TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

किरातार्जुनीयम्‌ - प्रसंग १८

'किरातार्जुनीयम्' प्रसिद्ध प्राचीन संस्कृत ग्रंथांपैकी एक होय. या काव्याचे रचनाकार महाकवि भारवी होत. किरातरूपधारी शिव आणि  पांडु पुत्र अर्जुन यांच्यातील धनुर्युद्ध आणि वार्तालाप यावर आधारित हे काव्य आहे.


प्रसंग १८
तत उदग्र इव द्विरदे मुनौ रणं उपेयुषि भीमभुजायुधे ।
धनुरपास्य सबाणधि शंकरः प्रतिजघान घनैरिव मुष्टिभिः ॥१८.१॥

हरपृथासुतयोर्ध्वनिरुत्पतन्नमृदुसंवलिताङ्गुलिपाणिजः ।
स्फुटदनल्पशिलारवदारुणः प्रतिननाद दरीषु दरीभृतः ॥१८.२॥

शिवभुजाहतिभिन्नपृथुक्षतीः सुखं इवानुबभूव कपिध्वजः ।
क इव नाम बृहन्मनसां भवेदनुकृतेरपि सत्त्ववतां क्षमः ॥१८.३॥

व्रणमुखच्युतशोणितशीकर- स्थगितशैलतटाभभुजान्तरः ।
अभिनवौषसरागभृता बभौ जलधरेण समानं उमापतिः ॥१८.४॥

उरसि शूलभृतः प्रहिता मुहुः प्रतिहतिं ययुरर्जुनमुष्टयः ।
भृशरया इव सह्यमहीभृतः पृथुनि रोधसि सिन्धुमहोर्मयः ॥१८.५॥

निपतितेऽधिशिरोधरं आयते समं अरत्नियुगेऽयुगचक्षुषः ।
त्रिचतुरेषु पदेषु किरीटिना लुलितदृष्टि मदादिव चस्खले ॥१८.६॥

अभिभवोदितमन्युविदीपितः समभिसृत्य भृशं जवं ओजसा ।
भुजयुगेन विभज्य समाददे शशिकलाभरणस्य भुजद्वयं ॥ १८.७॥

प्रववृतेऽथ महाहवमल्लयोरचलसंचलनाहरणो रणः ।
करणशृङ्खलसंकलनागुरुर्गुरुभुजायुधगर्वितयोस्तयोः ॥१८.८॥

अयं असौ भगवानुत पाण्डवः स्थितं अवाङ्मुनिना शशिमौलिना ।
समधिरूढं अजेन नु जिष्णुना स्विदिति वेगवशान्मुमुहे गणैः ॥१८.९॥

प्रचलिते चलितं स्थितं आस्थिते विनमिते नतं उन्नतं उन्नतौ ।
वृषकपिध्वजयोरसहिष्णुना मुहुरभावभयादिव भूभृता ॥१८.१०॥

करणशृङ्खलनिःसृतयोस्तयोः कृतभुजध्वनि वल्गु विवल्गतोः ।
चरणपातनिपातितरोधरसः प्रससृपुः सरितः परितः स्थलीः ॥१८.११॥

वियति वेगपरिप्लुतं अन्तरा समभिसृत्य रयेण कपिध्वजः ।
चरणयोश्चरणानमितक्षितिर्निजगृहे तिसृणां जयिनं पुरां ॥ १८.१२॥

विस्मितः सपदि तेन कर्मणा कर्मणां क्षयकरः परः पुमान् ।
क्षेप्तुकामं अवनौ तं अक्लमं निष्पिपेष परिरभ्य वक्षसा ॥१८.१३॥

तपसा तथा न मुदं अस्य ययौ भगवान्यथा विपुलसत्त्वतया ।
गुणसंहतेः समतिरिक्तं अहो निजं एव सत्त्वं उपकारि सतां ॥ १८.१४॥

अथ हिमशुचिभस्मभूषितं शिरसि विराजितं इन्दुलेखया ।
स्ववपुरतिमनोहरं हरं दधतं उदीक्ष्य ननाम पाण्डवः ॥१८.१५॥

सहशरधि निजं तथा कार्मुकं वपुरतनु तथैव संवर्मितं ।
निहितं अपि तथैव पश्यन्नसिं वृषभगतिरुपाययौ विस्मयं॥ १८.१६॥

सिषिचुरवनिं अम्बुवाहाः शनैः सुरकुसुमं इयाय चित्रं दिवः ।
विमलरुचि भृशं नभो दुन्दुभेर्ध्वनिरखिलं अनाहतस्यानशे ॥१८.१७॥

आसेदुषां गोत्रभिदोऽनुवृत्त्या गोपायकानां भुवनत्रयस्य ।
रोचिष्णुरत्नावलिभिर्विमानैर्द्यौराचिता तारकितेव रेजे ॥१८.१८॥

हंसा बृहन्तः सुरसद्मवाहाः संह्रादिकण्ठाभरणाः पतन्तः ।
चक्रुः प्रयत्नेन विकीर्यमाणैर्व्य्ॐनः परिष्वङ्गं इवाग्रपक्षैः ॥१८.१९॥

मुदितमधुलिहो वितानीकृताः स्रज उपरि वितत्य सातानिकीः ।
जलद इव निषेदिवांसं वृषे मरुदुपसुखयांबभूवेश्वरं ॥ १८.२०॥

कृतधृति परिवन्दितेनोच्चकैर्गणपतिभिरभिन्नर्ॐओद्गमैः ।
तपसि कृतफले फलज्यायसी स्तुतिरिति जगदे हरेः सूनुना ॥१८.२१॥

शरणं भवन्तं अतिकारुणिकं भव भक्तिगम्यं अधिगम्य जनाः ।
जितमृत्यवोऽजित भवन्ति भये ससुरासुरस्य जगतः शरणं ॥ १८.२२॥
 
विपदेति तावदवसादकरी न च कामसम्पदभिकामयते ।
न नमन्ति चैकपुरुषं पुरुषास्तव यावदीश न नतिः क्रियते ॥१८.२३॥

संसेवन्ते दानशीला विमुक्त्य सम्पश्यन्तो जन्मदुःखं पुमांसः ।
यन्निःसङ्गस्त्वं फलस्यानतेभ्यस्तत्कारुण्यं केवलं न स्वकार्यं ॥ १८.२४॥

प्राप्यते यदिह दूरं अगत्वा यत्फलत्यपरलोकगताय ।
तीर्थं अस्ति न भवार्णवबाह्यं सार्वकामिकं ऋते भवतस्तथ् ॥१८.२५॥

व्रजति शुचि पदं त्वति प्रीतिमान्प्रतिहतं अतिरेति घोरां गतिं ।
इयं अनघ निमित्तशक्तिः परा तव वरद न चित्तभेदः क्वचिथ् ॥१८.२६॥

दक्षिणां प्रणतदक्षिण मूर्तिं तत्त्वतः शिवकरीं अविदित्वा ।
रागिणापि विहिता तव भक्त्या संस्मृतिर्भव भवत्यभवाय ॥१८.२७॥

दृष्ट्वा दृश्यान्याचरणीयानि विधाय प्रेक्षाकारी याति पदं मुक्तं अपायैः ।
सम्यग्दृष्टिस्तस्य परं पश्यति यस्त्वां यश्चोपास्ति साधु विधेयं स विधत्ते ॥१८.२८॥

युक्ताः स्वशक्त्या मुनयः प्रजानां हितोपदेशैरुपकारवन्तः ।
समुच्छिनत्सि त्वं अचिन्त्यधामा कर्माण्युपेतस्य दुरुत्तराणि ॥१८.२९॥

संनिबद्धं अपहर्तुं अहार्यं भूरि दुर्गतिभयं भुवनानां ।
अद्भुताकृतिं इमां अतिमायस्त्वं बिभर्षि करुणामय मायां॥ १८.३०॥

न रागि चेतः परमा विलासिता वधूः शरीरेऽस्ति न चास्ति मन्मथः ।
नमस्क्रिया चोषसि दातुरित्यहो निसर्गदुर्बोधं इदं तवेहितं ॥ १८.३१॥

तवोत्तरीयं करिचर्म साङ्गजं ज्वलन्मणिः सारशनं महानहिः ।
स्रगास्यपङ्क्तिः शवभस्म चन्दनं कला हिमांशोश्च समं चकासति ॥१८.३२॥

अविग्रहस्याप्यतुलेन हेतुना समेतभिन्नद्वयमूर्ति तिष्ठतः ।
तवैव नान्यस्य जगत्सु दृश्यते विरुद्धवेषाभरणस्य कान्तता ॥१८.३३॥

आत्मलाभपरिणामनिरोधैर्भूतसंघ इव न त्वं उपेतः ।
तेन सर्वभुवनातिग लोके नोपमानं असि नाप्युपेमयः ॥१८.३४॥

त्वं अन्तकः स्थावरजङ्गमानां त्वया जगत्प्राणिति देव विश्वं ।
त्वं योगिनां हेतुफले रुणत्सि त्वं कारणं कारणकारणानां ॥ १८.३५॥

रक्षोभिः सुरमनुजैर्दितेः सुतैर्वा यल्लोकेष्वविकलं आप्तं आधिपत्यं ।
पाविन्याः शरणगतार्तिहारिणे तन्माहात्म्यं भव भवते नमस्क्रियायाः ॥१८.३६॥

तरसा भुवनानि यो बिभर्ति ध्वनति ब्रह्म यतः परं पवित्रं ।
परितो दुरितानि यः पुनीते शिव तस्मै पवनातने नमस्ते ॥१८.३७॥

भवतः स्मरतां सदासने जयिनि ब्रह्ममये निषेदुषां ।
दहते भवबीजसंततिं शिखिनेऽनेकशिखाय ते नमः ॥१८.३८॥

आबाधामरणभयार्चिषा चिराय प्लुष्टेभ्यो भव महता भवानलेन ।
निर्वाणं समुपगमेन यच्छते ते बीजानां प्रभव नमोऽस्तु जीवनाय ॥१८.३९॥

यः सर्वेषां आवरीता वरीयान्सर्वैर्भावैर्नावृतोऽनादिनिष्ठः ।
मार्गातीतायेन्द्रियाणां नमस्तेऽविज्ञेयाय व्य्ॐअरूपाय तस्मै ॥१८.४०॥

अणीयसे विश्वविधारिणे नमो नमोऽन्तिकस्थाय नमो दवीयसे ।
अतीत्य वाचां मनसां च गोचरं स्थिताय ते तत्पतये नमो नमः ॥१८.४१॥

असंविदानस्य ममेश संविदां तितिक्षितुं दुश्चरितं त्वं अर्हसि ।
विरोध्य मोहात्पुनरभ्युपेयुषां गतिर्भवानेव दुरात्मनापि ॥१८.४२॥

आस्तिक्यशुद्धं अवतः प्रियधर्म धर्मं धर्मात्मजस्य विहितागसि शत्रुवर्गे ।
सम्प्राप्नुयां विजयं ईश यया समृद्ध्या तां भूतनाथ विभुतां वितराहवेषु ॥१८.४३॥

इति निगदितवन्तं सूनुं उच्चैर्मघोनः प्रणतशिरसं ईशः सादरं सान्त्वयित्वा ।
ज्वलदनलपरीतं रौद्रं अस्त्रं दधानं धनुरुपपदं अस्मै वेदं अभ्यादिदेश ॥१८.४४॥

स पिङ्गाक्षः श्रीमान्भुवनमहनीयेन महसा तनुं भीमां बिभ्रत्त्रिगुणपरिवारप्रहरणः ।
परीत्येशानं त्रिः स्तुतिभिरुपगीतः सुरगणैः सुतं पाण्डोर्वीरं जलदं इव भास्वानभिययौ ॥१८.४५॥

अथ शशधरमौलेरभ्यनुज्ञां अवाप्य त्रिदशपतिपुरोगाः पूर्णकामाय तस्मै ।
अवितथफलं आशिर्वादं आरोपयन्तो विजयि विविधं अस्त्रं लोकपाला वितेरुः ॥१८.४६॥

असंहार्योत्साहं जयिनं उदयं प्राप्य तरसा धुरं गुर्वीं वोढुं स्थितं अनवसादाय जगतः ।
स्वधाम्ना लोकानां तं उपरि कृतस्थानं अमरास्तपोलक्ष्म्या दीप्तं दिनकृतं इवोच्चैरुपजगुः ॥१८.४७॥

व्रज जय रिपुलोकं पादपद्मानतः सन्गदित इति शिवेन श्लाघितो देवसंघैः ।
निजगृहं अथ गत्वा सादरं पाण्डुपुत्रो धृतगुरुजयलक्ष्मीर्धर्मसूनुं ननाम ॥१८.४८॥

समाप्त ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:24.0070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

book maker

  • सा. बुकी 
  • सा. पणक 
  • पैज मारणारा धंदेवाईक इसम 
RANDOM WORD

Did you know?

विविध देवदेवतांचे आकार, रंग, रूप ही कल्पना कशी आणि कोणी निर्माण केली?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.