ६ )

यजमानः तैत्तिरीयशाखीयश्चेत् रुद्रपाठस्थो मंत्रो ग्राह्यः ।

अस्यां सुवर्णमय्यां मूर्तो प्रधानदेवतां मृत्युंजयमहारथरुद्रं सांङ्गं सपरिवारं सायुधं सशक्तिकं आवाहयामि । ॐ भूः मृत्युंजयं महारथं रुद्रं आवा० । ॐ भुवः मृत्युंजयं महारथं रुद्रं आवा० । ॐ स्वः मृत्युंजयं महारथं रुद्रं आवा० । ॐ भूर्भुवः स्वः मृत्युंजयं महारथं रुद्रं आवा० । तदुत्तरतः त्र्यंबकेति मंत्रेण त्र्यंबकं आवाह्य, तदुत्तरतः नक्षत्रदेवतां नाममंत्रेणावाह्य, काण्डानुसमयेन पदार्थानुसमयेन वा सर्वान्‍ संपूज्य प्रधानदेवतासमीपे तन्मंत्रं ( मा नो महान्त० ) अष्टोत्तरशतं अष्टविंशतिवारं वा जप्त्वा, स्थंडिलान्तिकमेत्य, अद्येत्यादि० संकल्पित - मृत्युंजय - महारथी - शांतिकर्मणि स्थंडिलादिसकलं कर्म करिष्ये । वरदनामानमग्निं प्रतिष्ठाप्य, ध्यात्वा, ध्यानान्ते देवतोत्तरवेद्यां आदित्यादिनवग्रहानावाह्य, संपूज्य, देवदानवसंवादे० इति वरुणप्रार्थनान्तं कृत्वा स्थंडिलसमीपमेत्य समिदद्वयेत्यन्वादध्यात् । चक्षुष्यन्तं उक्त्वा ग्रहानन्वादध्यात् । अत्र प्रधानं देवं मृत्युंजयं महारथं रुद्रं, मा नो महान्तमंत्रेण समिध्‍ - आज्य - चरु - पायस - द्रव्यैः चतुर्भिः प्रतिद्रव्यं ( अष्टोत्तरसहस्र ) / अष्टोत्तरशतसंख्याकाभिराहुतिभिर्वा, मृत्युंजय - त्र्यंबकं घृताक्ततिलद्रव्येण सहस्रसंख्याकाहुतिभिः नक्षत्रदेवतां नाममंत्रेण अष्टाविंशति वा अष्टसंख्याकाभिर्वाज्यद्रव्येण यक्ष्ये । शेषेण स्विष्टकृतमिति चक्षुष्यन्तं कर्म कृत्वा यजमानेन द्रव्यत्यागे कृते, ग्रहहोमं प्रधानादिहोमं विधाय स्विष्टकृतात् प्राक्‍ विविधसूक्तपाठजपः कार्यः । तानि च सूक्तानि, श्रीसूक्तं, रुद्राध्यायं, आयुष्यमंत्रान्‍ जपेत् । ते च ऋक्‍ द्वयं एष वां देवा परावतो सप्तदशर्चं, आ नो भद्रा दशर्चं, इति वा इति आयुष्यमिति च सूक्तं पठेत् । ततः जप्त्वा वेदपारायणं कार्यं; तदसंभवे पुरुषसूक्तं अग्निमीळे इति नवर्चं सूक्तं च पठेत् । ततः स्विष्टकृतादि - प्रायश्चित्तहोमान्ते बलिदानं पूर्णाहुतिं च कृत्वा, संस्रावादिहोमशेषं समाप्य, स्थापितकलशोदकैः सकुटुंबं बंधुवर्गयुतं यजमानं अभिषिंचेत् । तत्र अभिषेकमंत्राः - समुद्रज्येष्ठा० शं न इंद्राग्नी० परं मृत्यो० एष वां देवा इति ऋग्द्वयं० परावतो सप्तदशर्चं, स्वादिष्टयेति दशर्चं, अक्षिभ्यां षटभिः, यज्जाग्रत इति षण्णाम् । ग्रहमंत्रमुख्यदेवतामंत्रेत्यादीनां सर्वेषां अभिषेके विनियोगः ।

( अभिषकमंत्राणां बाहुल्यात् यथावकाशं यथाशक्ति पाठः । )

ततो यजमानः अभिषेकवस्त्रं परित्यज्य, धृतशुक्लांबरः, अभिषेकवस्त्रं आचार्याय दद्यात् । विभूतिं धृत्वा आ नो भद्रा इति महाशांतिजपपूर्वकं देवतोत्तरपूजने कृते, मार्कंडेयादीन्‍ प्रार्थयेत । ततः आयुर्वृद्धयै सतिलगुडसंमिश्रं दुग्धं प्राशयेत् । तत्र मंत्रः ‘ सतिलं गुडसंमिश्रं अंजल्यर्धमितं पयः मार्कंडेयात् वरं लब्ध्वा पिबाम्यायुर्विवृद्धये । ’ इति पिबेत् । ततः कांस्यपात्रे घृतमासिच्य, तत्र ‘ रुपं रुपं ’ इति मंत्रेण आज्यावलोकनं कृत्वा, तत्पात्रं सदक्षिणाकं ब्राह्मणाय दत्त्वा, गो - भू - तिल - हिरण्यादि दशदानानि कानिचित् प्रत्यक्षाणि, कानिचित् निष्क्रयद्वारा, सर्वाणि वा निष्क्रयरुपेण ब्राह्मणेभ्यो दत्त्वा, अशक्तौ शतसर्षपतुलितं वा ततः विसर्जितदेवतापीठदानान्ते तिलदानं च कृवा, तत्र मंत्रः ‘ तिलाः कश्यपसंभूतास्तिलाः पापहराः शुभाः । तिलपात्रप्रदानेनं अतः शान्तिं प्रयच्छ मे ॥ ’ इति । पुत्रादिकैः पुष्पमालावस्त्रादिना यजमानं ( अहेर ) सत्कृत्य, पुरंध्रीभिः ( सुवासिनीभिः ) आचारात् यजमानस्य यावन्ति वयोवर्षाणि तावद्भिर्वा नीराजनैः ( दीपैः ) नीराजयित्वा, ब्राह्मणेभ्यो दक्षिणां दत्त्वा, तेभ्यः आशीर्वचनं गृहीत्वां, ब्राह्मणभोजनसंकल्पं कृत्वा, देवानभिवाद्य, कर्म परमेश्वरार्पणं कुर्यात् । द्विराचम्य, त्रिवारं विष्णुस्मरणं कुर्यात् इति ।
॥ इति प्राचीनग्रंथानुसारं नारायणशास्त्री जोशी - विरचिता
मृत्युंजय - महारथी - शान्तिः समाप्ता ।
॥ श्रीकृष्णार्पणमस्तु ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2013-01-14T22:30:35.6630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आदिसिध्द

  • वि. प्रारंभीं असलेलें ; शाश्वत . [ सं . ] 
RANDOM WORD

Did you know?

What is the Hindu Caste System?
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.