संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ६२१ - ६४०

शृङ्गारप्रवाहः - सुभाषित ६२१ - ६४०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


३०. प्रियसम्बोधनम्

विलिम्पन्त्येतस्मिन्मलयजरसार्द्रेण महसा
दिशं चक्रं चन्द्रे सुकृतमय तस्या मृगदृशः ।
दृशोर्बाष्पः पाणौ वदनमसवः कण्ठकुहरे
हृदि त्वं ह्रीः पृष्ठे वचसि च गुणा एव भवतः ॥६२१॥

अचलसिंहस्य । (सु.र. ५३७, स.क.आ.व्६१४, सूक्तिमुक्तावलि ४४.७)

मुखेन्दुः प्रभ्रश्यन्नयनजलबिन्दुः करतले
मृणालीहारोऽपि ज्वर इव परीतापजनकः ।
प्रियङ्गुश्यामाङ्ग्याः सुकृतमय वक्रे त्वयि मना
गनाख्येयावस्थो रतिरमणबाणव्यतिकरः ॥६२२॥

तस्यैव ।

चन्द्रं चन्दनकर्दमेन लिखितं सा मार्ष्टि दष्टाधरा
वन्द्यं निन्दति यच्च मन्मथमसौ भङ्क्त्वाग्रहस्ताङ्गुलीः ।
कामः पुष्पशरः किलेत्सुमनोवर्गं लुनीते च यत्
तत्कां सा सुभग त्वया वरत्तनुर्बातूलतां लम्भिता ॥६२३॥

राजशेखरस्य । (वि.शा.भ. २.२०, सु.र. ५४१, सूक्तिमुक्तावलि ४४.९)

उन्मीलन्ति नखैर्लुनीहि वहति क्षौमाञ्चलेनावृणु
क्रीडाकाननमाविशन्ति वलयक्वाणैः समुत्रासय ।
इत्थं पल्लवदक्षिणानिलकुहूकण्ठीषु साङ्केतिक
व्याहाराः सुभग त्वदीयविरहे राधासखीनां मिथः ॥६२४॥

अमरोः । (शा.प. ३४८९ सत्कविचन्द्रस्य; सूक्तिमुक्तावलि ४४.१३; Sद्१०.७९; पद्या. ३६० शम्भोः)

दरपरिणतदूर्वादुर्बलामङ्गलेखां
ग्लपयति न यदस्याः श्वासजन्मा हुताशः ।
स खलु सुभग मन्ये लोचनद्वन्द्ववारा
मविरतपटुधारावाहिनीनां प्रभावः ॥६२५॥

धीयीकस्य ।
३१. पुरुषाभिधानं

तस्यास्तापमहं मुकुन्द कथयाम्येणीदृशस्ते कथं
पद्मिन्याः सरसं दलं विनिहितं यस्याः सतापे हृदि ।
आदौ शुष्यति सङ्कुचत्यनु ततश्चूर्णत्वमापद्यते
पश्चान्मुर्मुरतां दधद्दहति च श्वासावधूतः शिखी ॥६२६॥

कस्यचित। (सूक्तिमुक्तावलि ४४.२५; सु.र. ५५३ कस्यचित्; उत्पलराज; पद्या. ३५६ शान्तिकरस्य)

नीरसं काष्ठमेवेदं सत्यं ते हृदयं यदि ।
तथापि दीयतां तस्यै गता सा दशमीं दशाम् ॥६२७॥

कुब्जराजस्य ।

कुशलं तस्या जीवति कुशलं पृष्टासि जीवतीत्युक्तम् ।
पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ॥६२८॥

शित्तिपस्य । (Kउवल्. १६७, स.क.आ. १.९७)

तनुर्लीना तल्पे प्रियसहचरी हस्तकलनान्
निजस्थानेङ्गानि श्वसितमपि तस्याः श्रमपदे ।
क्व सा कान्तिर्याता बत न शपथैस्तास्वयमपि
प्रतीमः स्त्रीहत्या तदपि तव चेतो नटयति ॥६२९॥

युवराजदिवाकरस्य ।

धिक्चण्डाल किमालपामि मधुपीझङ्कारझङ्झामरुन्
माकन्दाङ्कुरसंनिपातजनितस्तस्याः स कोऽपि ज्वरः ।
ताः संतापरुजः स चाङ्गजडिमा साहर्निशं जागरा
त्वय्याश्लेषरसेन जीवति पुनस्त्यक्तोऽन्यथा हस्तकः ॥६३०॥

कस्यचित।
३२. विरहिणीचेष्टा

त्वां चिन्तापरिकल्पितं सुभग सा सम्भाव्य रोमाञ्चिता
शून्यालिङ्गनसंचलद्भुजयुगेनात्मानमालिङ्गति ।
किं चान्यद्विरहव्यथाप्रणयिणीं सम्प्राप्य मूर्च्छां चिरात्
प्रत्युज्जीवति कर्णमूलपठितैस्त्वन्नाममन्त्राक्षरैः ॥६३१॥

कस्यचित। (सु.र. ५५५, शा.प. ३४८७)

अच्छिन्नं नयनाम्बु बन्धुषु कृतं तापः सखीष्वाहितो
दैन्यं न्यस्तमशेषतः परिजने चिन्ता गुरुभ्योऽर्पिता ।
अद्य श्वः किल निर्वृतिं व्रजति सा श्वासैः परैः खिद्यते
विस्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥६३२॥

(अमरु ७८/११०; Sभ्व्१४०७; सूक्तिमुक्तावलि ४४.२०; शा.प. ३४८६; पद्या. ३६४; दश ४.२७)

पुनरुक्तावधिवासरमेतस्याः कितव पश्य गणयन्त्याः ।
इयमिव करजः क्षीणस्त्वमिव कठोराणि पर्वाणि ॥६३३॥

धरणीधरस्य । (सु.र. ५५८)

अत्रैव स्वयमेव चित्रफलके कम्पस्खलल्लेखया
सन्तापार्तिविनोदनाय कथमप्यालिख्य सख्या भवान।
बाष्पव्याकुलमीक्षितः सपुलकं चूताङ्कुरैरर्चितो
मूर्ध्ना च प्रणतः सखीषु मदनव्याजेन चापह्नुतः ॥६३४॥

वाक्कूटस्य । (सु.र. ५४९)

दूर्वाश्यामरुचोऽपि चन्दनरसैर्यत्ते लिखत्याकृतिं
सोढुं तापमनीश्वरा यदपि च ग्रीष्मागमं वाञ्छति ।
यत्पुष्णाति निरस्य विभ्रमशुकान्बाला चकोरीकुलं
मूढस्तत्र सखीजनः स्फुरति किं सुस्थस्य मे चेतसि ॥६३५॥

कस्यचित।

३३. सन्तापकथनम्

सा धैर्याम्बुमरुस्थली विसृमरज्वालः स तापानलस्
ते मुक्तामणयः कठोरतरुणज्वालामुचः शर्कराः ।
कर्पूरस्य रजांसि बालुकमसावस्यास्तु जीवाध्वगः
क्वापि क्वाप्युपयाति मुह्यति मुहुः क्वाप्î क्वचिन्मूर्च्छति ॥६३६॥

महादेवस्य ।

मृगशिशुदृशस्तस्यास्तापं कथं कथयामि ते
दहनपतिता दृष्टा मूर्तिर्मया न हि वैधवी ।
इति तु नियतं नारीरूपः स लोकदृशां प्रिय
स्तव शठतया शिल्पोत्कर्षो विधेर्विघटिष्यते ॥६३७॥

वाचस्पतेः । (द.रू. २.२९, सु.र. ५५७)

एतस्याः स्मरसंज्वरः करतलस्पर्शैः परीक्ष्योऽद्य नः
स्निग्धेनापि जनेन दाहभयतः प्रस्थं पचः पाथसाम् ।
निर्वीर्यीकृतचन्दनौषधविधौ तस्मिंश्चटत्कारिणो
लाजस्फोटममी स्फुटन्ति मणयो विश्वेऽपि हारस्रजाम् ॥६३८॥

राजशेखरस्य । (बा.रा. ५.११, सु.र. ७११)

स्नाता निष्पतयालुलोचनपयः पुण्यस्रवन्तीजलैर्
अध्यास्ते नवचन्दनार्द्रनलिनीसंवर्तिकावेदिकाम् ।
प्रत्येकं स्मरजातवेदसि निजान्यङ्गानि हुत्वा क्षणाद्
इन्दोरभुदयेन दास्यति पुनः सा प्राणपूर्णाहुतिम् ॥६३९॥

धर्मयोगेश्वरस्य ।

माल्यं मृणालवलयानि जलं जलार्द्रा
कर्पूरहारहरिचन्दनचर्चितानि ।
तस्या नवेन्दुकिरणाश्च न तापशान्त्यै
त्वत्सङ्गसाध्यविरहज्वरजर्जरायाः ॥६४०॥

पुरुषोत्तमदेवस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP