TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

किरातार्जुनीयम्‌ - प्रसंग ११

'किरातार्जुनीयम्' प्रसिद्ध प्राचीन संस्कृत ग्रंथांपैकी एक होय. या काव्याचे रचनाकार महाकवि भारवी होत. किरातरूपधारी शिव आणि  पांडु पुत्र अर्जुन यांच्यातील धनुर्युद्ध आणि वार्तालाप यावर आधारित हे काव्य आहे.


प्रसंग ११
अथामर्षान्निसर्गाच्च जितेन्द्रियतया तया ।
आगजामाश्रमं जिष्णोः प्रतीतः पाकशासनः ॥११.१॥

मुनिरूपोऽनुरूपेण सूनुना ददृशे पुरः ।
द्राघीयसा वयोतीतः परिक्लान्तः किलाध्वना ॥११.२॥

जटानां कीर्णया केशैः संहत्या परितः सितैः ।
पृक्तयेन्दुकरैरह्नः पर्यन्त इव संध्यया ॥११.३॥

विशदभ्रूयुगच्छन्न- वलितापाङ्गलोचनः ।
प्रालेयावततिम्लान- पलाशाब्ज इव ह्रदः ॥११.४॥

आसक्तभरनीकाशैरङ्गैः परिकृशैरपि ।
अद्यूनः सद्गृहिण्येव प्रायो यष्ट्यावलम्बितः ॥११.५॥

गूढोऽपि वपुषा राजन्धाम्ना लोकाभिभाविना ।
अंशुमानिव तन्वभ्र- पटलच्छन्नविग्रहः ॥११.६॥

जरतीं अपि बिभ्राणस्तनुं अप्राकृताकृतिः ।
चकाराक्रान्तलक्ष्मीकः ससाध्वसं इवाश्रयं॥ ११.७॥

अभितस्तं पृथासूनुः स्नेहेन परितस्तरे ।
अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते मनः ॥११.८॥

आतिथेयीं अथासाद्य सुतादपचितिं हरिः ।
विश्रम्य विष्टरे नाम व्याजहारेति भारतीं॥ ११.९॥

त्वया साधु समारम्भि नवे वयसि यत्तपः ।
ह्रियते विषयैः प्रायो वर्षीयानपि मादृशः ॥११.१०॥

श्रेयसीं तव सम्प्राप्ता गुणसम्पदं आकृतिः ।
सुलभा रम्यता लोके दुर्लभं हि गुणार्जनं॥ ११.११॥

शरदम्बुधरच्छाया गत्वर्यो यौवनश्रियः ।
आपातरम्या विषयाः पर्यन्तपरितापिनः ॥११.१२॥

अन्तकः पर्यवस्थाता जन्मिनः संततापदः ।
इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते मनः ॥११.१३॥

चित्तवानसि कल्याणी यत्त्वां मतिरुपस्थिता ।
विरुद्धः केवलं वेषः संदेहयति मे मनः ॥११.१४॥

युयुत्सुनेव कवचं किं आमुक्तं इदं त्वया ।
तपस्विनो हि वसते केवलाजिनवल्कले ॥११.१५॥

प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे ।
महेषुधी धनुर्भीमं भूतानां अनभिद्रुहः ॥११.१६॥

भयंकरः प्राणभृतां मृत्योर्भुज इवापरः ।
असिस्तव तपस्थस्य न समर्थयते शमं॥ ११.१७॥

जयं अत्रभवान्नूनं अरातिष्वभिलाषुकः ।
क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ॥११.१८॥

यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः ।
ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः ॥११.१९॥

मूलं दोषस्य हिंसादेरर्थकामौ स्म मा पुषः ।
तौ हि तत्त्वावबोधस्य दुरुच्छेदावुपप्लवौ ॥११.२०॥

अभिद्रोहेण भूतानां अर्जयन्गत्वरीः श्रियः ।
उदन्वानिव सिन्धूनां आपदां एति पात्रतां॥ ११.२१॥

या गम्याः सत्सहायानां यासु खेदो भयं यतः ।
तासां किं यन्न दुःखाय विपदां इव सम्पदां॥ ११.२२॥
दुरासदानरीनुग्रान्धृतेर्विश्वासजन्मनः ।
भोगान्भोगानिवाहेयानध्यास्यापन्न दुर्लभा ॥११.२३॥

नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते ।
आसक्तास्तास्वमी मूढा वामशीला हि जन्तवः ॥११.२४॥

कोऽपवादः स्तुतिपदे यदशीलेषु चञ्चलाः ।
साधुवृत्तानपि क्षुद्रा विक्षिपन्त्येव सम्पदः ॥११.२५॥

कृतवानन्यदेहेषु कर्ता च विधुरं मनः ।
अप्रियैरिव संयोगो विप्रयोगः प्रियैः सह ॥११.२६॥

शून्यं आकीर्णतां एति तुल्यं व्यसनं उत्सवैः ।
विप्रलम्भोऽपि लाभाय सति प्रियसमागमे ॥११.२७॥

तदा रम्याण्यरम्याणि प्रियाः शल्यं तदासवः ।
तदैकाकी सबन्धुः सन्निष्टेन रहितो यदा ॥११.२८॥

युक्तः प्रमाद्यसि हितादपेतः परितप्यसे ।
यदि नेष्टात्मनः पीडा मा सञ्जि भवता जने ॥११.२९॥

जन्मिनोऽस्य स्थितिं विद्वांल्लक्ष्मीं इव चलाचलां ।
भवान्मा स्म वधीन्न्याय्यं न्यायाधारा हि साधवः ॥११.३०॥

विजहीहि रणोत्साहं मा तपः साधि नीनशः ।
उच्छेदं जन्मनः कर्तुं एधि शान्तस्तपोधन ॥११.३१॥

जीयन्तां दुर्जया देहे रिपवश्चक्षुरादयः ।
जितेषु ननु लोकोऽयं तेषु कृत्स्नस्त्वया जितः ॥११.३२॥

परवानर्थसंसिद्धौ नीचवृत्तिरपत्रपः ।
अविधेयेन्द्रियः पुंसां गौरिवैतेइ विधेयतां॥ ११.३३॥

श्वस्त्वया सुखसंवित्तिः स्मरणीयाधुनातनी ।
इति स्वप्नोपमान्मत्वा कामान्मा गास्तदङ्गतां॥ ११.३४॥

श्रद्धेया विप्रलब्धारः प्रिया विप्रियकारिणः ।
सुदुस्त्यजास्त्यजन्तोऽपि कामाः कष्टा हि शत्रवः ॥११.३५॥

विविक्तेऽस्मिन्नगे भूयः प्लाविते जह्नुकन्यया ।
प्रत्यासीदति मुक्तिस्त्वां पुरा मा भूरुदायुधः ॥११.३६॥

व्याहृत्य मरुतां पत्याविति वाचं अवस्थिते ।
वचः प्रश्रयगम्भीरं अथोवाच कपिध्वजः ॥११.३७॥

प्रसादरम्यं ओजस्वि गरीयो लाघवान्वितं ।
साकाङ्क्षं अनुपस्कारं विष्वग्गति निराकुलं॥ ११.३८॥

न्यायनिर्णीतसारत्वान्निरपेक्षं इवागमे ।
अप्रकम्प्यतयान्येषां आम्नायवचनोपमं॥ ११.३९॥

अलङ्घ्यत्वाज्जनैरन्यैः क्षुभितोदन्वदूर्जितं ।
औदार्यादर्थसम्पत्तेः शान्तं चित्तं ऋषेरिव ॥११.४०॥

इदं ईदृग्गुणोपेतं लब्धावसरसाधनं ।
व्याकुर्यात्कः प्रियं वाक्यं यो वक्ता नेदृगाशयः ॥११.४१॥

न ज्ञातं तात यत्नस्य पौर्वापर्यं अमुष्य ते ।
शासितुं येन मां धर्मं मुनिभिस्तुल्यं इच्छसि ॥११.४२॥

अविज्ञातप्रबन्धस्य वचो वाचस्पतेरिव ।
व्रजत्यफलतां एव नयद्रुह इवेहितं॥ ११.४३॥

श्रेयसोऽप्यस्य ते तात वचसो नास्मि भाजनं ।
नभसः स्फुटतारस्य रात्रेरिव विपर्ययः ॥११.४४॥

क्षत्रियस्तनयः पाण्डोरहं पार्थो धनंजयः ।
स्थितः प्रास्तस्य दायादैर्भ्रातुर्ज्येष्ठस्य शासने ॥११.४५॥

कृष्णद्वैपायनादेशाद्बिभर्मि व्रतं ईदृशं ।
भृशं आराधने यत्तः स्वाराध्यस्य मरुत्वतः ॥११.४६॥

दुरक्षान्दीव्यता राज्ञा राज्यं आत्मा वयं वधूः ।
नीतानि पणतां नूनं ईदृशी भवितव्यता ॥११.४७॥

तेनानुजसहायेन द्रौपद्या च मया विना ।
भृशं आयामियामासु यामिनीष्वभितप्यते ॥११.४८॥

हृतोत्तरीयां प्रसभं सभायां आगतह्रियः ।
मर्मच्छिदा नो वचसा निरतक्षन्नरातयः ॥११.४९॥

उपाधत्त सपत्नेषु कृष्णाया गुरुसंनिधौ ।
भावं आनयने सत्याः सत्यंकारं इवान्तकः ॥११.५०॥

तां ऐक्षन्त क्षणं सभ्या दुःशासनपुरःसरां ।
अभिसायार्कं आवृत्तां छायां इव महातरोः ॥११.५१॥

अयथार्थक्रियारम्भैः पतिभिः किं तवेक्षितैः ।
अरुध्येतां इतीवास्या नयने बाष्पवारिणे ॥११.५२॥

सोढवान्नो दशां अन्त्यां ज्यायानेव गुणप्रियः ।
सुलभो हि द्विषां भङ्गो दुर्लभा सत्स्ववाच्यता ॥११.५३॥

स्थित्यतिक्रान्तिभीरूणि स्वच्छान्याकुलितान्यपि ।
तोयानि तोयराशीनां मनांसि च मनस्विनां॥ ११.५४॥

धार्तराष्ट्रैः सह प्रीतिर्वैरं अस्मास्वसूयत ।
असन्मैत्री हि दोषाय कूलच्छायेव सेविता ॥११.५५॥

अपवादादभीतस्य समस्य गुणदोषयोः ।
असद्वृत्तेरहोवृत्तं दुर्विभावं विधेरिव ॥११.५६॥

ध्वंसेत हृदयं सद्यः परिभूतस्य मे परैः ।
यद्यमर्षः प्रतीकारं भुजालम्बं न लम्भयेथ् ॥११.५७॥

अवधूयारिभिर्नीता हरिणैस्तुल्यवृत्तितां ।
अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनां॥ ११.५८॥

शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः ।
जन्मिनो मानहिनस्य तृणस्य च समा गतिः ॥११.५९॥

अलङ्घ्यं तत्तदुद्वीक्ष्य यद्यदुच्चैर्महीभृतां ।
प्रियतां ज्यायसीं मा गान्महतां केन तुङ्गता ॥११.६०॥

तावदाश्रीयते लक्ष्म्या तावदस्य स्थिरं यशः ।
पुरुषस्तावदेवासौ यावन्मानान्न हीयते ॥११.६१॥

स पुमानर्थवज्जन्मा यस्य नाम्नि पुरःस्थिते ।
नान्यां अङ्गुलिं अभ्येति संख्यायां उद्यताङ्गुलिः ॥११.६२॥

दुरासदवनज्यायान्गम्यस्तुङ्गोऽपि भूधरः ।
न जहाति महौजस्कं मानप्रांशुं अलङ्घ्यता ॥११.६३॥

गुरून्कुर्वन्ति ते वंश्यानन्वर्था तैर्वसुंधरा ।
येषां यशांसि शुभ्राणि ह्रेपयन्तीन्दुमण्डलं॥ ११.६४॥

उदाहरणं आशीःषु प्रथमे ते मनस्विनां ।
शुष्केऽशनिरिवामर्षो यैररातिषु पात्यते ॥११.६५॥

न सुखं प्रार्थये नार्थं उदन्वद्वीचिचञ्चलं ।
नानित्यताशनेस्त्रस्यन्विविक्तं ब्रह्मणः पदं॥ ११.६६॥

प्रमार्ष्टुं अयशःपङ्कं इच्छेयं छद्मना कृतं ।
वैधव्यतापिताराति- वनितालोचनाम्बुभिः ॥११.६७॥

अपहस्येऽथवा सद्भिः प्रमादो वास्तु मे धियः ।
अस्थानविहितायासः कामं जिह्रेतु वा भवान्॥ ११.६८॥

वंशलक्ष्मीं अनुद्धृत्य समुच्छेदेन विद्विषां ।
निर्वाणं अपि मन्येऽहं अन्तरायं जयश्रियः ॥११.६९॥

अजन्मा पुरुषस्तावद्गतासुस्तृणं एव वा ।
यावन्नेषुभिरादत्ते विलुप्तं अरिभिर्यशः ॥११.७०॥

अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति ।
पुरुषोक्तिः कथं तस्मिन्ब्रूहि त्वं हि तपोधन ॥११.७१॥

कृतं पुरुषशब्देन जातिमात्रावलम्बिना ।
योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयं उदाहृतः ॥११.७२॥

ग्रसमानं इवौजांसि सदसा गौरवेरितं ।
नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्पुमान्॥ ११.७३॥

यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया ।
ममैवाध्येति नृपतिस्तृष्यन्निव जलाञ्जलेः ॥११.७४॥

स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनं ।
कृच्छ्रेषु व्यर्थया यत्र भूयते भर्तुराज्ञया ॥११.७५॥

कथं वादीयतां अर्वाङ्मुनिता धर्मरोधिनी ।
आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः ॥११.७६॥

आसक्ता धूरियं रूढा जननी दूरगा च मे ।
तिरस्करोति स्वातन्त्र्यं ज्यायांश्चाचारवान्नृपः ॥११.७७॥

स्वधर्मं अनुरुन्धन्ते नातिक्रमं अरातिभिः ।
पलायन्ते कृतध्वंसा नाहवान्मानशालिनः ॥११.७८॥

विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि ।
आराध्य वा सहस्राक्षं अयशःशल्यं उद्धरे ॥११.७९॥

इत्युक्तवन्तं परिरभ्य दोर्भ्यां तनूजं आविष्कृतदिव्यमूर्तिः ।
अघोपघातं मघवा विभूत्यै भवोद्भवाराधनं आदिदेश ॥११.८०॥

प्रीते पिनाकिनि मया सह लोकपालैर्लोकत्रयेऽपि विहिताप्रतिवार्यवीर्यः ।
लक्ष्मीं समुत्सुकयितासि भृशं परेषां उच्चार्य वाचं इति तेन तिरोबभूवे ॥११.८१॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:23.6000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

elective auditor

  • निर्वाचित लेखापरीक्षक 
RANDOM WORD

Did you know?

तीन रस्ते एकत्र येऊन मिळतात, त्या ठिकाणास काय म्हणतात
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.