TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

किरातार्जुनीयम्‌ - प्रसंग ९

'किरातार्जुनीयम्' प्रसिद्ध प्राचीन संस्कृत ग्रंथांपैकी एक होय. या काव्याचे रचनाकार महाकवि भारवी होत. किरातरूपधारी शिव आणि  पांडु पुत्र अर्जुन यांच्यातील धनुर्युद्ध आणि वार्तालाप यावर आधारित हे काव्य आहे.


प्रसंग ९
वीक्ष्य रन्तुमनसः सुरनारीरात्तचित्रपरिधानविभूषाः ।
तत्प्रियार्थं इव यातुं अथास्तं भानुमानुपपयोधि ललम्बे ॥९.१॥

मध्यमोपलनिभे लसदंशावेकतश्च्युतिं उपेयुषि भानौ ।
द्यौरुवाह परिवृत्तिविलोलां हारयष्टिं इव वासरलक्ष्मीं॥ ९.२॥

अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा ।
क्षीबतां इव गतः क्षितिं एष्यंल्लोहितं वपुरुवाह पतङ्गः ॥९.३॥

गम्यतां उपगते नयनानां लोहितायाति सहस्रमरीचौ ।
आससाद विरहय्य धरित्रीं चक्रवाकहृदयान्यभितापः ॥९.४॥

मुक्तमूललघुरुज्झितपूर्वः पश्चिमे नभसि सम्भृतसान्द्रः ।
सामि मज्जति रवौ न विरेजे खिन्नजिह्म इव रश्मिसमूहः ॥९.५॥

कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डलं अभि त्वरयन्त्यः ।
सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः ॥९.६॥

अग्रसानुषु नितान्तपिशङ्गैर्भूरुहान्मृदुकरैरवलम्ब्य ।
अस्तशैलगहनं नु विवस्वानाविवेश जलधिं नु महीं नु ॥९.७॥

आकुलश्चलपतत्रिकुलानां आरवैरनुदितौषसरागः ।
आययावहरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः ॥९.८॥

आस्थितः स्थगितवारिदपङ्क्त्या संध्यया गगनपश्चिमभागः ।
सोर्मिविद्रुमविन्तानविभासा रञ्जितस्य जलधेः श्रियं ऊहे ॥९.९॥

प्राञ्जलावपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा ।
संध्ययानुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥९.१०॥

औषसातपभयादपलीनं वासरच्छविविरामपटीयः ।
संनिपत्य शनकैरिव निम्नादन्धकारं उदवाप समानि ॥९.११॥

एकतां इव गतस्य विवेकः कस्यचिन्न महतोऽप्युपलेभे ।
भास्वता निदधिरे भुवनानां आत्मनीव पतितेन विशेषाः ॥९.१२॥

इच्छतां सह वधूभिरभेदं यामिनीविरहिणां विहगानां ।
आपुरेव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः ॥९.१३॥

यच्छति प्रतिमुखं दयितायै वाचं अन्तिकगतेऽपि शकुन्तौ ।
नीयते स्म नतिं उज्झितहर्षं पङ्कजं मुखं इवाम्बुरुहिण्या ॥९.१४॥

रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु ।
पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥९.१५॥

रात्रिरागमलिनानि विकासं पङ्कजानि रहयन्ति विहाय ।
स्पष्टतारकं इयाय नभः श्रीर्वस्तुं इच्छति निरापदि सर्वः ॥९.१६॥

व्यानशे शशधरेण विमुक्तः केतकीकुसुमकेसरपाण्डुः ।
चूर्णमुष्टिरिव लम्भितकान्तिर्वासवस्य दिशं अंशुसमूहः ॥९.१७॥

उज्झती शुचं इवाशु तमिस्रां अन्तिकं व्रजति तारकराजे ।
दिक्प्रसादगुणमण्डनं ऊहे रश्मिहासविशदं मुखं ऐन्द्री ॥९.१८॥

नीलनीरजनिभे हिमगौरं शैलरुद्धवपुषः सितरश्मेः ।
खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गं इवाम्भः ॥९.१९॥

द्यां निरुन्धदतिनीलघनाभं ध्वान्तं उद्यतकरेण पुरस्ताथ् ।
क्षिप्यमाणं असितेतरभासा शम्भुनेव करिचर्म चकासे ॥९.२०॥

अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मतां जहति दीधितिजाले ।
निःसृतस्तिमिरभारनिरोधादुच्छ्वसन्निव रराज दिगन्तः ॥९.२१॥

लेखया विमलविद्रुमभासा संततं तिमिरं इन्दुरुदासे ।
दंष्ट्रया कनकटङ्कपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥९.२२॥

दीपयन्नथ नभः किरणौघैः कुङ्कुमारुणपयोधरगौरः ।
हेमकुम्भ इव पूर्वपयोधेरुन्ममज्ज शनकैस्तुहिनांशुः ॥९.२३॥

उद्गतेन्दुं अविभिन्नतमिस्रां पश्यति स्म रजनीं अवितृप्तः ।
व्यंशुकस्फुटमुखीं अतिजिह्मां व्रीडया नववधूं इव लोकः ॥९.२४॥

न प्रसादं उचितं गमिता द्यैर्नोद्धृतं तिमिरं अद्रिवनेभ्यः ।
दिङ्मुखेषु न च धाम विकीर्णं भूषितैव रजनी हिमभासा ॥९.२५॥

मानिनीजनविलोचनपातानुष्णबाष्पकलुषान्प्रतिगृह्णन् ।
मन्दमन्दं उदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥९.२६॥

श्लिष्यतः प्रियवधूरुपकण्ठं तारकास्ततकरस्य हिमांशोः ।
उद्वमन्नभिरराज समन्तादङ्गराग इव लोहितरागः ॥९.२७॥

प्रेरितः शशधरेण करौघः संहतान्यपि नुनोद तमांसि ।
क्षीरसिन्धुरिव मन्दरभिन्नः काननान्यविरलोच्चतरूणि ॥९.२८॥

शारतां गमितया शशिपादैश्छायया विटपिनां प्रतिपेदे ।
न्यस्तशुक्लबलिचित्रतलाभिस्तुल्यता वसतिवेश्ममहीभिः ॥९.२९॥

आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन ।
सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सर्वं असह्यं॥ ९.३०॥

गन्धं उद्धतरजःकणवाही विक्षिपन्विकसतां कुमुदानां ।
आदुधाव परिलीनविहङ्गा यामिनीमरुदपां वनराजीः ॥९.३१॥

संविधातुं अभिषेकं उदासे मन्मथस्य लसदंशुजलौघः ।
यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥९.३२॥

ओजसापि खलु नूनं अनूनं नासहायं उपयाति जयश्रीः ।
यद्विभुः शशिमयूखसखः सन्नाददे विजयि चापं अनङ्गः ॥९.३३॥

सद्मनां विरचनाहितशोभैरागतप्रियकथैरपि दूत्यं ।
संनिकृष्टरतिभिः सुरदारैर्भूषितैरपि विभूषणं ईषे ॥९.३४॥

न स्रजो रुरुचिरे रमणीभ्यश्चन्दनानि विरहे मदिरा वा ।
साधनेषु हि रतेरुपधत्ते रम्यतां प्रियसमागम एव ॥९.३५॥

प्रस्थिताभिरधिनाथनिवासं ध्वंसितप्रियसखीवचनाभिः ।
मानिनीभिरपहस्तितधैर्यः सादयन्निव मदोऽवललम्बे ॥९.३६॥

कान्तवेश्म बहु संदिशतीभिर्यातं एव रतये रमणीभिः ।
मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितं अप्युपकारि ॥९.३७॥

आशु कान्तं अभिसारितवत्या योषितः पुलकरुद्धकपोलं ।
निर्जिगाय मुखं इन्दुं अखण्डं खण्डपत्रतिलकाकृति कान्त्या ॥९.३८॥

उच्यतां स वचनीयं अशेषं नेश्वरे परुषता सखि साध्वी ।
आनयैनं अनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः ॥९.३९॥

किं गतेन न हि युक्तं उपैतुं कः प्रिये सुभगमानिनि मानः ।
योषितां इति कथासु समेतैः कामिभिर्बहुरसा धृतिरूहे ॥९.४०॥

योषितः पुलकरोधि दधत्या घर्मवारि नवसंगमजन्म ।
कान्तवक्षसि बभूव पतन्त्या मण्डनं लुलितमण्डनतैव ॥९.४१॥

शीधुपानविधुरासु निगृह्णन्मानं आशु शिथिलीकृतलज्जः ।
संगतासु दयितैरुपलेभे कामिनीषु मदनो नु मदो नु ॥९.४२॥

द्वारि चक्षुरधिपाणि कपोलौ कीवितं त्वयि कुतः कलहोऽस्याः ।
कामिनां इति वचः पुनरुक्तं प्रीतये नवनवत्वं इयाय ॥९.४३॥

साचि लोचनयुगं नमयन्ती रुन्धती दयितवक्षसि पातं ।
सुभ्रुवो जनयति स्म विभूषां संगतावुपरराम च लज्जा ॥९.४४॥

सव्यलीकं अवधीरितखिन्नं प्रस्थितं सपदि कोपपदेन ।
योषितः सुहृदिव स्म रुणद्धि प्राणनाथं अभिबाष्पनिपातः ॥९.४५॥

शङ्किताय कृतबाष्पनिपातां ईर्ष्यया विमुखितां दयिताय ।
मानिनिं अभिमुखाहितचित्तां शंसति स्म घनर्ॐअविभेदः ॥९.४६॥

लोलदृष्टि वदनं दयितायाश्चुम्बति प्रियतमे रभसेन ।
व्रीडया सह विनीवि नितम्बादंशुकं शिथिलतां उपपदे ॥९.४७॥

ह्रीतय अगलितनीवि निरस्यन्नन्तरीयं अवलम्बितकाञ्चि ।
मण्डलीकृतपृथुस्तनभारं सस्वजे दयितया हृदयेशः ॥९.४८॥

आदृता नखपदैः परिरम्भाश्चुम्बितानि घनदन्तनिपातैः ।
सौकुमार्यगुणसम्भृतकीर्तिर्वाम एव सुरतेष्वपि कामः ॥९.४९॥

पाणिपल्लवविधूननं अन्तः सीत्कृतानि नयनार्धनिमेषाः ।
योषितां रहसि गद्गदवाचां अस्त्रतां उपययुर्मदनस्य ॥९.५०॥

पातुं आहितरतीन्यभिलेषुस्तर्षयन्त्यपुनरुक्तरसानि ।
सस्मितानि वदनानि वधूनां सोत्पलानि च मधूनि युवानः ॥९.५१॥

कान्तसंगमपराजितमन्यौ वारुणीरसनशान्तविवादे ।
मानिनीजन उपाहितसंधौ संदधे धनुषि नेषुं अनङ्गः ॥९.५२॥

कुप्यताशु भवतानतचित्ताः कोपितांश्च वरिवस्यत यूनः ।
इत्यनेक उपदेश इव स्म स्वाद्यते युवतिभिर्मधुवारः ॥९.५३॥

भर्तृभिः प्रणयसम्भ्रमदत्तां वारुणीं अतिरसां रसयित्वा ।
ह्रीविमोहविरहादुपलेभे पाटवं नु हृदयं नु वधूभिः ॥९.५४॥

स्वादितः स्वयं अथैधितमानं लम्भितः प्रियतमैः सह पीतः ।
आसवः प्रतिपदं प्रमदानां नैकरूपरसतां इव भेजे ॥९.५५॥

भ्रूविलाससुभगाननुकर्तुं विभ्रमानिव वधूनयनानां ।
आददे मृदुविलोकपलाशैरुत्पलैश्चषकवीचिषु कम्पः ॥९.५६॥

ओष्ठपल्लवविदंशरुचीनां हृद्यतां उपययौ रमणानां ।
फुल्ललोचनविनीलसरोजैरङ्गनास्यचषकैर्मधुवारः ॥९.५७॥

प्राप्यते गुणवतापि गुणानां व्यक्तं आश्रयवशेन विशेषः ।
तत्तथा हि दयिताननदत्तं व्यानशे मधु रसातिशयेन ॥९.५८॥

वीक्ष्य रत्नचषकेष्वतिरिक्तां कान्तदन्तपदमण्डनलक्ष्मीं ।
जज्ञिरे बहुमताः प्रमदानां ओष्ठयावकनुदो मधुवाराः ॥९.५९॥

लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा ।
वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने ॥९.६०॥

तुल्यरूपं असितोत्पलं अक्ष्णोः कर्णगं निरुपकारि विदित्वा ।
योषितः सुहृदिव प्रविभेजे लम्भितेक्षणरुचिर्मदरागः ॥९.६१॥

क्षीणयावकरसोऽप्यतिपानैः कान्तदन्तपदसम्भृतशोभः ।
आययावतितरां इव वध्वाः सान्द्रतां अधरपल्लवरागः ॥९.६२॥

रागजान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु ।
सर्वगापि ददृशे वनितानां दर्पणेष्विव मुखेषु मदश्रीः ॥९.६३॥

बद्धकोपविकृतीरपि रामाश्चारुताभिमततां उपनिन्ये ।
वश्यतां मधुमदो दयितानां आत्मवर्गहितं इच्छति सर्वः ॥९.६४॥

वाससां शिथिलतां उपनाभि ह्रीनिरासं अपदे कुपितानि ।
योषितां विदधती गुणपक्षे निर्ममार्ज मदिरा वचनीयं॥ ९.६५॥

भर्तृषूपसखि निक्षिपतीनां आत्मनो मधुमदोद्यमितानां ।
व्रीडया विफलया वनितानां न स्थितं न विगतं हृदयेषु ॥९.६६॥

रुन्धती नयनवाक्यविकासं सादितो भयकरा परिरम्भे ।
व्रीडितस्य ललितं युवतीनां क्षीबता बहुगुणैरनुजह्रे ॥९.६७॥

योषिदुद्धतमनोभवरागा मानवत्यपि ययौ दयिताङ्कं ।
कारयत्यनिभृता गुणदोषे वारुणी खलु रहस्यविभेदं॥ ९.६८॥

आहिते नु मधुना मधुरत्वे चेष्टितस्य गमिते नु विकासं ।
आबभौ नव इवोद्धतरागः कामिनीष्ववसरः कुसुमेषोः ॥९.६९॥

मा गमन्मदविमूढधियो नः प्रोज्झ्य रन्तुं इति शङ्कितनाथाः ।
योषितो न मदिरां भृशं ईषुः प्रेम पश्यति भयान्यपदेऽपि ॥९.७०॥

चित्तनिर्वृतिविधायि विविक्तं मन्मथो मधुमदः शशिभासः ।
संगमश्च दयितैः स्म नयन्ति प्रेम कां अपि भुवं प्रमदानां॥ ९.७१॥

धार्ष्ट्यलङ्घितयथोचितभूमौ निर्दयं विलुलितालकमाल्ये ।
मानिनीरतिविधौ कुसुमेषुर्मत्तमत्त इव विभ्रमं आप ॥९.७२॥

शीधुपानविधुरेषु वधूनां विघ्नतां उपगतेषु वपुःषु ।
ईहितं रतिरसाहितभावं वीतलक्ष्यं अपि कामिषु रेजे ॥९.७३॥

अन्योन्यरक्तमनसां अथ बिभ्रतीनां चेतोभुवो हरिसखाप्सरसां निदेशं ।
वैबोधिकध्वनिविभावितपश्चिमार्धा सा संहृतेव परिवृत्तिं इयाय रात्रिः ॥९.७४॥

निद्राविनोदितनितान्तरतिक्लमानां आयामिमङ्गलनिनादविबोधितानां ।
रामासु भाविविरहाकुलितासु यूनां तत्पूर्वतां इव समादधिरे रतानि ॥९.७५॥

कान्ताजनं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयानिव मन्दमन्दं ।
हर्म्येषु माल्यमदिरापरिभोगगन्धानाविश्चकार रजनीपरिवृत्तिवायुः ॥९.७६॥

आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु ।
व्यामृष्टपत्त्रतिलकेषु विलासिनीनां शोभां बबन्ध वदनेषु मदावशेषः ॥९.७७॥

गतवति नखलेखालक्ष्यतां अङ्गरागे समददयितपीताताम्रबिम्बाधराणां ।
विरहविधुरं इष्टा सत्सखीवङ्गनानां हृदयं अवललम्बे रात्रिसम्भोगलक्ष्मीः ॥९.७८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:23.4900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

weighty

  • वजनदार 
  • वजनदार 
  • भारदस्त 
RANDOM WORD

Did you know?

कोणत्याही पूजेसाठी गणपती म्हणून चिकणी सुपारीला महत्व आहे, मग बाकीच्यांना कां नाही?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.