TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ५८१ - ६००

शृङ्गारप्रवाहः - सुभाषित ५८१ - ६००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


सुभाषित ५८१ - ६००
२२. स्त्रीमात्रम्

यासां सत्यपि सद्गुणानुसरणे दोषानुबन्धः सदा
याः प्राणान्वरमर्पयन्ति न पुनः सम्पूर्णदृष्टिं प्रिये ।
अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मकस्
तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु वः ॥५८१॥

बिभोकस्य । (सा.द. ३.११६, सु.र.को. ३८४, शा.प.. ३०७९)

दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥५८२॥

राजशेखरस्य । (सु.र. ३९५, वि.शा.भ. १.२, स्व. १३०९, शा.प. ३०७८, सूक्तिमुक्तावलि ३७.२)

सोऽनङ्गः कुसुमानि पञ्च विशिखाः पुष्पाणि बाणासनं
स्वच्छन्दच्छिदुरा मधुव्रतमयी पङ्क्तिर्गुणः कार्मुके ।
एतत्साधन उत्सहेत स जगज्जेतुं कथं मन्मथस्
तस्यामोघममूर्भवन्ति नहि चेदस्त्रं कुरङ्गीदृशः ॥५८३॥

अमरसिंहस्य । (सु.र. ४०३)

यन्नामापि सुखाकरोति कलयत्युर्वीमपि द्यामिव
प्राप्तिर्यस्य यदङ्गसङ्गविधिना किं यन्न निह्नूयते ।
अन्तः किं च सुधासपत्नमनिशं जागर्ति यद्रागिणां
विस्रम्भास्पदमद्भुतं किमपि तत्कान्तेति तत्त्वान्तरम् ॥५८४॥

कस्यचित। (सु.र. ४३५)

व्यर्थं विलोक्य कुसुमेषुमसुव्ययेऽपि
गौरीपतीक्षणशिखिज्वलितो मनोभूः ।
रोषाद्वशीकरणमस्त्रमुपाददे यत्
सा सुभ्रुवां विजयते जगति प्रतिष्ठा ॥५८५॥

मनोविनोदस्य । (सु.र. ४४१)
२३. खण्डिता

तव कितव किमाभिर्वाग्भिरभ्यर्णचूत
क्षितिरुहि कलकण्ठालापमाकर्णयन्ती ।
रजनिमहमलज्जाजागरं पांशुलानाम्
उषसि विघस न त्वां पाणिनापि स्पृशामि ॥५८६॥

धर्मयोगेश्वरस्य ।

सार्धं मनोरथशतैस्तव धूर्त कान्ता
सैव स्थिता मनसि कृत्रिमभावरम्या ।
अस्माकमस्ति न हि कश्चिदिहावकाशस्
तस्मात्कृतं चरणपातविडम्बनाभिः ॥५८७॥

रुद्रटस्य ।  (शृ.ति. १.४१द्; शा.प. ३५६३; सूक्तिमुक्तावलि ५७.१६; स.क.आ.ं ५८७; पद्या.. २१८)

पादान्ते पतितः प्रियः पततु न प्रव्यक्तबाष्पोद्गमः
संजातः स न जायतां त्वमधुना तद्वक्त्रमत्रागता ।
एकाहं तटिनीतटान्तविटपागारे यदा जागरं
नासीत्कापि सखी तदा घनतः स्तोमावृतायां निशि ॥५८८॥

आचार्यगोपीकस्य ।

किं ते बाष्पस्तिरयति दृशो किं सकम्पोऽधरस्ते
गण्डाभोगः कथय किमु ते कोपकेलीकषायः ।
निर्यर्यादे मम हि रजनी जागरक्लेशराशेर्
एकः साक्षी स खलु मुरलातीरवानीरकुञ्जः ॥५८९॥

वासुदेवस्य ।

ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा
मनस्विन्या रूढप्रणयकलहाविष्ठमनसा ।
अहो चित्रं चित्रं स्फुटमिति लपन्त्याश्रुकलुषं
रुषा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः ॥५९०॥

अमरुकस्य । (द.रू. ४.१७, स्व१३२४)
२४. अन्यरतिचिह्नदुःखिता

हंहो कान्त रहोगतेन भवता यत्पूर्वमावेदितं
निर्भिन्ना तनुरावयोरिति मया तज्ज्ञातमद्य स्फुटम् ।
कामिन्या स्मरवेदनाकुलहृदा यः केलिकाले कृतः
सोऽत्यर्थं कथमन्यथा तुदति मामेष त्वदोष्ठव्रणः ॥५९१॥

कस्यचित। (सु.र. ६२४)

अयं धूर्तो मायाविनयमधुरादस्य वचसः
सखि प्रत्येषि त्वं प्रकृतिसरले पश्यसि न किम् ।
कपोले यल्लाक्षाबहलरसरागप्रणयिनीम्
इमां धत्ते मुद्रामनतिचिरवृत्तान्तपिशुनाम् ॥५९२॥

सोल्होकस्य । (सु.र. ६८५)

किमेताः स्वच्छन्दं वितथशपथोक्तीर्वितनुषे
भजेथास्तामेव प्रियसहचरीं चित्तमधुराम् ।
यया याच्ञानम्रे तव शिरसि सौभाग्यगरिम
प्रशस्तिर्न्यस्तेयं चरणनखलाक्षारसमयी ॥५९३॥

वामदेवस्य ।

लाक्षालक्ष्मललाटपट्टमभितः केयूरमुद्रा गले
वक्त्रे कज्जलकालिमा नयनयोर्स्ताम्बूलरागो घनः ।
दृष्टा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो
लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥५९४॥

अमरोः (अमरु ५३ (८८); शा.प. ३७४०, Sभ्२२१५; सूक्तिमुक्तावलि ८२.१७; पद्या.. २२२; दशरूपक २.६)

निद्राच्छेदकषायिते तव दृशौ दृष्टिर्ममालोहिनी
वक्षो मुष्टिभिराहतं तव हृदि स्फूर्जन्ति मे वेदनाः ।
आश्चर्यं नवकुन्दकुड्मलशिखा तीक्ष्णैरमीभिर्नखैः
प्रत्यङ्गं तव जर्जरा तनुरहं जाता पुनः खण्डिता ॥५९५॥

उमापतिधरस्य ।
२५. लक्षितविरहिणी

कुचौ धत्तः कम्पं निपतति कपोलः करतले
निकामं निःश्वासः सकलमलकं ताण्डवयति ।
दृशः सामर्थ्यानि स्थगयति मुहुर्बाष्पसलिलं
प्रपञ्चोऽयं किञ्चित्तव सखि हृदिस्थं कथयति ॥५९६॥

अमरसिंहस्य । (सु.र. ७५०)

आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा
नासाग्रे नयनं यदेतदपरं यच्चैकतानं मनः ।
मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति ते
तद्ब्रूयाः सखि योगिनी किमसि भोः किं वियोगिन्यपि ॥५९७॥

राजशेखरस्य । (पद्या. २३८, सु.र. ७०३ ऱजसेखर, उ.नी. १३.७५)

यत्तालीदलपाकपाण्डुवदनं यन्नेत्रयोर्दुर्दिनं
गण्डः पाणिनिषेवणाच्च यदयं सङ्क्रान्तपञ्चाङ्गुलिः ।
गौरी क्रुध्यतु वर्तते यदि न ते तत्कोऽपि चित्ते युवा
धिक्धिक्त्वां सहपांशुखेलनसखीवर्गेऽपि यन्निह्नवः ॥५९८॥

तस्यैव । (वि.शा.भ. २.१४, सूक्तिमुक्तावलि ३९.२, सु.र. ७१२)

यत्सम्भाषणलालसेव कुरुषे वक्त्रेन्दुमर्धोन्नतं
धत्से बाहुलतार्गलां कुचतटे निष्कान्तिभीत्येव यत।
किं वा मन्त्रयते जनोऽयमिति यत्सर्वत्र शङ्काकुला
तज्जाने हृदि कोऽपि तिष्ठति युवा प्रौढश्च गूढश्च ते ॥५९९॥

शिल्हणस्य ।

यद्दौर्बल्यं वपुषि महती सर्वतश्चास्पृहा यन्
नासालक्ष्यं यदपि नयनं मौनमेकान्ततो यत।
एकाधीनं कथयति मनस्तावदेषा दशा ते
कोसावेकः कथय सुमुखि ब्रह्म वा वल्लभो वा ॥६००॥

लक्ष्मीधरस्य । (सु.र. ७१५)

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:46:57.0300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

लादी

  • स्त्री. 
  • घडीव दगड ( फरसबंदी , लादनी इ० कांचे उपयोगी ); चीप . चार हात नळाला दहा हात लाद्या असल्या म्हणजे आच्छादला जाईल . 
  • फरशी ( शहाबाद , तांडूर इ० कडील ). 
  • f  A hewn stone. 
More meanings
RANDOM WORD

Did you know?

I'm not able to locate this Mahakurma PuraNa vAkhya
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site