TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ९०१ - ९२०

शृङ्गारप्रवाहः - सुभाषित ९०१ - ९२०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


सुभाषित ९०१ - ९२०
८६. प्रोषितः

देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननैर्
यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि ।
उद्ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णां दृशं
तामाशां पथिकस्तथापि किमपि ध्यायंश्चिरं वीक्षते ॥९०१॥

[अमरु ९३ (७२);  सु.र. ७६५, स.क.आ.ं ९०१, शा.प. ३४४५]

हारो नारोपितः कण्ठे मया विश्लेषभीरुणा ।
इदानीमावयोर्मध्ये सरित्सागरभूधराः ॥९०२॥

धर्मपालस्य । (स्व११९२, शा.प. ३४२९)

भद्रात्र ग्रामके त्वं वससि परिचयस्तेन जानासि वार्ताम्
अस्मिन्नध्वन्ययोषित्तरुणिमवयसि ध्याय काचिद्विपन्ना ।
इत्थं पान्थः प्रवासावधिदिनगणनापायशङ्की प्रियायाः
पृच्छन्वार्तां समीपस्थितनिजभवनं व्याकुलो नोपयाति ॥९०३॥

कस्यचित। (शा.प. ३८९५)

वसन्ताग्नौ मग्ना चिरविरहरुग्णा सहचरी
यदि प्राणान्मुञ्चेत्तदिह वधभागी भवतु कः ।
वयो वा स्नेहो वा कुसुमसमयो वेति विमृशंस्
स्तुहीति प्रव्यक्तं पिकनिकरझंकारमशृणोत॥९०४॥

पिकनिकरस्य ।

सव्याधेः कृशता क्षतस्य रुधिरं दष्टस्य लालास्रवः
सर्वं नैतदिहास्ति तत्कथमसौ पान्थस्तपस्वी मृतः ।
आ ज्ञातं मधुलम्पटैर्मधुकरैरारब्धकोलाहले
नूनं साहसिकेन चूतमुकुले दृष्टिः समारोपिता ॥९०५॥

राजशेखरस्य । (सु.र. ७६०, शा.प. ३८२२)

८७. पथिकः

सुप्ते ग्रामे नदति जलदे शान्तसंपातरम्यं
पान्थेनात्मव्यसनकरुणोदस्रु गीतं निशीथे ।
स्फीतोत्कण्ठापरिगतधिया प्रोषितस्त्रीजनेन
ध्यानावेशस्तिमितनयनं श्रूयते रुद्यते च ॥९०६॥

कस्यचित।

मागाः पान्थ पथामुना यदि तव भ्रातः प्रियं जीवितं
यच्चूताकृतिरत्र तिष्ठति महारौद्रः पुरो राक्षसः ।
येनोद्यन्मकरन्दमुग्धमधुपव्याहारझङ्कारिणा
पान्थानामधुनैव निर्घृणधिया सार्थो हतः श्रूयते ॥९०७॥

कस्यापि ।

उपपरिसरं गोदावर्याः परित्यजताध्वगाः  
सरणिमपरो मार्गस्तावद्भवद्भिरिहेक्ष्यताम् ।
इह हि विहितो रक्ताशोकः कयापि हताशया  
चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ॥९०८॥

कस्यचित।

कस्मात्त्वं क्व नु दृश्यते सुखमुखं क्वास्तेऽन्धकारः परं  
क्व स्त्रीषु स्मरधूमकेतुरुदितो दृष्टा युवानः क्व ते ।
गन्ता क्व क्व च पञ्चमः क्व णसकृत्क्वात्संकुरो निद्गतः  
क्वानन्दैकरसोदयः क्व नु सती कैवाध्वगस्तत्कथा ॥९०९॥

कस्यचित।

ग्रामेऽस्मिन्पथिकाय पान्थ वसतिर्नैवाधुना दीयते
पश्यात्रैव विहारमण्डपतले प्रसुप्तो युवा ।
तेनोद्गीय खलेन गर्जति घने स्मृत्वा प्रिया तत्कृतं
येनाद्यापि  करङ्कदण्डपतनाशङ्की जनस्तिष्ठति ॥९१०॥

कस्यचित। (शा.प. ३८९३, सु.र. १६६१)


८८. वर्षापथिकः

तावद्वाचः प्रयुक्ता मनसि विनिहिता जीविताशापि तावन्
निक्षिप्तौ तावदङ्घ्री पथि पथिकजनैर्लक्षितास्तावदाशाः ।
नृत्यद्धाराकदम्बस्तव कवलयिता यावदेते न दृष्टा
निर्मुक्तव्यालनीलद्युतिनवजलदव्याकुला विन्ध्यपादाः ॥९११॥

योगेश्वरस्य । (सु.र. २६३)

लीलाम्भोजतमालकज्जलजलश्रीक्ण्ठकण्ठद्युते
भ्रातर्मघ महेन्द्रचापरुचिरं व्यासस्य कण्ठे गुणम् ।
स्वैरं गर्ज मुहूर्तकं कुरु दयां सा बाष्पपूर्णेक्षणा
बाला बालमृणालकोमलतनुस्तन्वी न सोढुं क्षमा ॥९१२॥

कस्यचित।

जलधरमुदितं विलोक्य दूराद्
अहह पदात्पदमेष न याति ।
अविरतनयनाम्बुदीर्घमुष्णं
श्वसिति कथं हतजीवितोध्वनीनः ॥९१३॥

कविचक्रवर्तिनः ।

निशीथे लीनानां झटिति तडितां वीक्ष्य विषमं
घनानामाभोगं रसिकपथिकेनोन्मुखदृशा ।
न गीतं सोत्कण्ठं न च रुदितमुत्कम्पतरलं
न मुक्ता निःश्वासाः स्फुटदनुमतं किन्तु हृदयम् ॥९१४॥

वाह्लीकस्य । (शा.प. ३८९२)


धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं
दीर्घोच्छ्वासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता ।
अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा क्रन्दितं
ग्रामीणैर्व्रजतो जनस्य वसतिर्ग्रामे निषिद्धा यथा ॥९१५॥

[अमरु ११]

८९. प्रोषितप्रियास्मरणम्

विवेकादस्माभिः प्रमपुरुषाभ्यासरसिकैः
कथञ्चिन्नीयन्ते रतिरमणबाणैरपि हतैः ।
प्रियाया बालत्वादभिनववियोगात्तव तनोर्
न जानीमस्तस्या बत कथममी यान्ति दिवसाः ॥९१६॥

कस्यचित। (सु.र. ७८०)

आलम्ब्याङ्गणवाटिकापरिसरे स्वेच्छानतां शाखिकां
केयूरीभवदल्पशेषवलया बाला समस्तं दिनम् ।
सा दैवोपहृतस्य मूढमनसो भग्नावधेरद्य मे
पन्थानं विवृताश्रुणा वदनकेनालोक्य किं वक्ष्यति ॥९१७॥

कस्यचित।

अनारब्धाक्षेपं परमकृतबाष्पव्यतिकरं
निगूढान्तस्तापं हृदयविनिपीतं व्यवसितम् ।
कृशाङ्ग्या यत्पापे व्रजति मयि नैराश्यपिशुनं
श्लथैरङ्गैरुक्तं हृदयमिदमुन्मूलयति तत॥९१८॥

कस्यचित। (स्व१३३३)

उत्कम्पोऽपि सकम्प एव हृदये चिन्तापि चिन्तान्विता  
निःश्वासा अपि निःश्वसन्त्यनिभृतं बाष्पोऽपि बाष्पायते ।
कान्तां संस्मरतो विदेशवसतेर्नक्तं दिवं कामिनः  
प्रारोहा इव निष्पतन्ति मनसो दुःखानि दुःखान्वितात॥९१९॥

कस्यचित। (स्व११५२)

निरस्तालङ्कारां नयनजलसिक्ताधरपूटां
रवावस्तं याते द्विगुणतरखेदालसमुखीम् ।
अहो दूरस्थां तां करकमलविन्यस्तवदनां
प्रियां पश्यामीव स्मृतिशरèअकुड्ये विलिखिताम् ॥९२०॥

कस्यचित।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:46:57.9830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Treasury Officer

  • कोषागार अधिकारी 
RANDOM WORD

Did you know?

what is the history behind " HARI MERE HALAR KI LAKARI" made by Surdasji?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site