संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित १३४१ - १३६०

शृङ्गारप्रवाहः - सुभाषित १३४१ - १३६०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


१७४. हेमन्तपथिकः ।

मातर्धर्मपरे दयां कुरु मयि श्रान्ते च वैदेशिके
द्वारालिन्दककोणकेषु निभृतं स्थित्वा क्षिपामि क्षपाम् ।
इत्येवं गृहिणीप्रचण्डवदनावाक्येन निर्भर्त्सितो
हस्तन्यस्तपलालमुष्टिविभवः पान्थः शनैर्गच्छति ॥१३४१॥

शतानन्दस्य । (स्व२४१६, शा.प. ५८०, सूक्तिमुक्तावलि ९६.३, सु.र. १३१६)

स्वैरं संचरति प्रदोषमरुति त्वङ्गत्तुषारे जरत्
तन्तुच्छेदविशीर्णसन्धिशकलव्याकृष्टकन्थाञ्चलः ।
शीतार्तः करुणार्द्रहालिकविनिर्दिष्टे क्षिपामि क्षपां
इत्युच्चार्य पलालकूटकुहरे श्रान्तः प्रसुप्तोध्वगः ॥१३४२॥

कस्यचित।

रुन्धानः कर्णसन्धी शिशिरभरभयात्पाणियुग्मेन गाढं
बाढं विन्यस्य बाहुद्वयमुरसि रणद्दन्तपङ्क्तिः समन्तात।
अष्टीवद्भ्यां विचुम्बन्निपतितचिबुकं पृष्ठमात्रं हिमर्तौ
शेते संछाद्य सद्यस्त्रुटितचिरजरत्कन्थया पान्थरङ्कः ॥१३४३॥

सुव्रतदत्तस्य ।

पुण्यानौ पूर्णवाञ्छः प्रथममगणितप्लोषदोषः प्रदोषे
पान्थस्तप्त्वा प्रसुप्तः प्रतततनुतृणे धामनि ग्रामदेव्याः ।
उत्कम्पी कर्पटार्घे जरति पदहतिच्छिद्रिते च्छिन्ननिद्रो
वाते वाति प्रकमं हिमकणिनि कणन्कोणतः कोणमेति ॥१३४४॥

बाणस्य । (स्व१८५७, शा.प. ३९४६, सूक्तिमुक्तावलि ६४.१२, सु.र. १३०५)

संविष्टो ग्रामदेव्यास्तृणघटितकुटीकुड्यकोणैकदेशे
शीते संवाति वायौ हिमकणिनि कणहन्तपङ्क्तिद्वयाग्रः ।
पान्थः कन्थां निशीथे परिकलितजरत्तन्तुसन्तानगुर्वीं
ग्रीवापादाग्रजानुद्वयघटनरटत्कर्पटां प्रावृणोति ॥१३४५॥

तस्यैव । (शा.प. ३९४७, सूक्तिमुक्तावलि ६४.१३)

१७५. शिशिरः

धन्यानां वरपूरितमुखश्यामाङ्गनालिङ्गन
प्राप्तानेकसुखप्रमोदवपुषां रम्यस्तुषारोद्गमः ।
अस्माकं तु विदीर्णखण्डितपटप्रच्छादितोद्घाटित
क्रोडस्वीकृतजानुवेपथुमतां चेतः परं सीदति ॥१३४६॥

कस्यचित। (सु.र. ३१२)

विरहिवनितावक्त्रौपम्यं बिभर्ति निशापतिर्
गलितविभवस्याझेवाद्य द्युतिर्मसृणा रवेः ।
अभिनववधूरोषस्वादुः करीषतनूनपाद्
असरलजनाशेल्षक्रूरस्तुषारसमीरणः ॥१३४७॥

भासस्य । (सु.र. ३१७, अभिनन्दस्य)

एते वामविलोचनाकुचसखैः सोढव्यशीतार्तयः
प्राप्ताः पश्चिमसैन्धवस्य मरुतः प्रेमच्छिदो वासराः ।
यत्रापास्य पुराणपङ्कजमयं देवः सशृङ्गारभूर्
आदत्ते नवकुन्दकुड्मलशिखानिर्माणमन्यद्धनुः ॥१३४८॥

प्रभाकरस्य

कम्पन्ते कपयो भृशं जडकृशं गोजाविकं ग्लायति
श्वा चुल्लीकुहरोदरं क्षणमपि क्षिप्तोऽपि नैवोज्झति ।
शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्ववत्
स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकाङ्क्षति ॥१३४९॥

शतानन्दस्य । (स.क.आ. ३.१०, सु.र. ३१३ लक्ष्मीधरस्य, सूक्तिमुक्तावलि ६३.१७)

पाकक्षामतिलाः समुत्सुकयितुं शक्ताः कपोतान्भुवः
श्यामत्वं फलपीड्यमानकुसुमानापद्यते सर्षपान।
वायुर्व्यस्तशणस्तुषारकणवानभ्येति कम्पप्रदः
पान्थैः शुष्कविवादबद्धकलहैः पुण्याग्निरासेव्यते ॥१३५०॥

योगेश्वरस्य । (सु.र. ३१५)

१७६. शिशिरग्रामः

आभोगिनः किमपि सम्प्रति वासरान्ते
सम्पन्नशालिफलपल्लवितोपशल्याः ।
ग्रामास्तुषारभरबन्धुरगोमयाग्नि
धूमावलीवलयमेखलिनो हरन्ति ॥१३५१॥

अभिनन्दस्य । (सु.र. ३०३)

उद्वेगं जनयन्ति संचितवृषव्याप्ताजिरोपान्तकाः
प्रातः शीर्णकुटीरपुञ्जितलताशिम्बीतुषाराविलाः ।
ग्रामा गोमयधूमसंततिपरिक्लिष्टारुणश्मश्रुभिर्
वृद्धैः कुड्यनिवातलीननिभृतैरभ्यर्थ्यमानातपाः ॥१३५२॥

योगेश्वरस्य ।

शालिच्छेदसमृद्धहालिकगृहाः संसृष्ट=नीलोत्पल
स्निग्धश्यामयवप्ररोहनिविडव्यादीर्घसीमोदराः ।
मोदन्ते परिवृत्तधेन्वनडुहच्छायाः पलालैर्नवैः
संसक्तध्वनदिक्षुयन्त्रमुखरा ग्रामा गुडामोदिनः ॥१३५३॥

कस्यचित।

जातोक्षोत्सुकगृष्टिभीषितशिशुत्रासार्तनारीगणाः
खिन्नास्तीर्णनवीनशालिसुरभिस्फीतोपलिप्ताजिराः ।
नेदीयः खलमृद्यमानमृदितस्तूपीकृतव्रीहयः
पान्थप्रार्थ्यपलालगोपनपराः प्रायोऽद्य पल्लीगृहाः ॥१३५४॥

विरिञ्चेः ।

सीमान्तास्तुहिनागमे हलहतव्यासर्पित्शस्याटवीन्
अष्टप्रावरणा यवाङ्कुरचयं रोमाञ्चवद्बिभ्रति ।
ग्रामाः शालिपलालपिङ्गलखलप्रान्तज्वलत्पावक
प्रोद्यन्मांसलधूमकम्बलमलं शीतालवो भेजिरे ॥१३५५॥

पियाकस्य ।
१७७. शिशिरशस्यानि

माषीणं मुषितं यवेषु यवसश्यामच्छविः शीर्यते
ग्रामान्ताश्च मधूकधूसरभुवः स्मेरं यवानीवनम् ।
पुष्पाढ्याः शतपुष्पिकाः फलभृतः सिद्ध्यन्ति सिद्धार्थकाः
स्निग्धाः वास्तुकवास्तवः स्तवकितस्तम्बा च कुस्तुम्बरी ॥१३५६॥

शुभाङ्कस्य । (सु.र. ३२१, शुभाङ्गस्य)

सिद्धार्थाः फलसूचिबन्धगुरुभिर्लोलन्त्यमी पल्लवैर्
उच्छिन्दन्त्यध एव बन्धुरतया कोलीफलान्यर्भकाः ।
पाकप्रश्लथपत्रकोषदलनव्यक्ताङ्कुरग्रन्थयो
निष्ठीवन्त्यपि हस्तयन्त्रकलिताः पुण्ड्रेक्षयष्ट्यो रसम् ॥१३५७॥

वाचस्पतेः (सु.र. ३१६)

ईषल्लोमशभावभाञ्जि कपिशश्यामानुबन्धच्छवी
लिप्तत्वञ्चि चकोरकीरहरितोन्मेषीणि माषीलताः ।
एतास्तर्कय बालवानरवधूहस्ताङ्गुलीलब्धिम
स्पर्धावन्ति फलानि बिभ्रति परीणामाभिरामश्रियः ॥१३५८॥

वसुकल्पदत्तस्य

सिद्धार्थयष्टिषु यथोदयहीयमान
सन्तानबद्धफलसूचितपरम्परासु ।
विच्छिद्यमानकुसुमासु जनिक्रमेण
पाकक्रमः कपिशिमानमुपादधाति ॥१३५९॥

लक्ष्मीधरस्य । (सु.र. ११८४, कस्यचित्)

यवानीवल्लीभिः कपिशहरिताभिर्दिशि दिशि
श्रयन्ते सीमानः किमपि कमनीयत्वमधुना ।
प्रथन्ते प्लक्षाणामपि च कुटिलाः काननभुवां
विलीनाशाबन्धाः शुकशिशुकतुण्डच्छविमुषः ॥१३६०॥

भूषणस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP