TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

किरातार्जुनीयम्‌ - प्रसंग १०

'किरातार्जुनीयम्' प्रसिद्ध प्राचीन संस्कृत ग्रंथांपैकी एक होय. या काव्याचे रचनाकार महाकवि भारवी होत. किरातरूपधारी शिव आणि  पांडु पुत्र अर्जुन यांच्यातील धनुर्युद्ध आणि वार्तालाप यावर आधारित हे काव्य आहे.


प्रसंग १०
अथ परिमलजां अवाप्य लक्ष्मीं अवयवदीपितमण्डनश्रियस्ताः ।
वसतिं अभिविहाय रम्यहावाः सुरपतिसूनुविलोभनाय जग्मुः ॥१०.१॥

द्रुतपदं अभियातुं इच्छतीनां गमनपरिक्रमलाघवेन तासां ।
अवनिषु चरणैः पृथुस्तनीनां अलघुनितम्बतया चिरं निषेदे ॥१०.२॥

निहितसरसयावकैर्बभासे चरणतलैः कृतपद्धतिर्वधूनां ।
अविरलविततेव शक्रगोपैररुणितनीलतृणोलपा धरित्री ॥१०.३॥

ध्वनिरगविवरेषु नूपुराणां पृथुरशनागुणशिञ्जितानुयातः ।
प्रतिरवविततो वनानि चक्रे मुखरसं उत्सुकहंससारसानि ॥१०.४॥
अवचयपरिभोगवन्ति हिंस्रैः सहचरितान्यमृगाणि काननानि ।
अभिदधुरभितो मुनिं वधूभ्यः समुदितसाध्वसविक्लवं च चेतः ॥१०.५॥

नृपतिमुनिपरिग्रहेण सा भूः सुरसचिवाप्सरसां जहार चेतः ।
उपहितपरमप्रभावधाम्नां न हि जयिनां तपसां अलङ्घ्यं अस्ति ॥१०.६॥

सचकितं इव विस्मयाकुलाभिः शुचिसिकतास्वतिमानुषाणि ताभिः ।
क्षितिषु ददृशिरे पदानि जिष्णोरुपहितकेतुरथाङ्गलाञ्छनानि ॥१०.७॥

अतिशयितवनान्तरद्युतीनां फलकुसुमावचयेऽपि तद्विधानां ।
ऋतुरिव तरुवीरुधां समृद्ध्या युवतिजनैर्जगृहे मुनिप्रभावः ॥१०.८॥

मृदितकिसलयः सुराङ्गनानां ससलिलवल्कलभारभुग्नशाखः ।
बहुमतिं अधिकां ययावशोकः परिजनतापि गुणाय सद्गुणानां॥ १०.९॥

यमनियमकृशीकृतस्थिराङ्गः परिददृशे विधृतायुधः स ताभिः ।
अनुपमशमदीप्ततागरीयान्कृतपदपङ्क्तिरथर्वणेव वेदः ॥१०.१०॥

शशधर इव लोचनाभिरामैर्गगनविसारिभिरंशुभिः परीतः ।
शिखरनिचयं एकसानुसद्मा सकलं इवापि दधन्महीधरस्य ॥१०.११॥

सुरसरिति परं तपोऽधिगच्छन्विधृतपिशङ्गबृहज्जटाकलापः ।
हविरिव विततः शिखासमूहैः समभिलषन्नुपवेदि जातवेदाः ॥१०.१२॥

सदृशं अतनुं आकृतेः प्रयत्नं तदनुगुणां अपरैः क्रियां अलङ्घ्यां ।
दधदलघु तपः क्रियानुरूपं विजयवतीं च तपःसमां समृद्धिं॥ १०.१३॥

चिरनियमकृशोऽपि शैलसारः शमनिरतोऽपि दुरासदः प्रकृत्या ।
ससचिव इव निर्जनेऽपि तिष्ठन्मुनिरपि तुल्यरुचिस्त्रिलोकभर्तुः ॥१०.१४॥

तनुं अवजितलोकसारधाम्नीं त्रिभुवनगुप्तिसहां विलोकयन्त्यः ।
अवययुरमरस्त्रियोऽस्य यत्नं विजयफले विफलं तपोधिकारे ॥१०.१५॥

मुनिदनुतनयान्विलोभ्य सद्यः प्रतनुबलान्यधितिष्ठतस्तपांसि ।
अलघुनि बहु मेनिरे च ताः स्वं कुलिशभृता विहितं पदे नियोगं॥ १०.१६॥

अथ कृतकविलोभनं विधित्सौ युवतिजने हरिसूनुदर्शनेन ।
प्रसभं अवततार चित्तजन्मा हरति मनो मधुरा हि यौवनश्रीः ॥१०.१७॥

सपदि हरिसखैर्वधूनिदेशाद्ध्वनितमनोरमवल्लकीमृदङ्गैः ।
युगपदृतुगणस्य संनिधानं वियति वने च यथायथं वितेने ॥१०.१८॥

सजलजलधरं नभो विरेजे विवृतिं इयाय रुचिस्तडिल्लतानां ।
व्यवहितरतिविग्रहैर्वितेने जलगुरुभिः स्तनितैर्दिगन्तरेषु ॥१०.१९॥

परिसुरपतिसूनुधाम सद्यः समुपदधन्मुकुलानि मालतीनां ।
विरलं अपजहार बद्धबिन्दुः सरजसतां अवनेरपां निपातः ॥१०.२०॥

प्रतिदिशं अभिगच्छताभिमृष्टः ककुभविकाससुगन्धिनानिलेन ।
नव इव विबभौ सचित्तजन्मा गतधृतिराकुलितश्च जीवलोकः ॥१०.२१॥

व्यथितं अपि भृशं मनो हरन्ती परिणतजम्बुफलोपभोगहृष्टा ।
परभृतयुवतिः स्वनं वितेने नवनवयोजितकण्ठरागरम्यं॥ १०.२२॥

अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे ।
जन इव न धृतेश्चचाल जिष्णुर्न हि महतां सुकरः समाधिभङ्गः ॥१०.२३॥

धृतबिसवलयावलिर्वहन्ती कुमुदवनैकदुकूलं आत्तबाणा ।
शरदमलतले सरोजपाणौ घनसमयेन वधूरिवाललम्बे ॥१०.२४॥

समदशिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या ।
श्रियं अतिशयिनीं समेत्य जग्मुर्गुणमहतां महते गुणाय योगः ॥१०.२५॥

सरजसं अपहाय केतकीनां प्रसवं उपान्तिकनीपरेणुकीर्णं ।
प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनीलबन्धनानि ॥१०.२६॥

मुकुलितं अतिशय्य बन्धुजीवं धृतजलबिन्दुषु शाद्वलस्थलीषु ।
अविरलवपुषः सुरेन्द्रगोपा विकचपलाशचयश्रियं समीयुः ॥१०.२७॥

अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः ।
गुणं असमयजं चिराय लेभे विरलतुषारकण्.अस्तुषारकालः ॥१०.२८॥

निचयिनि लवलीलताविकासे जनयति लोध्रसमीरणे च हर्षं ।
विकृतिं उपययौ न पाण्डुसूनुश्चलति नयान्न जिगीषतां हि चेतः ॥१०.२९॥

कतिपयसहकारपुष्परम्यस्तनुतुहिनोऽल्पविनिद्रसिन्दुवारः ।
सुरभिमुखहिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ॥१०.३०॥

कुसुमनगवनान्युपैतुकामा किसलयिनीं अवलम्ब्य चूतयष्टिं ।
क्वणदलिकुलनूपुरा निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः ॥१०.३१॥

विकसितकुसुमाधरं हसन्तीं कुरबकराजिवधूं विलोकयन्तं ।
ददृशुरिव सुराङ्गना निषण्णं सशरं अनङ्गं अशोकपल्लवेषु ॥१०.३२॥

मुहुरनुपतता विधूयमानं विरचितसंहति दक्षिणानिलेन ।
अलिकुलं अलकाकृतिं प्रपेदे नलिनमुखान्तविसर्पि पङ्कजिन्याः ॥१०.३३॥

श्वसनचलितपल्लवाधरोष्ठे नवनिहितेर्ष्यं इवावधूनयन्ती ।
मधुसुरभिणि षट्पदेन पुष्पे मुख इव शाललतावधूश्चुचुम्बे ॥१०.३४॥

प्रभवति न तदा परो विजेतुं भवति जितेन्द्रियता यदात्मरक्षा ।
अवजितभुवनस्तथा हि लेभे सिततुरगे विजयं न पुष्पमासः ॥१०.३५॥

कथं इव तव संमतिर्भवित्री समं ऋतुभिर्मुनिनावधीरितस्य ।
इति विरचितमल्लिकाविकासः स्मयत इव स्म मधुं निदाघकालः ॥१०.३६॥

बलवदपि बलं मिथोविरोधि प्रभवति नैव विपक्षनिर्जयाय ।
भुवनपरिभवी न यत्तदानीं तं ऋतुगणः क्षणं उन्मनीचकार ॥१०.३७॥

श्रुतिसुखं उपवीणितं सहायैरविरललाञ्छनहारिणश्च कालाः ।
अविहितहरिसूनुविक्रियाणि त्रिदशवधूषु मनोभवं वितेनुः ॥१०.३८॥

न दलति निचये तथोत्पलानां न च विषमच्छदगुच्छयूथिकासु ।
अभिरतुं उपलेभिरे यथासां हरितनयावयवेषु लोचनानि ॥१०.३९॥

मुनिं अभिमुखतां निनीषवो याः समुपययुः कमनीयतागुणेन ।
मदनं उपदधे स एव तासां दुरधिगमा हि गतिः प्रयोजनानां॥ १०.४०॥

प्रकृतं अनुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा ।
प्रथमं उपहितं विलासि चक्षुः सिततुरगे न चचाल नर्तकीनां॥ १०.४१॥

अभिनयमनसः सुराङ्गनाया निहितं अलक्तकवर्तनाभिताम्रं ।
चरणं अभिपपात षट्पदाली धुतनवलोहितपङ्कजाभिशङ्का ॥१०.४२॥

अविरलं अलसेषु नर्तकीनां द्रुतपरिषिक्तं अलक्तकं पदेषु ।
सवपुषां इव चित्तरागं ऊहुर्नमितशिखानि कदम्बकेसराणि ॥१०.४३॥

नृपसुतं अभितः समन्मथायाः परिजनगात्रतिरोहिताङ्गयष्टेः ।
स्फुटं अभिलषितं बभूव वध्वा वदति हि संवृतिरेव कामितानि ॥१०.४४॥

अभिमुनि सहसा हृते परस्या घनमरुता जघनांशुकैकदेशे ।
चकितं अवसनोरु सत्रपायाः प्रतियुवतीरपि विस्मयं निनाय ॥१०.४५॥

धृतबिसवलये निधाय पाणौ मुखं अधिरूषितपाण्डुगण्डलेखं ।
नृपसुतं अपरा स्मराभितापादमधुमदालसलोचनं निदध्यौ ॥१०.४६॥

सखि दयितं इहानयेति सा मां प्रहितवती कुसुमेषुणाभितप्ता ।
हृदयं अहृदया न नाम पूर्वं भवदुपकण्ठं उपागतं विवेद ॥१०.४७॥

चिरं अपि कलितान्यपारयन्त्या परिगदितुं परिशुष्यता मुखेन ।
गतघृण गमितानि सत्सखीनां नयनयुगैः समं आर्द्रतां मनांसि ॥१०.४८॥

अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्यां ।
भृशं अरतिं अवाप्य तत्र चास्यास्तव सुखशीतं उपैतुं अङ्कं इच्छा ॥१०.४९॥

तदनघ तनुरस्तु सा सकामा व्रजति पुरा हि परासुतां त्वदर्थे ।
पुनरपि सुलभं तपोऽनुरागी युवतिजनः खलु नाप्यतेऽनुरूपः ॥१०.५०॥

जहिहि कठिनतां प्रयच्छ वाचं ननु करुणामृदु मानसं मुनीनां ।
उपगतं अवधीरयन्त्यभव्याः स निपुणं एत्य कयाचिदेवं ऊचे ॥१०.५१॥

सललितचलितत्रिकाभिरामाः शिरसिजसंयमनाकुलैकपाणिः ।
सुरपतितनयेऽपरा निरासे मनसिजजैत्रशरं विलोचनार्धं॥ १०.५२॥

कुसुमितं अवलम्ब्य चूतं उच्चैस्तनुरिभकुम्भपृथुस्तनानताङ्गी ।
तदभिमुखं अनङ्गचापयष्टिर्विसृतगुणेव समुन्ननाम काचिथ् ॥१०.५३॥

सरभसं अवलम्ब्य नीलं अन्या विगलितनीवि विलोलं अन्तरीयं ।
अभिपतितुमनाः ससाध्वसेव च्युतरशनागुणसंदितावतस्थे ॥१०.५४॥

यदि मनसि शमः किं अङ्ग चापं शठ विषयास्तव वल्लभा न मुक्तिः ।
भवतु दिशति नान्यकामिनीभ्यस्तव हृदये हृदयेश्वरावकाशं॥ १०.५५॥

इति विषमितचक्षुषाभिधाय स्फुरदधरोष्ठं असूयया कयाचिथ् ।
अगणितगुरुमानलज्जयासौ स्वयं उरसि श्रवणोत्पलेन जघ्ने ॥१०.५६॥

सविनयं अपराभिसृत्य साचि स्मितसुभगैकलसत्कपोललक्ष्मीः ।
श्रवणनियमितेन तं निदध्य सकलं इवासकलेन लोचनेन ॥१०.५७॥

करुणं अभिहितं त्रपा निरस्ता तदभिमुखं च विमुक्तं अश्रु ताभिः ।
प्रकुपितं अभिसारणेऽनुनेतुं प्रियं इयती ह्यबलाजनस्य भूमिः ॥१०.५८॥

असकलनयनेक्षितानि लज्जा गतं अलसं परिपाण्डुता विषादः ।
इति विविधं इयाय तासु भूषां प्रभवति मण्डयितुं वधूरनङ्गः ॥१०.५९॥

अलसपदमनोरमं प्रकृत्या जितकलहंसवधूगति प्रयातं ।
स्थितं उरुजघनस्थलातिभारादुदितपरिश्रमजिह्मितेक्षणं वा ॥१०.६०॥

भृशकुसुमशरेषुपातमोहादनवसितार्थपदाकुलोऽभिलापः ।
अधिकविततलोचनं वधूनां अयुगपदुन्नमितभ्रु वीक्षितं च ॥१०.६१॥

रुचिकरं अपि नार्थवद्बभूव स्तिमितसमाधिशुचौ पृथातनूजे ।
ज्वलयति महतां मनांस्यमर्षे न हि लभतेऽवसरं सुखाभिलाषः ॥१०.६२॥

स्वयं संराध्यैवं शतमखं अखण्डेन तपसा परोच्छित्त्या लभ्यां अभिलषति लक्ष्मीं हरिसुते ।
मनोभिः सोद्वेगैः प्रणयविहतैध्वस्तरुचयः सगन्धर्मा धाम त्रिदशवनिताः स्वं प्रतिययुः ॥१०.६३॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:23.5370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

साफा

  • पु. रुमाल ; फेटा ; पटका ( डोक्यास बांधण्याचा ) [ हिं . ] 
RANDOM WORD

Did you know?

गणपतीची सोंड कोणत्या दिशेला वळली आहे, यावरून पूजाअर्चेचे कांही धर्मशास्त्र आहे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.