मराठी मुख्य सूची|विधी|शांती विधी|वयोवस्थाभिध शान्तिसमुच्चयः|
देवता स्तवनम् निवेदनम् च

देवता स्तवनम् निवेदनम् च

आयुष्याचा उत्तरार्ध सुखाने पार पडावा म्हणून ५० वर्षे वयानंतर दर पाच वर्षानंतर शांती करावी.


॥ देवता - स्तवनम् निवेदनम् च ॥

॥ देवता - स्तवनम् ॥
ॐ देवीं वाचनामजयन्त देवास्तां विश्वरुपा: पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥

ॐ भद्रं कर्णेभि: शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

ॐ त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥

श्रीलक्ष्मीकेशवं नौमि दत्रात्रेयजनार्दनौ ।
येषां कृपाप्रसादेन साफल्यं जन्मनो मम ॥१॥
जोशी नारायणाख्योऽहं वामनिश्चित्तपावनः ।
आंजर्लेयग्रामवासी रत्नागिर्याख्यमण्डले ॥२॥
ब्रह्मणस्पतिसूक्तस्य विधानं प्राक् कृतं मया ।
श्रीसूक्तस्य विधानं च श्रीलक्ष्मीशस्य तुष्टये ॥३॥
गणपत्त्यथर्वशीर्षस्य पुरश्चर्याविधिस्तथा ।
वयोऽवस्थाऽख्यशांतीनां संग्रहोऽयमुदीर्यते ॥४॥
अत्रानुक्तं दुरुक्तं वा मतेर्मान्द्यात् श्रुतस्य च ।
यद्भवेत्पूरणीयं च तद्विशोध्यं दयालुभिः ॥५॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP