TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

किरातार्जुनीयम्‌ - प्रसंग १४

'किरातार्जुनीयम्' प्रसिद्ध प्राचीन संस्कृत ग्रंथांपैकी एक होय. या काव्याचे रचनाकार महाकवि भारवी होत. किरातरूपधारी शिव आणि  पांडु पुत्र अर्जुन यांच्यातील धनुर्युद्ध आणि वार्तालाप यावर आधारित हे काव्य आहे.


प्रसंग १४
ततः किरातस्य वचोभिरुद्धतैः पराहतः शैल इवार्णवाम्बुभिः ।
जहौ न धैर्यं कुपितोऽपि पाण्डवः सुदुर्ग्रहान्तःकरणा हि साधवः ॥१४.१॥

सलेशं उल्लिङ्गितशात्रवेङ्गितः कृती गिरां विस्तरतत्त्वसंग्रहे ।
अयं प्रमाणीकृतकालसाधनः प्रशान्तसंरम्भ इवाददे वचः ॥१४.२॥

विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषां ।
प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती ॥१४.३॥

भवन्ति ते सभ्यतमा विपश्चितां मनोगतं वाचि निवेशयन्ति ये ।
नयन्ति तेष्वप्युपपन्ननैपुणा गम्भीरं अर्थं कतिचित्प्रकाशतां॥ १४.४॥

स्तुवन्ति गुर्वीं अभिधेयसम्पदं विशुद्धिमुक्तेरपरे विपश्चितः ।
इति स्थितायां प्रतिपूरुषं रुचौ सुदुर्लभाः सर्वमनोरमा गिरः ॥१४.५॥

समस्य सम्पादयता गुणैरिमां त्वया समारोपितभार भारतीं ।
प्रगल्भं आत्मा धुरि धुर्य वाग्मिनां वनचरेणापि सताधिरोपितः ॥१४.६॥

प्रयुज्य सामाचरितं विलोभनं भयं विभेदाय धियः प्रदर्शितं ।
तथाभियुक्तं च शिलीमुखार्थिना यथेतरन्न्याय्यं इवावभासते ॥१४.७॥

विरोधि सिद्धेरिति कर्तुं उद्यतः स वारितः किं भवता न भूपतिः ।
हिते नियोज्यः खलु भूतिं इच्छता सहार्थनाशेन नृपोऽनुजीविना ॥१४.८॥

ध्रुवं प्रणाशः प्रहितस्य पत्त्रिणः शिलोच्चये तस्य विमार्गणं नयः ।
न युक्तं अत्रार्यजनातिलङ्घनं दिशत्यपायं हि सतां अतिक्रमः ॥१४.९॥

अतीतसंख्या विहिता ममाग्निना शिलामुखाः खाण्डवं अत्तुं इच्छता ।
अनादृतस्यामरसायकेष्वपि स्थिता कथं शैलजनाशुगे धृतिः ॥१४.१०॥

यदि प्रमाणीकृतं आर्यचेष्टितं किं इत्यदोषेण तिरस्कृता वयं ।
अयातपूर्वा परिवादगोचरं सतां हि वाणी गुणं एव भाषते ॥१४.११॥

गुणापवादेन तदन्यरोपणाद्भृशाधिरूढस्य समञ्जसं जनं ।
द्विधेव कृत्वा हृदयं निगूहतः स्फुरदसाधोर्विवृणोति वागसिः ॥१४.१२॥

वनाश्रयाः कस्य मृगाः परिग्रहाः शृणाति यस्तान्प्रसभेन तस्य ते ।
प्रहीयतां अत्र नृपेण मानिता न मानिता चास्ति भवन्ति च श्रियः ॥१४.१३॥

न वर्त्म कस्मैचिदपि प्रदीयतां इति व्रतं मे विहितं महर्षिणा ।
जिघांसुरस्मान्निहतो मया मृगो व्रताभिरक्षा हि सतां अलंक्रिया ॥१४.१४॥

मृगान्विनिघ्नन्मृगयुः स्वहेतुना कृतोपकारः कथं इच्छतां तपः ।
कृपेति चेदस्तु मृगः क्षतः क्षणादनेन पूर्वं न मयेति का गतिः ॥१४.१५॥

अनायुधे सत्त्वजिघांसिते मुनौ कृपेति वृत्तिर्महतां अकृत्रिमा ।
शरासनं बिभ्रति सज्यसायकं कृतानुकम्पः स कथं प्रतीयते ॥१४.१६॥

अथो शरस्तेन मदर्थं उज्झितः फलं च तस्य प्रतिकायसाधनं ।
अविक्षते तत्र मयात्मसात्कृते कृतार्थता नन्वधिका चमूपतेः ॥१४.१७॥

यदात्थ कामं भवता स याच्यतां इति क्षमं नैतदनल्पचेतसां ।
कथं प्रसह्याहरणैषिणां प्रियः परावनत्या मलिनीकृताः श्रियः ॥१४.१८॥

अभूतं आसज्य विरुद्धं ईहितं बलादलभ्यं तव लिप्सते नृपः ।
विजानतोऽपि ह्यनयस्य रौद्रतां भवत्यपाये परिमोहिनी मतिः ॥१४.१९॥

असिः शरा वर्म धनुश्च नोच्चकैर्विविच्य किं प्रार्थितं ईश्वरेण ते ।
अथास्ति शक्तिः कृतं एव याच्ञया न दूषितः शक्तिमतां स्वयंग्रहः ॥१४.२०॥

सखा स युक्तः कथितः कथं त्वया यदृच्छयासूयति यस्तपस्यते ।
गुणार्जनोच्छ्रायविरुद्धबुद्धयः प्रकृत्यमित्रा हि सतां असाधवः ॥१४.२१॥

वयं क्व वर्णाश्रमरक्षणोचिताः क्व जातिहीना मृगजीवितच्छिदः ।
सहापकृष्टैर्महतां न संगतं भवन्ति ग्ॐआयुसखा न दन्तिनः ॥१४.२२॥

परोऽवजानाति यदज्ञताजडस्तदुन्नतानां न विहन्ति धीरतां ।
समानवीर्यान्वयपौरुषेषु यः करोत्यतिक्रान्तिं असौ तिरस्क्रिया ॥१४.२३॥

यदा विगृह्णाति हतं तदा यशः करोति मैत्रीं अथ दूषिता गुणाः ।
स्थितिं समीक्ष्योभयथा परीक्षकः करोत्यवज्ञोपहतं पृथग्जनं॥ १४.२४॥

मया मृगान्हन्तुरनेन हेतुना विरुद्धं आक्षेपवचस्तितिक्षितं ।
शरार्थं एष्यत्यथ लप्स्यते गतिं शिर्ॐअणिं दृष्टिविषाज्जिघृक्षतः ॥१४.२५॥

इतीरिताकूतं अनीलवाजिनं जयाय दूतः प्रतितर्ज्य तेजसा ।
ययौ समीपं ध्वजिनीं उपेयुषः प्रसन्नरूपस्य विरूपचक्षुषः ॥१४.२६॥

ततोऽपवादेन पताकिनीपतेश्चचाल निर्ह्रादवती महाचमूः ।
युगान्तवाताभिहतेव कुर्वती निनादं अम्भोनिधिवीचिसंहतिः ॥१४.२७॥

रणाय जैत्रः प्रदिशन्निव त्वरां तरङ्गितालम्बितकेतुसंततिः ।
पुरो बलानां सघनाम्बुशीकरः शनैः प्रतस्थे सुरभिः समीरणः ॥१४.२८॥

जयारवक्ष्वेडितनादमूर्छितः शरासनज्यातलवारणध्वनिः ।
असम्भवन्भूधरराजकुक्षिषु प्रकम्पयन्गां अवतस्तरे दिशः ॥१४.२९॥

निशातरौद्रेषु विकासतां गतैः प्रदीपयद्भिः ककुभां इवान्तरं ।
वनेसदां हेतिषु भिन्नविग्रहैर्विपुस्फुरे रश्मिमतो मरीचिभिः ॥१४.३०॥

उदूढवक्षःस्थगितैकदिङ्मुखो विकृष्टविस्फारितचापमण्डलः ।
वितत्य पक्षद्वयं आयतं बभौ विभुर्गुणानां उपरीव मध्यगः ॥१४.३१॥

सुगेषु दुर्गेषु च तुल्यविक्रमैर्जवादहंपूर्विकया यियासुभिः ।
गणैरविच्छेदनिरुद्धं आबभौ वनं निरुच्छ्वासं इवाकुलाकुलं॥ १४.३२॥

तिरोहितश्वभ्रनिकुञ्चरोधसः समश्नुवानाः सहसातिरिक्ततां ।
किरातसैन्यैरपिधाय रेचिता भुवः क्षणं निम्नतयेव भेजिरे ॥१४.३३॥

पृथूरुपर्यस्तबृहल्लताततिर्जवानिलाघूर्णितशालचन्दना ।
गणाधिपानां परितः प्रसारिणी वनान्यवाञ्चीव चकार संहतिः ॥१४.३४॥

ततः सदर्पं प्रतनुं तपस्यया मदस्रुतिक्षामं इवैकवारणं ।
परिज्वलन्तं निधनाय भूभृतां दहन्तं आशा इव जातवेदसं॥ १४.३५॥

अनादरोपात्तधृतैकसायकं जयेऽनुकूले सुहृदीव सस्पृहं ।
शनैरपूर्णप्रतिकारपेलवे निवेशयन्तं नयने बलोदधौ ॥१४.३६॥

निषण्णं आपत्प्रतिकारकारणे शरासने धैर्य इवानपायिनि ।
अलङ्घनीयं प्रकृतावपि स्थितं निवातनिष्कम्पं इवापगापतिं॥ १४.३७॥

उपेयुषीं बिभ्रतं अन्तकद्युतिं वधाददूरे पतितस्य दंष्ट्रिणः ।
पुरः समावेशितसत्पशुं द्विजैः पतिं पशूनां इव हूतं अध्वरे ॥१४.३८॥

निजेन नीतं विजितान्यगौरवं गभीरतां धैर्यगुणेन भूयसा ।
वनोदयेनेव घनोरुवीरुधा समन्धकारीकृतं उत्तमाचलं॥ १४.३९॥

महर्षभस्कन्धं अनूनकंधरं बृहच्छिलावप्रघनेन वक्षसा ।
समुज्जिहीर्षुं जगतीं महाभरां महावराहं महतोऽर्णवादिव ॥१४.४०॥

हरिन्मणिश्यामं उदग्रविग्रहं प्रकाशमानं परिभूय देहिनः ।
मनुष्यभावे पुरुषं पुरातनं स्थितं जलादर्श इवांशुमालिनं॥ १४.४१॥

गुरुक्रियारम्भफलैरलंकृतं गतिं प्रतापस्य जगत्प्रमाथिनः ।
गणाः समासेदुरनीलवाजिनं तपात्यये तोयघना घना इव ॥१४.४२॥

यथास्वं आशंसितविक्रमाः पुरा मुनिप्रभावक्षततेजसः परे ।
ययुः क्षणादप्रतिपत्तिमूढतां महानुभावः प्रतिहन्ति पौरुषं॥ १४.४३॥

ततः प्रजह्रे समं एव तत्र तैरपेक्षितान्योन्यबलोपपत्तिभिः ।
महोदयानां अपि संघवृत्तितां सहायसाध्याः प्रदिशन्ति सिद्धयः ॥१४.४४॥

किरातसैन्यादुरुचापनोदिताः समं समुत्पेतुरुपात्तरंहसः ।
महावनादुन्मनसः खगा इव प्रवृत्तपत्त्रध्वनयः शिलीमुखाः ॥१४.४५॥

गभीररन्ध्रेषु भृशं महीभृतः प्रतिस्वनैरुन्नमितेन सानुषु ।
धनुर्निनादेन जवादुपेयुषा विभिद्यमाना इव दध्वनुर्दिशः ॥१४.४६॥

विधूनयन्ती गहनानि भूरुहां तिरोहितोपान्तनभोदिगन्तरा ।
महीयसी वृष्टिरिवानिलेरिता रवं वितेने गणमार्गणावलिः ॥१४.४७॥

त्रयीं ऋतूनां अनिलाशिनः सतः प्रयाति पोषं वपुषि प्रहृष्यतः ।
रणाय जिष्णोर्विदुषेव सत्वरं घनत्वं ईये शिथिलेन वर्मणा ॥१४.४८॥

पतत्सु शस्त्रेषु वितत्य रोदसी समन्ततस्तस्य धनुर्दुधूषतः ।
सरोषं उल्केव पपात भीषणा बलेषु दृष्टिर्विनिपातशंसिनी ॥१४.४९॥

दिशः समूहन्निव विक्षिपन्निव प्रभां रवेराकुलयन्निवानिलं ।
मुनिश्चचाल क्षयकालदारुणः क्षितिं सशैलां चलयन्निवेषुभिः ॥१४.५०॥

विमुक्तं आशंसितशत्रुनिर्जयैरनेकं एकावसरं वनेचरैः ।
स निर्जघानायुधं अन्तरा शरैः क्रियाफलं काल इवातिपातितः ॥१४.५१॥

गतैः परेषां अविभावनीयतां निवारयद्भिर्विपदं विदूरगैः ।
भृशं बभूवोपचितो बृहत्फलैः शरैरुपायैरिव पाण्डुनन्दनः ॥१४.५२॥

दिवः पृथिव्याः ककुभां नु मण्डलात्पतन्ति बिम्बादुत तिग्मतेजसः ।
सकृद्विकृष्टादथ कार्मुकान्मुनेः शराः शरीरादिति तेऽभिमेनिरे ॥१४.५३॥

गणाधिपानां अविधाय निर्गतैः परासुतां मर्मविदारणैरपि ।
जवादतीये हिमवानध्ॐउखैः कृतापराधैरिव तस्य पत्त्रिभिः ॥१४.५४॥

द्विषां क्षतीर्याः प्रथमे शिलामुखा विभिद्य देहावरणानि चक्रिरे ।
न तासु पेते विशिखैः पुनर्मुनेररुंतुदत्वं महतां ह्यगोचरः ॥१४.५५॥

समुज्झिता यावदराति निर्यती सहैव चापान्मुनिबाणसंहतिः ।
प्रभा हिमांशोरिव पङ्कजावलिं निनाय संकोचं उमापतेश्चमूं॥ १४.५६॥

अजिह्मं ओजिष्ठं अमोघं अक्लमं क्रियासु बह्वीषु पृथङ्नियोजितं ।
प्रसेहिरे सादयितुं न सादिताः शरौघं उत्साहं इवास्य विद्विषः ॥१४.५७॥

शिवध्वजिन्यः प्रतियोधं अग्रतः स्फुरन्तं उगेषुमयूखमालिनं ।
तं एकदेशस्थं अनेकदेशगा निदध्युरर्कं युगपत्प्रजा इव ॥१४.५८॥

मुनेः शरौघेण तदुग्ररंहसा बलं प्रकोपादिव विष्वगायता ।
विधूनितं भ्रान्तिं इयाय सङ्गिनीं महानिलेनेव निदाघजं रजः ॥१४.५९॥
तपोबलेनैष विधाय भूयसीस्तनूरदृश्याः स्विदिषून्निरस्यति ।
अमुष्य मायाविहतं निहन्ति नः प्रतीपं आगत्य किं उ स्वं आयुधं॥ १४.६०॥

हृता गुणैरस्य भयेन वा मुनेस्तिरोहिताः स्वित्प्रहरन्ति देवताः ।
कथं न्वमी संततं अस्य सायका भवन्त्यनेके जलधेरिवोर्मयः ॥१४.६१॥

जयेन कच्चिद्विरमेदयं रणाद्भवेदपि स्वस्ति चराचराय वा ।
तताप कीर्णा नृपसूनुमार्गणैरिति प्रतर्काकुलिता पताकिनी ॥१४.६२॥

अमर्षिणा कृत्यं इव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः ।
बलीयसा तद्विधिनेव पौरुषं बलं निरस्तं न रराज जिष्णुना ॥१४.६३॥

प्रतिदिशं प्लवगाधिपलक्ष्मणा विशिखसंहतितापितमूर्तिभिः ।
रविकरग्लपितैरिव वारिभिः शिवबलैः परिमण्डलता दधे ॥१४.६४॥

प्रविततशरजालच्छन्नविश्वान्तराले विधुवति धनुराविर्मण्डलं पाण्डुसूनौ ।
कथं अपि जयलक्ष्मीर्भूतभूता विहातुं विषमनयनसेनापक्षपातं विषेहे ॥१४.६५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:23.7870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

policy at premium

  • अधिमूल्य विमापत्र 
  • अधिमूल्य विमापत्र 
RANDOM WORD

Did you know?

हिंदू धर्मात ३३ कोटी देवता आहेत काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.