TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

किरातार्जुनीयम्‌ - प्रसंग १६

'किरातार्जुनीयम्' प्रसिद्ध प्राचीन संस्कृत ग्रंथांपैकी एक होय. या काव्याचे रचनाकार महाकवि भारवी होत. किरातरूपधारी शिव आणि  पांडु पुत्र अर्जुन यांच्यातील धनुर्युद्ध आणि वार्तालाप यावर आधारित हे काव्य आहे.


प्रसंग १६
ततः किराताधिपतेरलघ्वीं आजिक्रियां वीक्ष्य विवृद्धमन्युः ।
स तर्कयामास विविक्ततर्कश्चिरं विचिन्वन्निति कारणानि ॥१६.१॥

मदस्रुतिश्यामितगण्डलेखाः क्रामन्ति विक्रान्तनराधिरूढाः ।
सहिष्णवो नेह युधां अभिज्ञा नागा नगोच्छ्रायं इवाक्षिपन्तः ॥१६.२॥

विचित्रया चित्रयतेव भिन्नां रुचं रवेः केतनरत्नभासा ।
महारथौघेन न संनिरुद्धाः पयोदमन्द्रध्वनिना धरित्री ॥१६.३॥

समुल्लसत्प्रासमहोर्मिमालं परिस्फुरच्चामरफेनपङ्क्ति ।
विभिन्नमर्यादं इहातनोति नाश्वीयं आशा जलधेरिवाम्भः ॥१६.४॥

हताहतेत्युद्धतभीष्मघोषैः समुज्झिता योद्धृभिरभ्यमित्रं ।
न हेतयः प्राप्ततडित्त्विषः खे विवस्वदंशुज्वलिताः पतन्ति ॥१६.५॥

अभ्यायतः संततधूमधूम्रं व्यापि प्रभाजालं इवान्तकस्य ।
रजः प्रतूर्णाश्वरथाङ्गनुन्नं तनोति न व्य्ॐअनि मातरिश्वा ॥१६.६॥

भूरेणुना रासभधूसरेण तिरोहिते वर्त्मनि लोचनानां ।
नास्त्यत्र तेजस्विभिरुत्सुकानां अह्नि प्रदोषः सुरसुन्दरीणां॥ १६.७॥

रथाङ्गसंक्रीडितं अश्वहेषा बृहन्ति मत्तद्विपबृंहितानि ।
संघर्षयोगादिव मूर्छितानि ह्रादं निगृह्णन्ति न दुन्दुभीनां॥ १६.८॥

अस्मिन्यशःपौरुषलोलुपानां अरातिभिः प्रत्युरसं क्षतानां ।
मूर्छान्तरायं मुहुरुच्छिनत्ति नासारशीतं करिशीकराम्भः ॥१६.९॥

असृङ्नदीनां उपचीयमानैर्विदारयद्भिः पदवीं ध्वजिन्याः ।
उच्छ्रायं आयान्ति न शोणितौघैः पङ्कैरिवाश्यानघनैस्तटानि ॥१६.१०॥

परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशीता नभसः पतन्ती ।
नेह प्रमोहं प्रियसाहसानां मन्दारमाला विरलीकरोति ॥१६.११॥

निषादिसंनाहमणिप्रभौघे परीयमाणे करिशीकरेण ।
अर्कत्विषोन्मीलितं अभ्युदेति न खण्डं आखण्डलकार्मुकस्य ॥१६.१२॥

महीभृता पक्षवतेव भिन्ना विगाह्य मध्यं परवारणेन ।
नावर्तमाना निनदन्ति भीमं अपां निधेराप इव ध्वजिन्यः ॥१६.१३॥

महारथानां प्रतिदन्त्यनीकं अधिस्यदस्यन्दनं उत्थितानां ।
आमूललूनैरतिमन्युनेव मातङ्गहस्तैर्व्रियते न पन्थाः ॥१६.१४॥

धृतोत्पलापीड इव प्रियायाः शिरोरुहाणां शिथिलः कलापः ।
न बर्हभारः पतितस्य शङ्कोर्निषादिवक्षःस्थलं आतनोति ॥१६.१५॥

उज्झत्सु संहार इवास्तसंख्यं अह्नाय तेजस्विषु जीवितानि ।
लोकत्रयास्वादनलोलजिह्वं न व्याददात्याननं अत्र मृत्युः ॥१६.१६॥

इयं च दुर्वारमहारथानां आक्षिप्य वीर्यं महतां बलानां ।
शक्तिर्ममावस्यति हीनयुद्धे सौरीव ताराधिपधाम्नि दीप्तिः ॥१६.१७॥

माया स्विदेषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यं उताहं अन्यः ।
गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते ॥१६.१८॥

पुंसः पदं मध्यमं उत्तमस्य द्विधेव कुर्वन्धनुषः प्रणादैः ।
नूनं तथा नैषा यथास्य वेषः प्रच्छन्नं अप्यूहयते हि चेष्टा ॥१६.१९॥

धनुः प्रबन्धध्वनितं रुषेव सकृद्विकृष्टा विततेव मौर्वी ।
संधानं उत्कर्षं इव व्युदस्य मुष्टेरसम्भेद इवापवर्गे ॥१६.२०॥

अंसाववष्टब्धनतौ समाधिः शिरोधराया रहितप्रयासः ।
धृता विकारांस्त्यजता मुखेन प्रसादलक्ष्मीः शशलाञ्छनस्य ॥१६.२१॥

प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्धतया न देहः ।
स्थितप्रयातेषु ससौष्ठवश्च लक्ष्येषु पातः सदृशः शराणां॥ १६.२२॥
परस्य भूयान्विवरेऽभियोगः प्रसह्य संरक्षणं आत्मरन्ध्रे ।
भीष्मेऽप्यसम्भाव्यं इदं गुरौ वा न सम्भवत्येव वनेचरेषु ॥१६.२३॥

अप्राकृतस्याहवदुर्मदस्य निवार्यं अस्यास्त्रबलेन वीर्यं ।
अल्पीयसोऽप्यामयतुल्यवृत्तेर्महापकाराय रिपोर्विवृद्धिः ॥१६.२४॥

स सम्प्रधार्यैवं अहार्यसारः सारं विनेष्यन्सगणस्य शत्रोः ।
प्रस्वापनास्त्रं द्रुतं आजहार ध्वान्तं घनानद्ध इवार्धरात्रः ॥१६.२५॥

प्रसक्तदावानलधूमधूम्रा निरुन्धती धाम सहस्ररश्मेः ।
महावनानीव महातमिस्रा छाया ततानेशबलानि काली ॥१६.२६॥

आसादिता तत्प्रथमं प्रसह्य प्रगल्भतायाः पदवीं हरन्ती ।
सभेव भीमा विदधे गणानां निद्रा निरासं प्रतिभागुणस्य ॥१६.२७॥

गुरुस्थिराण्युत्तमवंशजत्वाद्विज्ञातसाराण्यनुशीलनेन ।
केचित्समाश्रित्य गुणान्वितानि सुहृत्कुलानीव धनूंषि तस्थुः ॥१६.२८॥

कृतान्तदुर्वृत्त इवापरेषां पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे ।
अतर्कितं पाणितलान्निपेतुः क्रियाफलानीव तदायुधानि ॥१६.२९॥

अंसस्थलैः केचिदभिन्नधैर्याः स्कन्धेषु संश्लेषवतां तरूणां ।
मदेन मीलन्नयनाः सलीलं नागा इव स्रस्तकरा निषेदुः ॥१६.३०॥

तिरोहितेन्दोरथ शम्भुमूर्ध्नः प्रणम्यमानं तपसां निवासैः ।
सुमेरुशृङ्गादिव बिम्बं आर्कं पिशङ्गं उच्चैरुदियाय तेजः ॥१६.३१॥

छायां विनिर्धूय तम्ॐअयीं तां तत्त्वस्य संवित्तिरिवापविद्यां ।
ययौ विकासं द्युतिरिन्दुमौलेरालोकं अभ्यादिशती गणेभ्यः ॥१६.३२॥

त्विषां ततिः पाटलिताम्बुवाहा सा सर्वतः पूर्वसरीव संध्या ।
निनाय तेषां द्रुतं उल्लसन्ती विनिद्रतां लोचनपङ्कजानि ॥१६.३३॥

पृथग्विधान्यस्त्रविरामबुद्धाः शस्त्राणि भूयः प्रतिपेदिरे ते ।
मुक्ता वितानेन बलाहकानां ज्योतींषि रम्या इव दिग्विभागाः ॥१६.३४॥

द्यौरुन्ननामेव दिशः प्रसेदुः स्फुटं विसस्रे सवितुर्मयूखैः ।
क्षयं गतायां इव यामवत्यां पुनः समीयाय दिनं दिनश्रीः ॥१६.३५॥

महास्त्रदुर्गे शिथिलप्रयत्नं दिग्वारणेनेव परेण रुग्णे ।
भुजङ्गपाशान्भुजवीर्यशाली प्रबन्धनाय प्रजिघाय जिष्णुः ॥१६.३६॥

जिह्वाशतान्युल्लसयन्त्यजस्रं लसत्तडिल्लोलविषानलानि ।
त्रासान्निरस्तां भुजगेन्द्रसेना नभश्चरैस्तत्पदवीं विवव्रे ॥१६.३७॥

दिङ्नागहस्ताकृतिं उद्वहद्भिर्भोगैः प्रशस्तासितरत्ननीलैः ।
रराज सर्पावलिरुल्लसन्ती तरङ्गमालेव नभोर्णवस्य ॥१६.३८॥

निःश्वासधूमैः स्थगितांशुजालं फणावतां उत्फणमण्डलानां ।
गच्छन्निवास्तं वपुरभ्युवाह विलोचनानां सुखं उष्णरश्मिः ॥१६.३९॥

प्रतप्तचामीकरभासुरेण दिशः प्रकाशेन पिशङ्गयन्त्यः ।
निश्चक्रमुः प्राणहरेक्षणानां ज्वाला महोल्का इव लोचनेभ्यः ॥१६.४०॥

आक्षिप्तसम्पातं अपेतशोभं उद्वह्नि धूमाक्कुलदिग्विभागं ।
वृतं नभो भोगिकुलैरवस्थां परोपरुद्धस्य पुरस्य भेजे ॥१६.४१॥

तं आशु चक्षुःश्रवसां समूहं मन्त्रेण तार्क्ष्योदयकारणेन ।
नेता नयेनेव परोपजापं निवारयामास पतिः पशूनां॥ १६.४२॥

प्रतिघ्नतीभिः कृतमीलितानि द्युलोकभाजां अपि लोचनानि ।
गरुत्मता संहतिभिर्विहायः क्षणप्रकाशाभिरिवावतेने ॥१६.४३॥

ततः सुपर्णव्रजपक्षजन्मा नानागतिर्मण्डलयञ्जवेन ।
जरत्तृणानीव वियन्निनाय वनस्पतीनां गहनानि वायुः ॥१६.४४॥

मनःशिलाभङ्गनिभेन पश्चान्निरुध्यमानं निकरेण भासां ।
व्यूढैरुरोभिश्च विनुद्यमानं नभः ससर्पेव पुरः खगानां॥ १६.४५॥

दरीमुखैरासवरागताम्रं विकासि रुक्मच्छदधाम पीत्वा ।
जवानिलाघूर्णितसानुजालो हिमाचलः क्षीब इवाचकम्पे ॥१६.४६॥

प्रवृत्तनक्तंदिवसंधिदीप्तैर्नभस्तलं गां च पिशङ्गयष्टिः ।
अन्तर्हितार्कैः परितः पतद्भिश्छायाः समाचिक्षिपिरे वनानां॥ १६.४७॥

स भोगसंघः शमं उग्रधाम्नां सैन्येन निन्ये विनतासुतानां ।
महाध्वरे विध्यपचारदोषः कर्मान्तरेणेव महोदयेन ॥१६.४८॥

साफल्यं अस्त्रे रिपुपौरुषस्य कृत्वा गते भाग्य इअवापवर्गं ।
अनिन्धनस्य प्रसभं समन्युः समाददेऽस्त्रं ज्वलनस्य जिष्णुः ॥१६.४९॥

ऊर्ध्वं तिरश्चीनं अधश्च कीर्णैर्ज्वालासटैर्लङ्घितमेघपङ्क्तिः ।
आयस्तसिंहाकृतिरुत्पपात प्राण्यन्तं इच्छन्निव जातवेदाः ॥१६.५०॥

भित्त्वेव भाभिः सवितुर्मयूखाञ्जज्वाल विष्वग्विसृतस्फुलिङ्गः ।
विदीर्यमाणाश्मनिनादधीरं ध्वनिं वितन्वन्नकृशः कृशानुः ॥१६.५१॥

चयानिवाद्रीनिव तुङ्गशृङ्गान्क्वचित्पुराणीव हिरण्मयानि ।
महावनानीव च किंशुकानां अत्तान वह्निः पवनानुवृत्त्या ॥१६.५२॥

मुहुश्चलत्पल्लवलोहिनीभिरुच्चैः शिखाभिः शिखिनोऽवलीढाः ।
तलेषु मुक्ताविशदा बभूवुः सान्द्राञ्ज्जनश्यामरुचः पयोदाः ॥१६.५३॥

लिलिक्षतीव क्षयकालरौद्रे लोकं विलोलार्चिषि रोहिताश्वे ।
पिनाकिना हूतमहाम्बुवाहं अस्त्रं पुनः पाशभृतः प्रणिन्ये ॥१६.५४॥

ततो धरित्रीधरतुल्यरोधसस्तडिल्लतालिङ्गितनीलमूर्तयः ।
अध्ॐउखाकाशसरिन्निपातिनीरपः प्रसक्तं मुमुचुः पय्ॐउचः ॥१६.५५॥

पराहतध्वस्तशिखे शिखावतो वपुष्यधिक्षिप्तसमिद्धतेजसि ।
कृतास्पदास्तप्त इवायसि ध्वनिं पयोनिपाताः प्रथमे वितेनिरे ॥१६.५६॥

महानले भिन्नसिताभ्रपातिभिः समेत्य सद्यः कथनेन फेनतां ।
व्रजद्भिरार्द्रेन्धनवत्परिक्षयं जलैर्वितेने दिवि धूमसंततिः ॥१६.५७॥

स्वकेतुभिः पाण्डुरनीलपाटलैः समागताः शक्रधनुःप्रभाभिदः ।
असंस्थितां आदधिरे विभावसोर्विचित्रचीनांशुकचारुतां त्विषः ॥१६.५८॥

जलौघसंमूर्छनमूर्छितस्वनः प्रसक्तविद्युल्लसितैधितद्युतिः ।
प्रशान्तिं एष्यन्धृतधूममण्डलो बभूव भूयानिव तत्र पावकः ॥१६.५९॥

प्रवृद्धसिन्धूर्मिचयस्थवीयसां चयैर्विभिन्नाः पयसां प्रपेदिरे ।
उपात्तसंध्यारुचिभिः सरूपतां पयोदविच्छेदलवैः कृशानवः ॥१६.६०॥

उपैत्यनन्तद्युतिरप्यसंशयं विभिन्नमूलोऽनुदयाय संक्षयं ।
तथा हि तोयौघविभिन्नसंहतिः स हव्यवाहः प्रययौ पराभवं॥ १६.६१॥

अथ विहितविधेयैराशु मुक्ता वितानैरसितनगनितम्बश्यामभासां घनानां ।
विकसदमलधाम्नां प्राप नीलोत्पलानां श्रियं अधिकविशुद्धां वह्निदाहादिव द्यौः ॥१६.६२॥

इति विविधं उदासे सव्यसाची यदस्त्रं बहुसमरनयज्ञः सादयिष्यन्नरातिं ।
विधिरिव विपरीतः पौरुषं न्यायवृत्तेः सपदि तदुपनिन्ये रिक्ततां नीलकण्ठः ॥१६.६३॥

वीतप्रभावतनुरप्यतनुप्रभावः प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीं ।
अस्त्रेषु भूतपतिनापहृतेषु जिष्णुर्वर्षिष्यता दिनकृतेव जलेषु लोकः ॥१६.६४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:23.8970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

थलथलीत

  • a  That shakes tremulously (through flabbiness &c.); slimy, squashy, washy. 
  • वि. थलथल हालणारे ( स्थूलपणामुळे इ० ); गलगलीत ; बरबरीत ; लिबलिबित . [ थलथल ] 
RANDOM WORD

Did you know?

vastudoshavar udakshant ha paryay ahe ka ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.