TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

किरातार्जुनीयम्‌ - प्रसंग १७

'किरातार्जुनीयम्' प्रसिद्ध प्राचीन संस्कृत ग्रंथांपैकी एक होय. या काव्याचे रचनाकार महाकवि भारवी होत. किरातरूपधारी शिव आणि  पांडु पुत्र अर्जुन यांच्यातील धनुर्युद्ध आणि वार्तालाप यावर आधारित हे काव्य आहे.


प्रसंग १७
अथापदां उद्धरणक्षमेषु मित्रेष्विवास्त्रेषु तिरोहितेषु ।
धृतिं गुरुश्रीर्गुरुणाभिपुष्यन्स्वपौरुषेणेव शरासनेन ॥१७.१॥

भूरिप्रभावेण रणाभियोगात्प्रीतो विजिह्मश्च तदीयवृद्ध्या ।
स्पष्टोऽप्यविस्पष्टवपुःप्रकाशः सर्पन्महाधूम इवाद्रिवह्निः ॥१७.२॥

तेजः समाश्रित्य परैरहार्यं निजं महन्मित्रं इवोरुधैर्यं ।
आसादयन्नस्खलितस्वभावं भीमे भुजालम्बं इवारिदुर्गे ॥१७.३॥

वंशोचितत्वादभिमानवत्या सम्प्राप्तया सम्प्रियतां असुभ्यः ।
समक्षं आदित्सितया परेण वध्वेव कीर्त्या परितप्यमानः ॥१७.४॥

पतिं नगानां इव बद्धमूलं उन्मूलयिष्यंस्तरसा विपक्षं ।
लघुप्रयत्नं निगृहीतवीर्यस्त्रिमार्गगावेग इवेश्वरेण ॥१७.५॥

संस्कारवत्त्वाद्रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु ।
जयं यथार्थेषु शरेषु पार्थः शब्देषु भावार्थं इवाशशंसे ॥१७.६॥

भूयः समाधानविवृद्धतेजा नैवं पुरा युद्धं इति व्यथावान् ।
स निर्ववामास्रं अमर्षनुन्नं विषं महानाग इवेक्षणाभ्यां॥ १७.७॥

तस्याहवायासविलोलमौलेः संरम्भताम्रायतलोचनस्य ।
निर्वापयिष्यन्निव रोषतप्तं प्रस्नापयामास मुखं निदाघः ॥१७.८॥

क्रोधान्धकारान्तरितो रणाय भ्रूभेदरेखाः स बभार तिस्रः ।
घनोपरुद्धः प्रभवाय वृष्टेरूर्ध्वांशुराजीरिव तिग्मरश्मिः ॥१७.९॥

स प्रध्वनय्याम्बुदनादि चापं हस्तेन दिङ्नाग इवाद्रिशृङ्गं ।
बलानि शम्भोरिषुभिस्तताप चेतांसि चिन्ताभिरिवाशरीरः ॥१७.१०॥

सद्वादितेवाभिनिविष्टबुद्धौ गुणाभ्यसूयेव विपक्षपाते ।
अगोचरे वागिव चोपरेमे शक्तिः शराणां शितिकण्ठकाये ॥१७.११॥

उमापतिं पाण्डुसुतप्रणुन्नाः शिलीमुखा न व्यथयांबभूवुः ।
अभ्युत्थितस्याद्रिपतेर्नितम्बं अर्कस्य पादा इव हैमनस्य ॥१७.१२॥

सम्प्रीयमाणोऽनुबभूव तीव्रं पराक्रमं तस्य पतिर्गणानां ।
विषाणभेदं हिमवानसह्यं वप्रानतस्येव सुरद्विपस्य ॥१७.१३॥

तस्मै हि भारोद्धरणे समर्थं प्रदास्यता बाहुं इव प्रतापं ।
चिरं विषेहेऽभिभवस्तदानीं स कारणानां अपि कारणेन ॥१७.१४॥

प्रत्याहतौजाः कृतसत्त्ववेगः पराक्रमं ज्यायसि यस्तनोति ।
तेजांसि भानोरिव निष्पतन्ति यशांसि वीर्यज्वलितानि तस्य ॥१७.१५॥

दृष्टावदानाद्व्यथतेऽरिलोकः प्रध्वंसं एति व्यथिताच्च तेजः ।
तेजोविहीनं विजहाति दर्पः शान्तार्चिषं दीपं इव प्रकाशः ॥१७.१६॥

ततः प्रयात्यस्तमदावलेपः स जय्यतायाः पदवीं जिगीषोः ।
गन्धेन जेतुः प्रमुखागतस्य प्रतिद्विपस्येव मतङ्गजौघः ॥१७.१७॥

एवं प्रतिद्वन्द्विषु तस्य कीर्तिं मौलीन्दुलेखाविशदां विधास्यन् ।
इयेष पर्यायजयावसादां रणक्रियां शम्भुरनुक्रमेण ॥१७.१८॥

मुनेर्विचित्रैरिषुभिः स भूयान्निन्ये वशं भूतपतेर्बलौघः ।
सहात्मलाभेन समुत्पतद्भिर्जातिस्वभावैरिव जीवलोकः ॥१७.१९॥

वितन्वतस्तस्य शरान्धकारं त्रस्तानि सैन्यानि रवं निशेमुः ।
प्रवर्षतः संततवेपथूनि क्षपाघनस्येव गवां कुलानि ॥१७.२०॥

स सायकान्साध्वसविप्लुतानां क्षिपन्परेषां अतिसौष्ठवेन ।
शशीव दोषावृतलोचनानां विभिद्यमानः पृथगाबभासे ॥१७.२१॥

क्षोभेण तेनाथ गणाधिपानां भेदं ययवाकृतिरीश्वरस्य ।
तरङ्गकम्पेन महाह्रदानां छायामयस्येव दिनस्य कर्तुः ॥१७.२२॥

प्रसेदिवांसं न तं आप कोपः कुतः परस्मिन्पुरुषे विकारः ।
आकारवैषम्यं इदं च भेजे दुर्लक्ष्यचिह्ना महतां हि वृत्तिः ॥१७.२३॥

विस्फार्यमाणस्य ततो भुजाभ्यां भूतानि भर्त्रा धनुरन्तकस्य ।
भिन्नाकृतिं ज्यां ददृशुः स्फुरन्तीं क्रुद्धस्य जिह्वां इव तक्षकस्य ॥१७.२४॥

स्व्यापसव्यध्वनितोग्रचापं पार्थः किराताधिपं आशशङ्के ।
पर्यायसम्पादितकर्णतालं यन्ता गजं व्यालं इवापराद्धः ॥१७.२५॥

निजघ्निरे तस्य हरेषुजालैः पतन्ति वृन्दानि शिलीमुखानां ।
ऊर्जस्विभिः सिन्धुमुखागतानि यादांसि यादोभिरिवाम्बुराशेः ॥१७.२६॥

विभेदं अन्तः पदवीनिरोधं विध्वंसनं चाविदितप्रयोगः ।
नेतारिलोकेषु करोति यद्यत्तत्तच्चकारास्य शरेषु शम्भुः ॥१७.२७॥

सोढावगीतप्रथमायुधस्य क्रोधोज्झितैर्वेगितया पतद्भिः ।
छिन्नैरपि त्रासितवाहिनीकैः पेते कृतार्थैरिव तस्य बाणैः ॥१७.२८॥

अलंकृतानां ऋजुतागुणेन गुरूपदिष्टां गतिं आस्थितानां ।
सतां इवापर्वणि मार्गणानां भङ्गः स जिष्णोर्धृतिं उन्ममाथ ॥१७.२९॥

बाणच्छिदस्ते विशिखाः स्मरारेरवाङ्मुखीभूतफलाः पतन्तः ।
अखण्डितं पाण्डवसायकेभ्यः कृतस्य सद्यः प्रतिकारं आपुः ॥१७.३०॥

चित्रीयमाणानतिलाघवेन प्रमाथिनस्तान्भवमार्गणानां ।
समाकुलाया निचखान दूरं बाणान्ध्वजिन्या हृदयेष्वरातिः ॥१७.३१॥

तस्यातियत्नादतिरिच्यमाने पराक्रमेऽन्योन्यविशेषणेन ।
हन्ता पुरां भूरि पृषत्कवर्षं निरास नैदाघ इवाम्बु मेघः ॥१७.३२॥

अनामृशन्तः क्वचिदेव मर्म प्रियैषिणानुप्रहिताः शिवेन ।
सुहृत्प्रयुक्ता इव नर्मवादाः शरा मुनेः प्रीतिकरा बभूवुः ॥१७.३३॥

अस्त्रैः समानां अतिरेकिणीं वा पश्यनीषूणां अपि तस्य शक्तिं ।
विषादवक्तव्यबलः प्रमाथी स्वं आललम्बे बलं इन्दुमौलिः ॥१७.३४॥

तपस्तपोवीर्यसमुद्धतस्य पारं यियासोः समरार्णवस्य ।
महेषुजालान्यखिलानि जिष्णोरर्कः पयांसीव समाचचाम ॥१७.३५॥

रिक्ते सविस्रम्भं अथ्+अर्जुनस्य निषङ्गवक्त्रे निपतात पाणिः ।
अन्यद्विपापीतजले सतर्षं मतङ्गजस्येव नगाश्मरन्ध्रे ॥१७.३६॥

च्युते स तस्मिन्निषुधौ शरार्थाद्ध्वस्तार्थसारे सहसेव बन्धौ ।
तत्कालमोघप्रणयः प्रपेदे निर्वाच्यताकाम इवाभिमुख्यं॥ १७.३७॥

आघट्टयामास गतागताभ्यां सावेगं अग्राङ्गुलिरस्य तूणौ ।
विधेयमार्गे मतिरुत्सुकस्य नयप्रयोगाविव गां जिगीषोः ॥१७.३८॥

बभार शून्याकृतिरर्जुनस्तौ महेषुधी वीतमहेषुजालौ ।
युगान्तसंशुष्कजलौ विजिह्मः पूर्वापरौ लोक इवाम्बुराशी ॥१७.३९॥
तेनातिमित्तेन तथा न पार्थस्तयोर्यथा रिक्ततयानुतेपे ।
स्वां आपदं प्रोज्झ्य विपत्तिमग्नं शोचन्ति सन्तो ह्युपकारिपक्षं॥ १७.४०॥

प्रतिक्रियायै विधुरः स तस्मात्कृच्छ्रेण विश्लेषं इयाय हस्तः ।
पराङ्मुखत्वेऽपि कृतोपकारात्तूणीमुखान्मित्रकुलादिवार्यः ॥१७.४१॥

पश्चात्क्रिया तूणयुगस्य भर्तुर्जज्ञे तदानीं उपकारिणीव ।
सम्भावनायां अधरीकृतायां पत्युः पुरः साहसं आसितव्यं॥ १७.४२॥

तं शम्भुराक्षिप्तमहेषुजालं लोहैः शरैर्मर्मसु निस्तुतोद ।
हृत्तोत्तरं तत्त्वविचारमध्ये वक्तेव दोषैर्गुरुभिर्विपक्षं॥ १७.४३॥

जहार चास्मादचिरेण वर्म ज्वलन्मणिद्योतितहैमलेखं ।
चण्डः पतङ्गान्मरुदेकनीलं तडित्वतः खण्डं इवाम्बुदस्य ॥१७.४४॥

विकोशनिर्धौततनोर्महासेः फणावतश्च त्वचि विच्युतायां ।
प्रतिद्विपाबद्धरुषः समक्षं नागस्य चाक्षिप्तमुखच्छदस्य ॥१७.४५॥

विबोधितस्य ध्वनिना घनानां हरेरपेतस्य च शैलरन्ध्राथ् ।
निरस्तधूमस्य च रात्रिवह्नेर्विना तनुत्रेण रुचिं स भेजे ॥१७.४६॥

अचित्ततायां अपि नाम युक्तां अनूर्ध्वतां प्राप्य तदीयकृच्छ्रे ।
महीं गतौ ताविषुधी तदानीं विवव्रतुश्चेतनयेव योगं॥ १७.४७॥

स्थितं विशुद्धे नभसीव सत्त्वे धाम्ना तपोवीर्यमयेन युक्तं ।
शस्त्राभिघातैस्तं अजस्रं ईशस्त्वष्टा विवस्वन्तं इवोल्लिलेख ॥१७.४८॥

संरम्भवेगोज्झितवेदनेषु गात्रेषु बाहिर्यं उपागतेषु ।
मुनेर्बभूवागणितेषुराशेर्लौहस्तिरस्कार इवात्ममन्युः ॥१७.४९॥

ततोऽनुपूर्वायतवृत्तबाहुः श्रीमान्क्षरल्लोहितदिग्धदेहः ।
आस्कन्द्य वेगेन विमुक्तनादः क्षितिं विधुन्वन्निव पार्ष्णिघातैः ॥१७.५०॥

साम्यं गतेनाशनिना मघोनः शशाङ्कखण्डाकृतिपाण्डुरेण ।
शम्भुं बिभित्सुर्धनुषा जघान स्तम्बं विषाणेन महानिवेभः ॥१७.५१॥

रयेण सा संनिदधे पतन्ती भवोद्भवेनात्मनि चापयष्टिः ।
समुद्धता सिन्धुरनेकमार्गा परे स्थितेनौजसि जह्नुनेव ॥१७.५२॥

विकार्मुकः कर्मसु शोचनीयः परिच्युतौदार्य इवोपचारः ।
विचिक्षिपे शूलभृता सलीलं स पत्रिभिर्दूरं अदूरपातैः ॥१७.५३॥

उपोढकल्याणफलोऽभिरक्षन्वीरव्रतं पुण्यरणाश्रमस्थः ।
जपोपवासैरिव संयतात्मा तेपे मुनिस्तैरिषुभिः शिवस्य ॥१७.५४॥

ततोऽग्रभूमिं व्यवसायसिद्धेः सीमानं अन्यैरतिदुस्तरं सः ।
तेजःश्रियां आश्रयं उत्तमासिं साक्षादहंकारं इवाललम्बे ॥१७.५५॥

शरानवद्यन्ननवद्यकर्मा चचार चित्रं प्रविचारमार्गैः ।
हस्तेन निस्त्रिंशभृता स दीप्तः सार्कांशुना वारिधिरूर्मिणेव ॥१७.५६॥

यथा निजे वर्त्मनि भाति भाभिश्च्यायामयश्चाप्सु सहस्ररश्मिः ।
तथा नभस्याशु रणस्थलीषु स्पष्टद्विमूर्तिर्ददृशे स भूतैः ॥१७.५७॥

शिवप्रणुन्नेन शिलीमुखेन त्सरुप्रदेशादपवर्जिताङ्गः ।
ज्वलन्नसिस्तस्य पपात पाणेर्घनस्य वप्रादिव वैद्युतोऽग्निः ॥१७.५८॥

आक्षिप्तचापावरणेषुजालश्छिन्नोत्तमासिः स मृधेऽवधूतः ।
रिक्तः प्रकाशश्च बभूव भूमेरुत्सादितोद्यान इव प्रदेशः ॥१७.५९॥

स खण्डनं प्राप्य परादमर्षवान्भुजद्वितीयोऽपि विजेतुं इच्छया ।
ससर्ज वृष्टिं परिरुग्णपादपां द्रवेतरेषां पयसां इवाश्मनां॥ १७.६०॥

नीरन्ध्रं परिगमिते क्षयं पृषत्कैर्भूतानां अधिपतिना शिलाविताने ।
उच्छ्रायस्थगितनभोदिगन्तरालं चिक्षेप क्षितिरुहजालं इन्द्रसूनुः ॥१७.६१॥

निःशेषं शकलितवल्कलाङ्गसारैः कुर्वद्भिर्भुवं अभितः कषायचित्रां ।
ईशानः सकुसुमपल्लवैर्नगैस्तैरातेने बलिं इव रङ्गदेवताभ्यः ॥१७.६२॥

उन्मज्जन्मकर इवामारापगाया वेगेन प्रतिमुखं एत्य बाणनद्याः ।
गाण्डीवी कनकशिलानिभं भुजाभ्यां आजघ्ने विषं अविलोचनस्य वक्षः ॥१७.६३॥

अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्योरसुगमं अरिसैन्यैरङ्कं अभ्यागतस्य ।
जनक इव शिशुत्वे सुप्रियस्यैकसूनोरविनयं अपि सेहे पाण्डवस्य स्मरारिः ॥१७.६४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:23.9430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

traversing caisson

  • रेखांकन कुसूल 
RANDOM WORD

Did you know?

मृत व्यक्तिचे वेगवेगळ्या धर्मात वेगवेगळ्या दिवशी संस्कार कसे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site