TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

किरातार्जुनीयम्‌ - प्रसंग १२

'किरातार्जुनीयम्' प्रसिद्ध प्राचीन संस्कृत ग्रंथांपैकी एक होय. या काव्याचे रचनाकार महाकवि भारवी होत. किरातरूपधारी शिव आणि  पांडु पुत्र अर्जुन यांच्यातील धनुर्युद्ध आणि वार्तालाप यावर आधारित हे काव्य आहे.


प्रसंग १२
अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनं ।
क्लान्तिरहितं अभिराधयितुं विधिवत्तपांसि विदधे धनंजयः ॥१२.१॥

अभिरश्मिमालि विमलस्य धृतजयधृतेरनाशुषः ।
तस्य भुवि बहुतिथास्तिथयः प्रतिजग्मुरेकचरणं निषीदतः ॥१२.२॥

वपुरिन्द्रियोपतपनेषु सततं असुखेषु पाण्डवः ।
व्याप नगपतिरिव स्थिरतां महतां हि धैर्यं अविभाव्यवैभवं॥ १२.३॥

न पपात संनिहितपक्ति- सुरभिषु फलेषु मानसं ।
तस्य शुचिनि शिशिरे च पयस्यमृतायते हि सुतपः सुकर्मणां॥ १२.४॥

न विसिस्मिये न विषसाद मुहुरलसतां नु चाददे ।
सत्त्वं उरुधृति रजस्तमसी न हतः स्म तस्य हतशक्तिपेलवे ॥१२.५॥

तपसा कृशं वपुरुवाह स विजितजगत्त्रयोदयं ।
त्रासजननं अपि तत्त्वविदां किं इवास्ति यन्न सुकरं मनस्विभिः ॥१२.६॥

ज्वलतोऽनलादनुनिशीथं अधिकरुचिरम्भसां निधेः ।
धैर्यगुणं अवजयन्विजयी ददृशे समुन्नततरः स शैलतः ॥१२.७॥

जपतः सदा जपं उपांशु वदनं अभितो विसारिभिः ।
तस्य दशनकिरणैः शुशुभे परिवेषभीषणं इवार्कमण्डलं॥ १२.८॥

कवचं स बिभ्रदुपवीत- पदनिहितसज्यकार्मुकः ।
शैलपतिरिव महेन्द्रधनुः- परिवीतभीमगहनो विदिद्युते ॥१२.९॥

प्रविवेश गां इव कृशस्य नियमसवनाय गच्छतः ।
तस्य पदविनमितो हिमवान्गुरुतां नयन्ति हि गुणा न संहतिः ॥१२.१०॥

परिकीर्णं उद्यतभुजस्य भुवनविवरे दुरासदं ।
ज्योतिरुपरि शिरसो विततं जगृहे निजान्मुनिदिवौकसां पथः ॥१२.११॥

रजनीषु राजतनयस्य बहुलसमयेऽपि धामभिः ।
भिन्नतिमिरनिकरं न जहे शशिरश्मिसंगमयुजा नभः श्रिया ॥१२.१२॥

महता मयूखनिचयेन शमितरुचि जिष्णुजन्मना ।
ह्रीतं इव नभसि वीतमले न विराजते स्म वपुरंशुमालिनः ॥१२.१३॥

तं उदीरितारुणजटांशुं अधिगुणशरासनं जनाः ।
रुद्रं अनुदितललाटदृशं ददृशुर्मिमन्थिषुं इवासुरीः पुरीः ॥१२.१४॥

मरुतां पतिः स्विदहिमांशुरुत पृथुशिखः शिखी तपः ।
तप्तुं असुकरं उपक्रमते न जनोऽयं इत्यवयये स तापसैः ॥१२.१५॥

न ददाह भूरुहवनानि हरितनयधाम दूरगं ।
न स्म नयति परिशोषं अपः सुसहं बभूव न च सिद्धतापसैः ॥१२.१६॥

विनयं गुणा इव विवेकं अपनयभिदं नया इव ।
न्यायं अवधय इवाशरणाः शरणं ययुः शिवं अथो महर्षयः ॥१२.१७॥

परिवीतं अंशुभिरुदस्त- दिनकरमयूखमण्डलैः ।
शम्भुं उपहतदृशः सहसा न च ते निचायितुं अभिप्रसेहिरे ॥१२.१८॥

अथ भूतभव्यभवदीशं अभिमुखयितुं कृतस्तवाः ।
तत्र महसि ददृशुः पुरुषं कमनीयविग्रहं अयुग्मलोचनं॥ १२.१९॥

ककुदे वृषस्य कृतबाहुं अकृशपरिणाहशालिनि ।
स्पर्शसुखं अनुभवन्तं उमा- कुचयुग्ममण्डल इवार्द्रचन्दने ॥१२.२०॥

स्थितं उन्नते तुहिनशैल- शिरसि भुवनातिवर्तिना ।
साद्रिजलधिजलवाहपथं सदिगश्नुवानं इव विश्वं ओजसा ॥१२.२१॥

अनुजानुमध्यमवसक्त- विततवपुषा महाहिना ।
लोकं अखिलं इव भूमिभृता रवितेजसां अवधिनाधिवेष्टितं॥ १२.२२॥
परिणाहिना तुहिनराशि- विशदं उपवीतसूत्रतां ।
नीतं उरगं अनुरञ्जयता शितिना गलेन विलसन्मरीचिना ॥१२.२३॥

प्लुतमालतीसितकपाल- कमुदं उपरुद्धमूर्धजं ।
शेषं इव सुरसरित्पयसां शिरसा विसारि शशिधाम बिभ्रतं॥ १२.२४॥

मुनयस्ततोऽभिमुखं एत्य नयनविनिमेषनोदिताः ।
पाण्डुतनयतपसा जनितं जगतां अशर्म भृशं आचचक्षिरे ॥१२.२५॥

तरसैव कोऽपि भुवनैक- पुरुष पुरुषस्तपस्यति ।
ज्योतिरमलवपुषोऽपि रवेरभिभूय वृत्र इव भीमविग्रहः ॥१२.२६॥

स धनुर्महेषुधि निभर्ति कवचं असितं उत्तमं जटाः ।
वल्कं अजिनं इति चित्रं इदं मुनिताविरोधि न च नास्य राजते ॥१२.२७॥

चलनेऽवनिश्चलति तस्य करणनियमे सदिङ्मुखं ।
स्तम्भं अनुभवति शान्तमरुद्- ग्रहतारकागणयुतं नभस्तलं॥ १२.२८॥

स तदोजसा विजितसारं अमरदितिजोपसंहितं ।
विश्वं इदं अपिदधाति पुरा किं इवास्ति यन्न तपसां अदुष्करं॥ १२.२९॥

विजिगीषते यदि जगन्ति युगपदथ संजिहीर्षति ।
प्राप्तुं अभवं अभिवाञ्छति वा वयं अस्य नो विषहितुं क्षमा रुचः ॥१२.३०॥

किं उपेक्षसे कथय नाथ न तव विदितं न किंचन ।
त्रातुं अलं अभयदार्हसि नस्त्वयि मा स्म शासति भवत्पराभवः ॥१२.३१॥

इति गां विधाय विरतेषु मुनिषु वचनं समाददे ।
भिन्नजलधिजलनादगुरु ध्वनयन्दिशां विवरं अन्धकान्तकः ॥१२.३२॥

बदरीतपोवननिवास- निरतं अवगात मान्यथा ।
धातुरुदयनिधने जगतां नरं अंशं आदिपुरुषस्य गां गतं॥ १२.३३॥

द्विषतः परासिसिषुरेष सकलभुवनाभितापिनः ।
क्रान्तकुलिशकरवीर्यबलान्मदुपासनं विहितवान्महत्तपः ॥१२.३४॥

अयं अच्युतश्च वचनेन सरसिरुहजन्मनः प्रजाः ।
पातुं असुरनिधनेन विभू भुवं अभ्युपेत्य मनुजेषु तिष्ठतः ॥१२.३५॥

सुरकृत्यं एतदवगम्य निपुणं इति मूकदानवः ।
हन्तुं अभिपतति पाण्डुसुतं त्वरया तदत्र सह गम्यतां मया ॥१२.३६॥

विवरेऽपि नैनं अनिगूढं अभिभवितुं एष पारयन् ।
पापनिरतिरविशङ्कितया विजयं व्यवस्यति वराहमायया ॥१२.३७॥

निहते विडम्बितकिरात- नृपतिवपुषा रिपौ मया ।
मुक्तनिशितविशिखः प्रसभं मृगयाविवादं अयं आचरिष्यति ॥१२.३८॥

तपसा निपीडितकृशस्य विरहितसहायसम्पदः ।
सत्त्वविहितं अतुलं भुजयोर्बलं अस्य पश्यत मृधेऽधिकुप्यतः ॥१२.३९॥

इति तानुदारं अनुनीय विषमहरिचन्दनालिना ।
घर्मजनितपुलकेन लसद्- गजमौक्तिकावलिगुणेन वक्षसा ॥१२.४०॥

वदनेन पुष्पितलतान्त- नियमितविलम्बितमौलिना ।
बिभ्रदरुणनयनेन रुचं शिखिपिच्छलाञ्छितकपोलभित्तिना ॥१२.४१॥

बृहदुद्वहञ्जलदनादि धनुरुपहितैकमार्गणं ।
मेघनिचय इव संववृते रुचिरः किरातपृतनापतिः शिवः ॥१२.४२॥

अनुकूलं अस्य च विचिन्त्य गणपतिभिरात्तविग्रहैः ।
शूलपरशुशरचापभृतैर्महती वनेचरचमूर्विनिर्ममे ॥१२.४३॥

विरचय्य काननविभागं अनुगिरं अथेश्वराज्ञया ।
भीमनिनदपिहितोरुभुवः परितोऽपदिश्य मृगयां प्रतस्थिरे ॥१२.४४॥

क्षुभिताभिनिःसृतविभिन्न- शकुनिमृगयूथनिःस्वनैः ।
पूर्णपृथुवनगुहाविवरः सहसा भयादिव ररास भूधरः ॥१२.४५॥

न विरोधिनी रुषं इयाय पथि मृगविहङ्गसंहतिः ।
घ्नन्ति सहजं अपि भूरिभियः समं आगताः सपदि वैरं आपदः ॥१२.४६॥

चमरीगणैर्गणबलस्य बलवति भयेऽप्युपस्थिते ।
वंशविततिषु विषक्तपृथु- प्रियबालवालधिभिराददे धृतिः ॥१२.४७॥

हरसैनिकाः प्रतिभयेऽपि गजमदसुगन्धिकेसरैः ।
स्वस्थं अभिददृशिरे सहसा प्रतिबोधजृम्भमुखैर्मृगाधिपैः ॥१२.४८॥

बिभरांबभूवुरपवृत्त- जठरशफरीकुलाकुलाः ।
पङ्कविषमिततटाः सरितः करिरुग्णचन्दनरसारुणं पयः ॥१२.४९॥

महिषक्षतागुरुतमाल- नलदसुरभिः सदागतिः ।
व्यस्तशुकनिभशिलाकुसुमः प्रणुदन्ववौ वनसदां परिश्रमं॥ १२.५०॥

मथिताम्भसो रयविकीर्ण- मृदितकदलीगवेधुकाः ।
क्लान्तजलरुहलताः सरसीर्विदधे निदाघ इव सत्त्वसम्प्लवः ॥१२.५१॥

इति चालयन्नचलसानु- वनगहनजानुमापतिः ।
प्राप मुदितहरिणीदशन- क्षतवीरुधं वसतिं ऐन्द्रसूनवीं॥ १२.५२॥

स तं आससाद घननीलं अभिमुखं उपस्थितं मुनेः ।
पित्रनिकषणविभिन्नभुवं दनुजं दधानं अथ सौकरं वपुः ॥१२.५३॥

कच्छान्ते सुरसरितो निधाय सेनां अन्वतिः सकतिपयैः किरातवर्यैः ।
प्रच्छन्नस्तरुगहनैः सगुल्मजालैर्लक्ष्मीवाननुपदं अस्य सम्प्रतस्थे ॥१२.५४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:23.6630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

bony tissue

  • अस्थिल ऊति 
RANDOM WORD

Did you know?

GAJA LAXMI VRAT MHANJE KAY AANI TE KASE KARAYACHE?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.