TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित १३६१ - १३७०

शृङ्गारप्रवाहः - सुभाषित १३६१ - १३७०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


सुभाषित १३६१ - १३७०
१७८. शिशिरसुखम्

द्वारं गृहस्य पिहितं शयनस्य पार्श्वे
वह्निर्ज्वलत्युपरि तूलपटो गरीयान।
अङ्केऽनुकूलमनुरागवशात्कलत्रं
इत्थं करोति किमसौ स्वपतस्तुषारः ॥१३६१॥

बाणस्य । (स्व१८५३, शा.प. ३९४०)

उष्मायमाणस्तनमण्डलीभिर्
वाराङ्गनाभिः स्फुटविभ्रमाभिः ।
आलिङ्गिता रात्रिषु शैशिरीषु
ते शेरते यैः प्रणतो शशाङ्कः ॥१३६२॥

कस्यचित।

मसृणघुसृणालेपस्तल्पं मरालतनूरुहैः
कुवलयदृशां गाढाश्लेषो विधूमहुताशनः ।
शिशिरसमये यद्येतानि प्रयान्ति सहायतां
सुरपतिपदारोहे वाञ्छा मनस्तव लाञ्छनम् ॥१३६३॥

शङ्करस्य ।

सद्यो धूपितमुत्प्रदीपमभितः संरुद्धवातायनं
शुभ्रं वेश्म मरालपक्ष्ममृदुला शय्या सचन्द्रातपा ।
अङ्के कुङ्कुमपिञ्जरा च रमणी पूगं मुखे नूतनं
स्याच्चेतद्विधिवञ्चितः स्पृहयति प्रावारभाराय कः ॥१३६४॥

विरिञ्चेः ।

चूडागर्भनिवेशिदामविकलं मुक्ताफलैर्भूषणैः
स्त्रीणां कुङ्कुमपिच्छिलाः स्तनभुवो गूढोदरं मन्दिरम् ।
द्वित्रास्तूलपटाः प्रसर्पदगुरुग्रामाश्च धूमोद्गमाः
संभोगाय भवन्ति चात्र कृतिनां दीप्ता विशालाग्नयः ॥१३६५॥

राजशेखरस्य । (बा.रा. ५.३६)

१७९. उच्चावचं

पश्यामो मयि किं प्रपद्यत इति स्थैर्यं मयालम्बितं
किं मामालपतीत्ययं खल शठः कोपस्तयाप्याश्रितः ।
इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे
सव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥१३६६॥

अमरोः (अमरु २०, Kउवल्., १८५)

परिम्लाने माने मुखशशिनि तस्याः करधृते
मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे ।
तया पक्ष्मप्रान्तव्रजपुटनिरुद्धेन सहसा
प्रसादो बाष्पेन स्तनतटविशीर्णेन कथितः ॥१३६७॥

तस्यैव (अमरु २१, Sभ्१६०८, सूक्तिमुक्तावलि ५८.१)

गते प्रेमाबन्धे प्रणयबहुमाने विगलिते
निवृत्ते सद्भावे जन इव जने गच्छति पुरः ।
तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसान्
न जाने को हेतुर्दलति शतधा यन्न हृदयम् ॥१३६८॥

तस्यैव । (अमरु ३८, सु.र. ६९७, Sभ्११४१, शा.प. ३५४५, सूक्तिमुक्तावलि ८४.१, ऱस्क्२.२६३च्)

श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथश्
चुम्बत्यस्मिन्वदनविधुतिः किं कृता किं न दृष्टः ।
नोक्तः कस्मादिति नववधूचेष्टितं चिन्तयन्ती
पश्चात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥१३६९॥

तस्यैव । (अमरु ५६, स्व२१४३)

यावत्त्वच्चरितं प्रसङ्गत इव प्रस्तौमि तावत्त्वया
वन्दे तानहमित्युदीर्य शिरसा न्यस्तः प्रणामाञ्जलिः ।
तद्यावच्च रुषेव दोषमपि ते पृच्छामि नाभाष्य मां
निःश्वासैः कियदंशुभिश्च कियदाख्यातं तवागस्तया ॥१३७०॥

गोतिथीयदिवाकरस्य ।

इति श्रीधरदासकृते सदुक्तिकर्णामृते द्विईत्येऽस्मिन्
मदयतु सुहृदय हासं शृङ्गाराख्यः प्रवाहोऽयम् ।

इति श्रीमहामाण्डलिकश्रीधरदासकृते सदुक्तिकर्णामृते
शृङ्गारप्रवाहो नाम द्वितीयः ।
वीचयः १७९ । श्लोकाः ८९५ ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:46:59.1230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सपरायण

  • n. एक आचार्य, जो वायु के अनुसार व्यास की यजुःशिष्यपरंपरा में से याज्ञवल्क्य का वाजसनेय शिष्य था । 
RANDOM WORD

Did you know?

शंखनादाविषयी कांही माहिती पाहिजे.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.