TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

किरातार्जुनीयम्‌ - प्रसंग १३

'किरातार्जुनीयम्' प्रसिद्ध प्राचीन संस्कृत ग्रंथांपैकी एक होय. या काव्याचे रचनाकार महाकवि भारवी होत. किरातरूपधारी शिव आणि  पांडु पुत्र अर्जुन यांच्यातील धनुर्युद्ध आणि वार्तालाप यावर आधारित हे काव्य आहे.


प्रसंग १३
वपुषां परमेण भूधराणां अथ सम्भाव्यपराक्रमं विभेदे ।
मृगं आशु विलोकयांचकार स्थिरदंष्ट्रोग्रमुखं महेन्द्रसूनुः ॥१३.१॥

स्फुटबद्धसटोन्नतिः स दूरादभिधावन्नवधीरितान्यकृत्यः ।
जयं इच्छति तस्य जातशङ्के मनसीमं मुहुराददे वितर्कं॥ १३.२॥

घनपोत्रविदीर्णशालमूलो निबिडस्कन्धनिकाषरुग्णवप्रः ।
अयं एकचरोऽभिवर्तते मां समरायेव समाजुहूषमाणः ॥१३.३॥

इह वीतभयास्तपोनुभावाज्जहति व्यालमृगाः परेषु वृत्तिं ।
मयि तां सुतरां अयं विधत्ते विकृतिः किं नु भवेदियं नु माया ॥१३.४॥

अथवैष कृतज्ञयेव पूर्वं भृशं आसेवितया रुषा न मुक्तः ।
अवधूय विरोधिनीः किं आरान्मृगजातीरभियाति मां जवेन ॥१३.५॥

न मृगः खलु कोऽप्ययं जिघांसुः स्खलति ह्यत्र तथा भृशं मनो मे ।
विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं रिपुं वा ॥१३.६॥

मुनिरस्मि निरागसः कुतो मे भयं इत्येष न भूतयेऽभिमानः ।
परवृद्धिषु बद्धमत्सराणां किं इव ह्यस्ति दुरात्मनां अलङ्घ्यं॥ १३.७॥

दनुजः स्विदयं क्षपाचरो वा वनजे नेति बलं बदस्ति सत्त्वे ।
अभिभूय तथा हि मेघनीलः सकलं कम्पयतीव शैलराजं॥ १३.८॥

अयं एव मृगव्यसत्त्रकामः प्रहरिष्यन्मयि मायया शमस्थे ।
पृथुभिर्ध्वजिनीस्रवैरकार्षीच्चकितोद्भ्रान्तमृगाणि काननानि ॥१३.९॥

बहुशः कृतसत्कृतेर्विधातुं प्रियं इच्छन्नथवा सुयोधनस्य ।
क्षुभितं वनगोचराभियोगाद्गणं आशिश्रियदाकुलं तिरश्चां॥ १३.१०॥

अवलीढसनाभिरश्वसेनः प्रसभं खाण्डवजातवेदसा वा ।
प्रतिकर्तुं उपागतः समन्युः कृतमन्युर्यदि वा वृकोदरेण ॥१३.११॥

बलशालितया यथा तथा वा धियं उच्छेदपरामयं दधानः ।
नियमेन मया निबर्हणीयः परमं लाभं अरातिभङ्गं आहुः ॥१३.१२॥

कुरु तात तपांस्यमार्गदायी विजयायेत्यलं अन्वशान्मुनिर्मां ।
बलिनश्च वधादृतेऽस्य शक्यं व्रसंरक्षणं अन्यथा न कर्तुं॥ १३.१३॥

इति तेन विचिन्त्य चापनाम प्रथमं पौरुषचिह्नं आललम्बे ।
उपलब्धगुणः परस्य भेदे सचिवः शुद्ध इवाददे च बाणः ॥१३.१४॥

अनुभाववता गुरु स्थिरत्वादविसंवादि धनुर्धनंजयेन ।
स्वबलव्यसनेऽपि पीड्यमानं गुणवन्मित्रं इवानतिं प्रपेदे ॥१३.१५॥

प्रविकर्षनिनादभिन्नरन्ध्रः पदविष्टम्भनिपीडितस्तदानीं ।
अधिरोहति गाण्डिवं महेषौ सकलः संशयं आरुरोह शैलः ॥१३.१६॥

ददृशेऽथ सविस्मयं शिवेन स्थिरपूर्णायतचापमण्डलस्थः ।
रचितस्तिसृणां पुरां विधातुं वधं आत्मेव भयानकः परेषां॥ १३.१७॥

विचकर्ष च संहितेषुरुच्चैश्चरणास्कन्दननामिताचलेन्द्रः ।
धनुरायतभोगवासुकिज्या- वदनग्रन्थिविमुक्तवह्नि शम्भुः ॥१३.१८॥

स भवस्य भवक्षयैकहेतोः सितसप्तेश्च विधास्यतोः सहार्थं ।
रिपुराप पराभवाय मध्यं प्रकृतिप्रत्यययोरिवानुबन्धः ॥१३.१९॥

अथ दीपितवारिवाहवर्त्मा रववित्रासितवारणादवार्यः ।
निपपात जवादिषु पिनाकान्महतोऽभ्रादिव वैद्युतः कृशानुः ॥१३.२०॥

व्रजतोऽस्य बृहत्पतत्त्रजन्मा कृततार्क्ष्योपनिपातवेगशङ्कः ।
प्रतिनादमहान्महोरगाणां हृदयश्रोत्रभिदुत्पपात नादः ॥१३.२१॥

नयनादिव शूलिनः प्रवृत्तैर्मनसोऽप्याशुतरं यतः पिशङ्गैः ।
विदधे विलसत्तडिल्लताभैः किरणैर्व्य्ॐअनि मार्गणस्य मार्गः ॥१३.२२॥

अपयन्धनुषः शिवान्तिकस्थैर्विवरेसद्भिरभिख्यया जिहानः ।
युगपद्ददृशे विशन्वराहं तदुपोढैश्च नभश्चरैः पृषत्कः ॥१३.२३॥

स तमालनिभे रिपौ सुराणां घननीहार इवाविषक्तवेगः ।
भयविप्लुतं ईक्षितो नभःस्थैर्जगतीं ग्राह इवापगां जगाहे ॥१३.२४॥

सपदि प्रियरूपपर्वरेखः सितलोहाग्रनखः खं आससाद ।
कुपितान्तकतर्जनाङ्गुलिश्रीर्व्यथयन्प्राणभृतः कपिध्वजेषु ॥१३.२५॥

परमास्त्रपरिग्रहोरुतेजः स्फुरदुल्काकृति विक्षिपन्वनेषु ।
स जवेन पतन्परःशतानां पततां व्रात इवारवं वितेने ॥१३.२६॥

अविभावितनिष्क्रमप्रयाणः शमितायाम इवातिरंहसा सः ।
सह पूर्वतरं नु चित्तवृत्तेरपतित्वा नु चकार लक्ष्यभेदं॥ १३.२७॥

स वृषध्वजसायकावभिन्नं जयहेतुः प्रतिकायं एषणीयं ।
लघु साधयितुं शरः प्रसेहे विधिनेवार्थं उदीरितं प्रयत्नः ॥१३.२८॥

अविवेकवृथाश्रमाविवार्थं क्षयलोभाविव संश्रितानुरागं ।
विजिगीषुं इवानयप्रमादाववसादं विशिखौ विनिन्यतुस्तं॥ १३.२९॥

अथ दीर्घतमं तमः प्रवेक्ष्यन्सहसा रुग्ण्रयः स सम्भ्रमेण ।
निपतन्तं इवोष्णरश्मिं उर्व्यां वलयीभूततरुं धरां च मेने ॥१३.३०॥

स गतः क्षितिं उष्णशोणितार्द्रः खुरदंष्ट्राग्रनिपातदारिताश्मा ।
असुभिः क्षणं ईक्षितेन्द्रसूनिर्विहितामर्षगुरुध्वनिर्निरासे ॥१३.३१॥

स्फुटपौरुषं आपपात पार्थस्तं अथ प्राज्यशरः शरं जिघृक्षुः ।
न तथा कृतवेदिनां करिष्यन्प्रियतां एति यथा कृतावदानः ॥१३.३२॥

उपकार इवासति प्रयुक्तः स्थितिं अप्राप्य मृगे गतः प्रणाशं ।
कृतशक्तिरवाङ्मुखो गुरुत्वाज्जनितव्रीड इवात्मपौरुषेण ॥१३.३३॥

स समुद्धरता विचिन्त्य तेन स्वरुचं कीर्तिं इवोत्तमां दधानः ।
अनुयुक्त इव स्ववार्तं उच्चैः परिरेभे नु भृशं विलोचनाभ्यां॥ १३.३४॥

तत्र कार्मुकभृतं महाभुजः पश्यति स्म सहसा वनेचरं ।
संनिकाशयितुं अग्रतः स्थितं शासनं कुसुमचापविद्विषः ॥१३.३५॥

स प्रयुज्य तनये महीपतेरात्मजातिसदृशीं किलानतिं ।
सान्त्वपूर्वं अभिनीतिहेतुकं वक्तुं इत्थं उपचक्रमे वचः ॥१३.३६॥

शान्तता विनययोगि मानसं भूरिधाम विमलं तपः श्रुतं ।
प्राह ते नु सदृशी दिवौकसां अन्ववायं अवदातं आकृतिः ॥१३.३७॥

दीपितस्त्वं अनुभावसम्पदा गौरवेण लघयन्महीभृतः ।
राजसे मुनिरपीह कारयन्नाधिपत्यं इव शातमन्यवं॥ १३.३८॥

तापसोऽपि विभुतां उपेयिवानास्पदं त्वं असि सर्वसम्पदां ।
दृश्यते हि भवतो विना जनैरन्वितस्य सचिवैरिव द्युतिः ॥१३.३९॥

विस्मयः क इव वा जयश्रिया नैव मुक्तिरपि ते दवीयसी ।
ईप्सितस्य न भवेदुपाश्रयः कस्य निर्जितरजस्तमोगुणः ॥१३.४०॥

ह्रेपयन्नहिमतेजसं त्विषा स त्वं इत्थं उपपन्नपौरुषः ।
हर्तुं अर्हसि वराहभेदिनं नैनं अस्मदधिपस्य सायकं॥ १३.४१॥

स्मर्यते तनुभृतां सनातनं न्याय्यं आचरितं उत्तमैर्नृभिः ।
ध्वंसते यदि भवादृशस्ततः कः प्रयातु वद तेन वर्त्मना ॥१३.४२॥

आकुमारं उपदेष्टुं इच्छवः संनिवृत्तिं अपथान्महापदः ।
योगशक्तिजितजन्ममृत्यवः शीलयन्ति यतयः सुशीलतां॥ १३.४३॥

तिष्ठतां तपसि पुण्यं आसजन्सम्पदोऽनुगुणयन्सुखैषिणां ।
योगिनां परिणमन्विमुक्तये केन नास्तु विनयः सतां प्रियः ॥१३.४४॥

नूनं अत्रभवतः शराकृतिं सर्वथायं अनुयाति सायकः ।
सोऽयं इत्यनुपपन्नसंशयः कारितस्त्वं अपथे पदं यया ॥१३.४५॥

अन्यदीयविशिखे न केवलं निःस्पृहस्य भवितव्यं आहृते ।
निघ्नतः परनिबर्हितं मृगं व्रीडितव्यं अपि ते सचेतसः ॥१३.४६॥

संततं निशमयन्त उत्सुका यैः प्रयान्ति मुदं अस्य सूरयः ।
कीर्तितानि हसितेऽपि तानि यं व्रीडयन्ति चरितानि मानिनं॥ १३.४७॥

अन्यदोषं इव सः स्वकं गुणं ख्यापयेत्कथं अधृष्टताजडः ।
उच्यते स खलु कार्यवत्तया धिग्विभिन्नबुधसेतुं अर्थितां॥ १३.४८॥

दुर्वचं तदथ मा स्म भून्मृगस्त्वावसौ यदकरिष्यदोजसा ।
नैनं आशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्त्रिणा ॥१३.४९॥
को न्विमं हरितुरङ्गं आयुध- स्थेयसीं दधतं अङ्गसंहतिं ।
वेगवत्तरमृते चमूपतेर्हन्तुं अर्हति शरेण दंष्ट्रिणं॥ १३.५०॥

मित्रं इष्टं उपकारि संशये मेदिनीपतिरयं तथा च ते ।
तं विरोध्य भवता निरासि मा सज्जनैकवसतिः कृतज्ञता ॥१३.५१॥

लभ्यं एकसुकृतेन दुर्लभा रक्षितारं असुरक्ष्यभूतयः ।
स्वन्तं अन्तविरसा जिगीषतां मित्रलाभं अनु लाभसम्पदः ॥१३.५२॥

चञ्चलं वसु नितान्तं उन्नता मेदिनीं अपि हरन्त्यरातयः ।
भूधरस्थिरं उपेयं आगतं मावमंस्त सुहृदं महीपतिं॥ १३.५३॥

जेतुं एव भवता तपस्यते नायुधानि दधते मुमुक्षवः ।
प्राप्स्यते च सकलं महीभृता संगतेन तपसः फलं त्वया ॥१३.५४॥

वाजिभूमिरिभराजकाननं सन्ति रत्ननिचयाश्च भूरिशः ।
काञ्चनेन किं इवास्य पत्त्रिणा केवलं न सहते विलङ्घनं॥ १३.५५॥

सावलेपं उपलिप्सते परैरभ्युपैति विकृतिं रजस्यपि ।
अर्थितस्तु न महान्समीहते जीवितं किमु धनं धनायितुं॥ १३.५६॥

तत्तदीयविशिखातिसर्जनादस्तु वां गुरु यदृच्छयागतं ।
राघवप्लवगराजयोरिव प्रेम युक्तं इतरेतराश्रयं॥ १३.५७॥

नाभियोक्तुं अनृतं त्वं इष्यते कस्तपस्विविशिखेषु चादरः ।
सन्ति भूभृति शरा हि नः परे ये पराक्रमवसूनि वज्रिणः ॥१३.५८॥

मार्गणैरथ तव प्रयोजनं नाथसे किमु पतिं न भूभृतः ।
त्वद्विधं सुहृदं एत्य स अर्थिनं किं न यच्छति विजित्य मेदिनीं॥ १३.५९॥

तेन सूरिरुपकारिताधनः कर्तुं इच्छति न याचितं वृथा ।
सीदतां अनुभवन्निवार्थिनां वेद यत्प्रणयभङ्गवेदनां॥ १३.६०॥

शक्तिरर्थपतिषु स्वयंग्रहं प्रेम कारयति वा निरत्ययं ।
कारणद्वयं इदं निरस्यतः प्रार्थनाधिकबले विपत्फला ॥१३.६१॥

अस्त्रवेदं अधिगम्य तत्त्वतः कस्य चेह भुजवीर्यशालिनः ।
जामदग्न्यं अपहाय गीयते तापसेषु चरितार्थं आयुधं॥ १३.६२॥

अभ्यघानि मुनिचापलात्त्वया यन्मृगः क्षितिपतेः परिग्रहः ।
अक्षमिष्ट तदयं प्रमाद्यतां संवृणोति खलु दोषं अज्ञता ॥१३.६३॥

जन्मवेषतपसां विरोधिनीं मा कृथाः पुनरमूं अपक्रियां ।
आपदेत्युभयलोकदूषणी वर्तमानं अपथे हि दुर्मतिं॥ १३.६४॥

यष्टुं इच्छसि पित्éन्न साम्प्रतं संवृतोऽर्चिचयिषुर्दिवौकसः ।
दातुं एव पदवीं अपि क्षमः किं मृगेऽङ्ग विशिखं न्यवीविशः ॥१३.६५॥

सज्जनोऽसि विजहीहि चापलं सर्वदा क इव वा सहिष्यते ।
वारिधीनिव युगान्तवायवः क्षोभयन्त्यनिभृता गुरूनपि ॥१३.६६॥

अस्त्रवेदविदयं महीपतिः पर्वतीय इति मावजीगणः ।
गोपितुं भुवं इमां मरुत्वता शैलवासं अनुनीय लम्भितः ॥१३.६७॥

तत्तितिक्षितं इदं मया मुनेरित्यवोचत वचश्चमूपतिः ।
बाणं अत्रभवते निजं दिशन्नाप्नुहि त्वं अपि सर्वसम्पदः ॥१३.६८॥

आत्मनीनं उपतिष्ठते गुणाः सम्भवन्ति विरमन्ति चापदः ।
इत्यनेकफलभाजि मा स्म भूदर्थिता कथं इवार्यसंगमे ॥१३.६९॥

दृश्यतां अयं अनोकहान्तरे तिग्महेतिपृतनाभिरन्वितः ।
साहिवीचिरिव सिन्धुरुद्धतो भूपतिः समयसेतुवारितः ॥१३.७०॥

सज्यं धनुर्वहति योऽहिपतिस्थवीयः स्थेयाञ्जयन्हरितुरङ्गमकेतुलक्ष्मीं ।
अस्यानुकूलय मतिं मतिमन्ननेन सख्या सुखं समभियास्यसि चिन्तितानि ॥१३.७१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:23.7230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

delegate

  • सा. प्रतिनिधि 
  • सा. प्रत्यायुक्त 
  • प्रतिनिधि म्हणून पाठविणे 
  • प्रत्यायुक्त करणे 
More meanings
RANDOM WORD

Did you know?

भावाला राखी बांधण्यामागील धार्मिक अथवा भावनिक महत्व काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.