TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसमञ्जरी - अध्याय ६


शालिनाथ कृत ‘रसमञ्जरी ’ ग्रंथात रसविद्या संबंधित वेगवेगळ्या क्रिया सविस्तर वर्णिल्या आहेत .

अध्याय ६

क्षीराब्धेरुत्थितं देवं पीतवस्त्रं चतुर्भुजम् ।
वन्दे धन्वन्तरिं नित्यं नानागदनिषूदनम् ॥१॥

यथा गुरुमुखं श्रुत्वा सानुभूतं च तद्रसम् ।
स रसः प्रोच्यते ह्यत्र व्याधिनाशनहेतवे ॥२॥

मुक्त्वैकं रसवैद्यं च लाभपूजायशस्विनम् ।
तृणकाष्ठौषधैर् वैद्यः को लभेत वराटिकाम् ॥३॥

यस्य रोगस्य यो योगो मुनिभिः परिकीर्तितः ।
तत्तद्योगसमायुक्तं भिषक् सूतं प्रयोजयेत् ॥४॥

मात्राधिकं न सेवेत रसं वा विषम् औषधम् ।
त्र्याधिबद्धं च कोष्ठं च वीक्ष्य मात्रां प्रयोजयेत् ॥५॥


रत्नगर्भपटोली

रसं वज्रं हेम तारं नागं लोहं च ताम्रकम् ।
तुल्यांशमारिते योज्यं मुक्तामाक्षिकविद्रुमम् ॥६॥

शंखं च तुल्यतुल्यांशं सप्ताहं चित्रकद्रवैः ।
मर्दयित्वा विचूर्ण्याथ तेनापूर्य वराटिकाम् ॥७॥

टङ्कणं रविदुग्धेन पिष्ट्वा मूषां च बन्धयेत् ।
मृद्भाण्डे च निरुध्याथ सम्यग्गजपुटे पचेत् ॥८॥

स्वाङ्गशीतं समुद्धृत्य सूक्ष्मचूर्णानि कारयेत् ।
आदाय चूर्णयेत्सर्वं निर्गुण्ड्याः सप्तभावनाः ॥९॥

आर्द्रकस्य रसैः सप्त चित्रकस्यैकविंशतिः ।
द्रवैर्भाव्यं ततः शोष्यं देयं गुञ्जाचतुष्टयम् ॥१०॥

क्षयरोगं निहन्त्याशु साध्यासाध्यं न संशयः ।
योजयेत् पिप्पलीक्षौद्रैः सघृतैर्मरिचेन च ॥११॥

महारोगाष्टके कासे ज्वरे श्वासेऽतिसारके ।
पोटलीरत्नगर्भोऽयं योगवाहेषु योजयेत् ॥१२॥


मृगाङ्करसः

स्याद्रसेन समं हेम मौक्तिकं द्विगुणं भवेत् ।
गन्धकं च समं तेन रसपादस्तु टंकणम् ॥१३॥

सर्वं तद्गोलकं कृत्वा काञ्जिकेनावशोषयेत् ।
भाण्डे लवणपूर्णे च पचेद्यामचतुष्टयम् ॥१४॥

मृगाङ्कसंज्ञको ज्ञेयो राजयोगनिकृन्तनः ।
गुञ्जाचतुष्टयं चास्य मरिचैर्भक्षयेद्भिषक् ॥१५॥

पिप्पलीदशकैर्वापि मधुना लेहयेद् बुधः ।
पथ्यं सुलघुमांसेन प्रायेणास्य प्रयोजयेत् ॥१६॥

दध्याज्यगव्यं तक्रं वा क्षीरं वाजं प्रयोजयेत् ।
व्यञ्जनैर् मृतपक्वैश्च नातिक्षारैर् अहिङ्गुकैः ॥१७॥

एलाजम्बीरमरिचैः संस्कृतैरविदाहिभिः ।
वृन्ताकतैलबिल्वानि कारवेल्लं च वर्जयेत् ॥१८॥

स्त्रियं परिहरेद् दूरात् कोपं चापि परित्यजेत् ।
वल्ली तुम्बरिकानाम तन्मूलं क्वाथयेत्पलम् ॥१९॥

कटुकत्रयसंयुक्तं पाययेत्कासशान्तये ।
त्रिशूली या समाख्याता तन्मूलं क्वाथयेद् वलम् ॥२०॥

ईषद्धिङ्गुसमायुक्तं काकिणी चित्रकं वचा ।
भक्षयेत्पथ्यभोज्यं च सर्वरोगप्रशान्तये ॥२१॥

मर्कटीपत्रचूर्णस्य गुटिकां मधुना कृताम् ।
धारयेत् सततं वक्त्रे कासविष्टम्भनाशिनीम् ॥२२॥

छागमांसं पयश्छागं छागं सर्पिः सनागरम् ।
छागोपसेवासहनं छागमध्ये तु यक्ष्मनुत् ॥२३॥

मलायत्तं बलं पुंसां शुक्रायत्तं च जीवितम् ।
अतो विशेषतो रक्षेद्यक्ष्मिणो मलरेतसी ॥२४॥


लोकनाथरसः

पलं कपर्दचूर्णस्य पलं पारदगन्धयोः ।
माषोऽपि टंकणस्यैको जम्बीरेण विमर्दयेत् ॥२५॥

पुटेल्लोकेश्वरो नाम लोकनाथोऽयमुत्तमः ।
जयेत्कुष्ठं रक्तपित्तमन्यरोगं क्षयं नयेत् ॥२६॥

पुष्टवीर्यप्रदाता च कान्तिलावण्यदः परः ।
कोऽस्ति लोकेश्वराद् अन्यो नृणां शम्भुमुखोद्गतात् ॥२७॥


लोकेश्वरपटोलीरसः

रसस्य भस्मना हेम पादांशेन प्रकल्पयेत् ।
द्विगुणं गन्धकं दत्त्वा मर्दयेच्चित्रकाम्बुना ॥२८॥

वराटकांश्च सम्पूर्य टङ्कणेन निरुध्य च ।
भाण्डे चूर्णं प्रतिलिखेत्क्षिप्त्वा रुन्धीत मृन्मये ॥२९॥

शोषयित्वा पुटेद्गर्भे वह्निं दत्त्वा पराह्निके ।
स्वांगशीतं समुद्धृत्य चूर्णयित्वाथ विन्यसेत् ॥३०॥

एष लोकेश्वरो नाम वीर्यपुष्टिविवर्द्धनः ।
गुञ्जाचतुष्टयं चास्य पिप्पलीमधुसंयुतम् ॥३१॥

खादयेत्परया भक्त्या लोकेशः सर्वसिद्धिदः ।
अङ्गकार्श्येऽग्निमान्द्ये च कासपित्ते रसस्त्वयम् ॥३२॥

मरिचैर्घृतसंयुक्तैः प्रदातव्यो दिनत्रयम् ।
लवणं वर्जयेत्तत्र शयीतोत्तानपादतः ॥३३॥

एकविंशद्दिनं यावन्मरिचं सघृतं पिबेत् ।
पथ्यं मृगाङ्कवद्देयं शयीतोत्तानपादतः ॥३४॥

ये शुष्का विषमानिलैः क्षयरुजा व्याप्ताश्च ये कुष्ठिनो ये पाण्डुत्वहताः कुवैद्यविधिना ये शोषिणो दुर्भगाः ।
ये तप्ता विविधैर् ज्वरैर् भ्रममदोन्मादैः प्रमादं गतास्ते सर्वे विगतामया हतरुजः स्युः पोटलीसेवया ॥३५॥


राजमृगाङ्करसः

रसभस्म त्रयो भागा भागैकं हेमभस्मकम् ।
मृतताम्रस्य भागैकं शिलागन्धकतालकम् ॥३६॥

प्रतिभागद्वयं शुद्धमेकीकृत्य विचूर्णयेत् ।
वराटीः पूरयेत्तेन ह्यजाक्षीरेण टंकणम् ॥३७॥

पिष्ट्वा तेन मुखं रुद्ध्वा मृद्भाण्डे च निरोधयेत् ।
शुष्कं गजपुटे पाच्यं चूर्णयेत्स्वाङ्गशीतलम् ॥३८॥

रसो राजमृगाङ्कोऽयं चतुर्गुञ्जः कफापहः ।
दशभिः पिप्पलीक्षौद्रैर्मरिचैकोनविंशतिः ।
सघृतैर्दापयेत्क्वाथं वातश्लेष्मोद्भवे क्षये ॥३९॥


रत्नगिरिरसः

शुद्धं सूतं समं गन्धं मृतं स्वर्णाभ्रताम्रकम् ।
प्रत्येकं सूततुल्यं स्यात्सूतार्द्धं मृतलोहकम् ॥४०॥

लोहार्द्धं मृतवैक्रान्तं मर्दयेद्भृङ्गजैर्द्रवैः ।
पर्पटीरसवत्पाच्यं चूर्णितं भावयेत्पृथक् ॥४१॥

शिग्रुवासकनिर्गुण्डीवचासोमाग्निभृङ्गजैः ।
क्षुद्रामृताजयन्तीभिर् मुनिब्राह्मीसुतिक्तकैः ॥४२॥

कन्याद्रावैश्च संभाव्य प्रतिद्रावैस्त्रिधा त्रिधा ।
रुद्ध्वा लघुपुटे पाच्यं भूधरे तं समुद्धरेत् ॥४३॥

इमं नवज्वरे दद्यान्माषमात्रं रसस्य तु ॥४४॥

कृष्णाधान्यकसम्मिश्रं मुहूर्ताद्विज्वरो भवेत् ।
अयं रत्नगिरिर्नाम रसो योगस्य वाहकः ॥४५॥


हिङ्गुलेश्वररसः (?)

तुल्यांशं चूर्णयेत् खल्वे पिप्पलीं हिङ्गुलं विषम् ।
द्विगुंजं मधुना देयं वातज्वरनिवृत्तये ॥४६॥


शीतभञ्जीरसः

पारदं रसकं तालं तुत्थं टङ्कणगन्धकम् ।
सर्वमेतत्समं शुद्धं कारवेल्ल्या द्रवैर्दिनम् ॥४७॥

मर्दयेत्तेन कल्केन ताम्रपात्रोदरं लिपेत् ।
अङ्गुल्यर्धप्रमाणेन पचेत्तत्सिकताह्वये ॥४८॥

यन्त्रे यावत्स्फुटन्त्येवं व्रीहयस्तस्य पृष्ठतः ।
ततः सुशीतलं ग्राह्यं ताम्रपात्रोदराद्भिषक् ॥४९॥

शीतभञ्जीरसो नाम चूर्णयेन्मरिचैः समम् ।
माषैकं पर्णखण्डेन भक्षयेन्नाशयेज्ज्वरम् ।
त्रिदिनैर् विषमं तीव्रमेकद्वित्रिचतुर्थकम् ॥५०॥


शीतभञ्जीरसः

रसहिङ्गुलगन्धं च जैपालं च त्रिभिः समम् ।
दन्तीक्वाथेन संमर्द्य रसो ज्वरहरः स्मृतः ॥५१॥

आर्द्रकस्य रसेनाथ दापयेद्रक्तिकाद्वयम् ।
नवज्वरं महाघोरं नाशयेद्याममात्रतः ॥५२॥

शर्करा दधिभक्तं च पथ्यं देयं प्रयत्नतः ।
शीततोयं पिबेच्चानु इक्षुमुद्गरसो हितः ।
शीतभञ्जीरसो नाम सर्वज्वरविनाशकः ॥५३॥


शीतारिरसः

सूतकं टङ्कणं गन्धं शुल्बचूर्णं समं समम् ।
सूताद्द्विगुणितं देयं जैपालं तुषवर्जितम् ॥५४॥

सैन्धवं मरिचं चिञ्चात्वग्भस्मापि च शर्कराः ।
प्रत्येकं सूततुल्यं स्याज्जम्बीरैर् मर्दयेद् दिनम् ॥५५॥

द्विगुञ्जं तप्ततोयेन वातश्लेष्मज्वरापहम् ।
रसः शीतारिनामायं शीतज्वरहरः परः ॥५६॥


ज्वरराजरसः

भागैकं रसराजस्य भागस्यार्धेन माक्षिका ॥५७॥

भागद्वयं शिलायाश्च गन्धकस्य त्रयो मताः ।
तालकाष्टादश भागाः शुल्बस्य भागपञ्चकम् ॥५८॥

भल्लातकत्रयो भागाः सर्वमेकत्र चूर्णयेत् ।
वज्रीक्षीरप्लुतं कृत्वा दृढे मृन्मयभाजने ॥५९॥

विधाय सुदृढं मुद्रां पचेद्यामचतुष्टयम् ।
स्वाङ्गशीतं समुद्धृत्य मर्दयेत्सुदृढं पुनः ॥६०॥

गुञ्जाचतुष्टयं चास्य पर्णखण्डेन दापयेत् ।
ज्वरराजः प्रसिद्धोऽयमष्टज्वरविनाशकः ॥६१॥

प्रातःकाले प्रभुज्यैनं पथ्यं तक्रौदनं हितम् ।
भागेन तुत्थसंयुक्तं चातुर्थिकनिवारणम् ॥६२॥


महाज्वराङ्कुशरसः

सूतं गन्धं विषं तुल्यं धूर्तबीजं त्रिभिः समम् ।
तच्चूर्णाद्द्विगुणं व्योषचूर्णं गुञ्जाद्वयं हितम् ॥६३॥

जम्बीरकस्य मज्जाभिरार्द्रकस्य रसैर्युतः ।
महाज्वराङ्कुशो नाम ज्वराष्टकनिकृन्तनः ॥६४॥

ऐकाहिकं द्व्याहिकं च त्र्याहिकं च चतुर्थकम् ।
विषमं च त्रिदोषोत्थं हन्ति सर्वं न संशयः ॥६५॥

व्यायामं च व्यवायं च स्नानं चङ्क्रमणं तथा ।
ज्वरमुक्तो न सेवेत यावन्नो बलवान्भवेत् ॥६६॥


प्राणेश्वररसः

शुद्धसूतं तथा गन्धं मृताभ्रं विषसंयुतम् ॥६७॥

समं तन्मर्दयेत्तालमूलीनीरैस् त्र्यहं बुधः ।
पूरयेत्कुपिकां तेन मुद्रयित्वा विशोषयेत् ॥६८॥

सप्तभिर्मृत्तिकावस्त्रैर्वेष्टयित्वाथ शोषयेत् ।
पुटेत् कुम्भप्रमाणेन स्वाङ्गशीतं समुद्धरेत् ॥६९॥

गृहीत्वा कुपिकामध्यान्मर्दयेच्च दिनं ततः ।
अजाजीचित्रकं हिङ्गु स्वर्जिका टङ्कणं च यत् ॥७०॥

गुग्गुलुः पञ्चलवणं यवक्षारो यवानिका ।
मरिचं पिप्पली चैव प्रत्येकं च समानतः ॥७१॥

एषां कषायेण पुनर्भावयेत्सप्तधातपे ।
नागवल्लीदलयुतः पञ्चगुञ्जो रसेश्वरः ॥७२॥

दद्यान्नवज्वरे तीव्रे सोष्णं वारि पिबेदनु ।
प्राणेश्वरो रसो नाम सन्निपातप्रकोपनुत् ॥७३॥

शीतज्वरे दाहपूर्वे गुल्मे शूले त्रिदोषजे ।
वाञ्छितं भोजनं दद्यात् कुर्याच्चन्दनलेपनम् ॥७४॥

तापोद्रेकस्य शमनं बालाभाषणगायनैः ।
प्रभवेन्नात्र सन्देहः स्वास्थ्यं च लभते नरः ॥७५॥


नवज्वरेभसिंहरसः

शुद्धं सूतं तथा गन्धं लोहं ताम्रं च सीसकम् ।
मरिचं पिप्पलीं विश्वं समभागानि चूर्णयेत् ॥७६॥

अर्द्धभागं विषं दत्त्वा मर्दयेद्वासरद्वयम् ।
शृङ्गवेरानुपानेन दद्याद् गुञ्जाद्वयं भिषक् ॥७७॥

नवज्वरे महाघोरे वाते संग्रहणीगदे ।
नवज्वरेभसिंहोऽयं सर्वरोगेषु योजयेत् ॥७८॥


पञ्चाननज्वराङ्कुशरसः

शम्भोः कण्ठविभूषणं समरिचं मारारिरक्तं रविः पक्षौ सागरलोचनं शशियुतं भागोऽर्कसंख्यान्वितम् ।
खल्वे तं खलु मर्दितं रविजलैर् गुञ्जैकमात्रं ततः सिद्धोऽयं ज्वरदन्तदर्पदलनः पञ्चाननाख्यो रसः ॥७९॥

पथ्यं च देयं दधितक्रभक्तं सिन्धूत्थयुक्तं सितया समेतम् ।
गन्धानुलेपो हिमतोयपानं दुग्धं च देयं शुभदाडिमं च ॥८०॥


पञ्चाननरसः

सूतं गन्धकचित्रकं त्रिकटुकं मुस्ता विषं त्रैफलम् एतेभ्यो द्विगुणां गुडेन गुटिकां गुंजाप्रमाणां हरेत् ।
कुष्ठाष्टादश वायुशूलमुदरं शोषप्रमेहादिकं रोगानीककरीन्द्रदर्पदलने ख्यातो हि पञ्चाननः ॥८१॥


मृतसंजीवनीरसः

म्लेच्छस्य भागाश्चत्वारो जैपालस्य त्रयो मताः ।
द्वौ भागौ टङ्कणस्यैव भागैकममृतस्य च ॥८२॥

तत्सर्वं मर्दयेत् सूक्ष्मं शुष्कं यामं भिषग्वरः ।
शृङ्गवेराम्बुना देयो व्योषचित्रकसैन्धवैः ।
गुञ्जाद्वयमितस्तापं हरत्येष विनिश्चयः ॥८३॥

घनसारेण युक्तेन चन्दनेन विलेपयेत् ॥८४॥

विदध्यात्कांस्यपात्रेण जीवयेद्रोगिणं भिषक् ।
शाल्यन्नं तक्रसहितं भोजयेद् बिल्वसंयुतम् ॥८५॥

सन्निपाते महाघोरे त्रिदोषे विषमज्वरे ।
आमवाते वातशूले गुल्मे प्लीह्नि जलोदरे ॥८६॥

शीतपूर्वे दाहपूर्वे विषमे सततज्वरे ।
अग्निमांद्ये च वाते च प्रयोज्योऽयं रसेश्वरः ॥८७॥

मृतसंजीवनं नाम ख्यातोऽयं रससागरे ॥८८॥


रविसुन्दररसः

द्विभागतालेन हतं च ताम्रं रसं च गन्धं च विषं समं स्यात् ।
जयपालबीजं द्विगुणं च दद्यात् त्रिसप्तवारेण दिवाकरांशौ ॥८९॥

विमर्द्य निम्बस्वरसेन चूर्णं गुञ्जैकमानं सितया समेतम् ।
ज्वराङ्कुशोऽयं रविसुन्दराख्यो ज्वरान्निहन्त्यष्टविधान् समग्रान् ॥९०॥


सन्निपातभैरवरसः

ताम्रगन्धरसश्वेतस्पन्दामरिचपूतनाः ।
समीनपित्तजैपालास्तुल्या एकत्र मर्दिताः ॥९१॥

गुञ्जाचतुष्टयं चास्या नवज्वरहरः परः ।
ज्वराङ्कुशः संनिपातभैरवोऽयं प्रकाशितः ॥९२॥


भस्मेश्वररसः

भस्मषोडशनिष्कं स्यादारण्योपलकोद्भवम् ।
निष्कत्रयं च मरिचं विषं निष्कं च चूर्णयेत् ॥९३॥

अयं भस्मेश्वरो नाम सन्निपातनिकृन्तनः ।
पञ्चगुञ्जामितो भक्षेदार्द्रकस्य रसेन च ॥९४॥


प्रतापलङ्केश्वररसः

अपामार्गस्य मूलस्य चूर्णं चित्रकमूलजैः ।
वल्कलैर्मर्दयित्वा च रसं वस्त्रेण गालयेत् ॥९५॥

तेन सूतसमं गन्धमभ्रकं दरदं विषम् ।
टङ्कणं तालकं चैव मर्दयेद् दिनसप्तकम् ॥९६॥

त्रिदिनं मुशलीकन्दैर्भावयेद् घर्मरक्षितम् ।
मूषां च गोस्तनाकारामापूर्य परिढक्कयेत् ॥९७॥

सप्तभिर् मृत्तिकावस्त्रैर् वेष्टयित्वा पुटेल्लघु ।
रसतुल्यं लोहवङ्गौ रजतं ताम्रकं तथा ॥९८॥

मधूकसारजलदौ रेणुका गुग्गुलुः शिला ।
चव्यकं च समांशं स्याद्भागार्द्धं शोधितं विषम् ॥९९॥

तत्सर्वं मर्दयेत्खल्वे भावयेद्विषनीरतः ।
आतपे सप्तधा तीव्रे मर्दयेद् घटिकाद्वयम् ॥१००॥

कटुत्रयकषायेण कनकस्य रसेन च ।
फलत्रयकषायेण मुनिपुष्परसेन च ॥१०१॥

समुद्रफलनीरेण विजयावारिणा तथा ।
चित्रकस्य कषायेण ज्वालामुख्या रसेन च ॥१०२॥

प्रत्येकं सप्तधा भाव्यं तद्वत्पिष्टं च भावयेत् ।
सर्वस्य समभागेन विषेण परिधूपयेत् ॥१०३॥

दिनं विमर्दयित्वाथ रक्षयेत्कूपिकान्तरे ।
गुञ्जैकं वह्णिनीरेण शृङ्गवेररसेन वा ॥१०४॥

प्रदद्याद्रोगिणे तीव्रमोहविस्मृतिशान्तये ।
शस्त्रेण तालुमाहत्य मर्दयेदार्द्रनीरतः ॥१०५॥

नोद्घटन्ते यदा दन्तास्तदा कुर्यादमुं विधिम् ।
सेचयेन्मन्त्रयित्वाथ वारां कुम्भशतैर् मुहुः ॥१०६॥

भोजनेच्छा यदा तस्य जायते रोगिणस्तदा ।
दध्योदनं सितायुक्तं दद्यात्तक्रं सजीरकम् ॥१०७॥

पाने पानं सितायुक्तं यदीच्छति तदा ददेत् ।
एवं कृते न शान्तिः स्यात्तापस्य रसजस्य च ॥१०८॥

सचन्द्रचन्दनरसोल्लेपनं कुरु शीतलम् ।
तूलिकामल्लिकाजातीपुन्नागबकुलावृताम् ॥१०९॥

विधाय शय्यां तत्रस्थं लेपयेच्चन्दनैर् मुहुः ।
हावभावविलासोक्तिकटाक्षचञ्चलेक्षणैः ॥११०॥

पीनोत्तुङ्गकुचोत्पीडैः कामिनीपरिरम्भणैः ।
रम्यवीणानिनादाद्यैर् गायनैः श्रवणामृतैः ॥१११॥

पुण्यश्लोकपुराणानां कथासम्भाषणैः शुभैः ।
एभिः प्रकारैस्तापस्य जायते शमनं परम् ॥११२॥

वर्जयेन्मैथुनं तावद्यावन्नो बलवान् भवेत् ।
दद्याद्वातादिरोगेषु सिन्धुगुग्गुलवह्णिभिः ॥११३॥

दद्यात्कणामाक्षिकाभ्यां कामलाक्षयपाण्डुषु ।
तत्तद्रोगानुपानेन सर्वरोगेषु योजयेत् ॥११४॥

अयं प्रतापलङ्केशः सन्निपातनिकृन्तनः ॥११५॥


महोदधिरसः

सूतकं गन्धकं लोहं विषं चापि वराटकम् ।
ताम्रकं वङ्गभस्माथ अभ्रकं च समांशकम् ॥११६॥

त्रिकटु पत्रमुस्तं च विडङ्गं नागकेशरम् ।
रेणुकामलकं चैव पिप्पलीमूलमेव च ॥११७॥

एषां च द्विगुणं भागं मर्दयित्वा प्रयत्नतः ।
भावना तत्र दातव्या गजपिप्पलिकाम्बुना ॥११८॥

मात्रा चणकमाना तु वटिकेयं प्रकीर्तिता ।
श्वासं हन्ति तथा कासम् अर्शांसि च भगन्दरम् ॥११९॥

हृच्छूलं पार्श्वशूलं च कर्णरोगं कपालिकम् ।
हरेत्संग्रहणीरोगमष्टौ च जाठराणि च ।
प्रमेहविंशतिं चैव अश्मरीं च चतुर्विधाम् ॥१२०॥

न चान्नपाने परिहारमस्ति न शीतवाताध्वनि मैथुने च ।
यथेष्टचेष्टाभिरतः प्रयोगे नरो भवेत्काञ्चनराशिगौरः ॥१२१॥


मदोदधिवटी

एकैकं विषसूतं च जाती टङ्कं द्विकं द्विकम् ।
कृष्णात्रिकं विश्वषट्कं दग्धं कपर्दिकाद्विकम् ॥१२२॥

देवपुष्पं बाणमितं सर्वं संमर्द्य यत्नतः ।
महोदध्याख्यवटिका नष्टस्याग्नेश्च दीपनी ॥१२३॥


उन्मत्तरसः

रसं च गन्धकं चैव धत्तूरफलजैर् द्रवैः ।
मर्दयेद् दिनमेकं च तुल्यं त्रिकटुकं क्षिपेत् ॥१२४॥

उन्मत्ताख्यरसो नाम सन्निपातनिकृन्तनः ।
कस्तेन न कृतो धर्मः कां च पूजां न सोऽर्हति ।
सन्निपातार्णवे मग्नं योऽभ्युद्धरति देहिनम् ॥१२५॥


संज्ञाकरणरसः

वचा रसोनकटुकं सैन्धवं बृहतीफलम् ।
रुद्राक्षं मधुसारं च फलं सामुद्रकामृतम् ॥१२६॥

समभागानि चैतानि ह्यर्कक्षीरेण भावयेत् ।
भावयेन्मत्स्यपित्तेन त्रिवारं चूर्णयेत्ततः ॥१२७॥

धमनं कथितं श्रेष्ठं सन्निपाते सुदारुणे ।
कफोल्वणेऽतिवाते च अपस्मारे हलीमके ॥१२८॥

शिरोरोगे कर्णरोगे नेत्ररोगे विधानतः ।
दापयेद्घ्राणछिद्राभ्यां संज्ञाकरणम् उत्तमम् ॥१२९॥


चन्द्रशेखररसः

शुद्धं सूतं समं गन्धं मरिचं टङ्कणं तथा ॥१३०॥

चतुस्तुल्या सिता योज्या मत्स्यपित्तेन भावयेत् ।
त्रिदिनं मर्दयेत्तेन रसोऽयं चन्द्रशेखरः ॥१३१॥

द्विगुञ्जमार्द्रकद्रावैर्देयं शीतोदकं पुनः ।
तक्रभक्तं च वृन्ताकं पथ्यं तत्र निधापयेत् ॥१३२॥


कनकसुन्दररसः

हिङ्गुलं मरिचं गन्धं पिप्पलीं टङ्कणं विषम् ॥१३३॥

कनकस्य च बीजानि समांशं विजयारसैः ।
मर्दयेद्याममात्रं तु चणमात्रा वटी कृता ॥१३४॥

भक्षणाद्ग्रहणीं हन्याद्रसः कनकसुन्दरः ।
अग्निमांद्यं ज्वरं तीव्रमतिसारं च नाशयेत् ॥१३५॥

ग्रहणीदोषिणां तक्रं दीपनं ग्राहिलाघवम् ।
पथ्यं मधुरपाकित्वान्न च पित्तप्रकोपनम् ॥१३६॥


राववाणरसः

सूतकं गन्धकं चैव शाणं शाणं च गृह्यते ॥१३७॥

दरदं टङ्कणं चैव मरिचं च विषं तथा ।
चत्वार औषधयः सर्वे द्विद्विटङ्कं च कथ्यते ॥१३८॥

जैपालबीजं संयोज्यं टङ्कं च दिक्प्रमाणतः ।
तिन्तिडीरससंमर्द्यं गुञ्जामात्रवटी कृता ॥१३९॥

तुलसीपत्रसंयुक्ता सर्वे च विषमज्वराः ।
ऐकाहिकं द्व्याहिकं च त्र्याहिकं च चतुर्थकम् ॥१४०॥

शीतदाह्यादिकं सर्वं नाशयति च वेगतः ।
पथ्यं दुग्धौदनं देयं दधिभक्तं च भोजनम् ॥१४१॥

रामवाणरसो नाम सर्वरोगप्रणाशकः ॥१४२॥


चन्द्रप्रभावटी

मृतं सूतं मृतं ताम्रं मृतं स्वर्णं समं समम् ।
तुल्यं च खादिरं सारं तथा मोचरसं क्षिपेत् ॥१४३॥

द्रवैः शाल्मलिमूलोत्थैर् मर्दयेत् प्रहरद्वयम् ।
चणमात्रां वटीं भक्षेन्निष्कैकं जीरकैः सह ।
त्रिदोषोत्थमतीसारं सज्वरं नाशयेद्ध्रुवम् ॥१४४॥


चित्राम्बररसः

शुद्धसूतं मृतं चाभ्रं गन्धकं मर्दयेत्समम् ।
लोहपात्रे घृताभ्यक्ते यामं मृद्वग्निना पचेत् ॥१४५॥

चालयेल्लोहदण्डेन ह्यवतार्य विभावयेत् ।
त्रिदिनं जीरकैः क्वाथैर् मासैकं भक्षयेन्नरः ॥१४६॥

रसश् चित्राम्बरो नाम ग्रहणीं रक्तसंयुताम् ।
शमयेदनुपानेन आमशूलं प्रवाहिकाम् ॥१४७॥


ग्रहणीकपाटरसः

तारमौक्तिकहेमायः सारश् चैकैकभागिकाः ।
द्विभागो गन्धकः सूतस्त्रिभागो मर्दयेद्दिनम् ॥१४८॥

कपित्थस्वरसैर्गाढं मृगशृङ्गे ततः क्षिपेत् ।
पुटेन्मध्यपुटेनैव तत उद्धृत्य मर्दयेत् ॥१४९॥

बलारसैः सप्तधैवम् अपामार्गरसैस् त्रिधा ।
लोध्रप्रतिविषामुस्ताधातकीन्द्रयवामृताः ॥१५०॥

प्रत्येकमेषां स्वरसैर्भावना स्यात्त्रिधा त्रिधा ।
माषमात्ररसो देयो मधुना मरिचैः सह ॥१५१॥

हन्यात्सर्वानतीसारान्ग्रहणीं पञ्चधापि च ।
कपाटो ग्रहणीनाम रसोऽयं चाग्निदीपनः ॥१५२॥


ग्रहणीकपाटरसः

मुक्तासुवर्णं रसगन्धटङ्कणं घनं कपर्दोऽमृततुल्यभागम् ।
सर्वैः समं शङ्खकचूर्णयुक्तं खल्वे च भाव्योऽतिविषाद्रवेण ॥१५३॥

गोलं च कृत्वा मृत्कर्पटस्थं संरुध्य भाण्डे हि पचेद् दिनार्धम् ।
सुस्वाङ्गशीतो रस एष भाव्यो धत्तूरवह्णिमुशलीद्रवैश्च ॥१५४॥

लोहस्य पात्रे परिपाचितश्च सिद्धो भवेत् संग्रहणीकपाटः ।
वातोत्तरायां मरिचाज्ययुक्तः पित्तोत्तरायां मधुपिप्पलीभिः ॥१५५॥

श्लेष्मोत्तरायां विजयारसेन कटुत्रयेणापि युतो ग्रहण्याम् ॥१५६॥

क्षये ज्वरेऽप्यर्शसि विड्विकारे सामातिसारेऽरुचिपीनसे च ।
मोहे च कृच्छ्रे गतधातुवृद्धौ गुञ्जाद्वयं चापि महामयघ्नम् ॥१५७॥


वज्रकपाटरसः

मृतसूताभ्रकं गन्धं यवक्षारं सटङ्कणम् ॥१५८॥

अग्निमन्थं वचां कुर्यात् सूततुल्याम् इमां सुधीः ।
ततो जयन्तीजम्बीरभृङ्गद्रावैर् विमर्दयेत् ॥१५९॥

त्रिवासरं ततो गोलं कृत्वा संशोष्य धारयेत् ।
लोहपात्रे च लवणं अथोपरि निधापयेत् ॥१६०॥

अधोवह्निं शनैः कुर्याद् यामार्धं च तद् उद्धरेत् ।
रसतुल्यामतिविषां दद्यान्मोचरसं तथा ॥१६१॥

कपित्थविजयाद्रावैर्भावयेत् सप्तधा भिषक् ।
धातकीन्द्रयवमुस्तालोध्रबिल्वगुडूचिकाः ॥१६२॥

एतद्रसैर्भावयित्वा वारैकं च विशोषयेत् ।
रसवज्रं कपाटाख्यं माषैकं मधुना लिहेत् ॥१६३॥

वह्निः शुण्ठी विडङ्गापि बिल्वं च लवणं समम् ।
पिबेद् उष्णाम्बुना चानु सर्वजां ग्रहणीं जयेत् ॥१६४॥


विजयभैरवरसः

सूतकं गन्धकं लोहं विषं चित्रकमभ्रकम् ।
विडङ्गं रेणुका मुस्ता एला केशरपत्रकम् ।
फलत्रयं त्रिकटुकं शुल्बभस्म तथैव च ॥१६५॥

एतानि समभागानि द्विगुणो दीयते गुडः ।
कासे श्वासे क्षये गुल्मे प्रमेहे विषमज्वरे ॥१६६॥

सूतायां ग्रहणीमांद्ये शूले पाण्ड्वामये तथा ।
हस्तपादादिरोगेषु गुटिकेयं प्रशस्यते ॥१६७॥


आनन्दभैरवरसः

दरदं वत्सनाभं च मरिचं टङ्कणं कणा ॥१६८॥

चूर्णयेत्समभागेन रसो ह्यानन्दभैरवः ।
गुञ्जैकं तु द्विगुञ्जं वा बलं ज्ञात्वा प्रयोजयेत् ॥१६९॥

मधुना लेहयेच्चानु कुटजस्य फलत्वचम् ।
चूर्णितं कर्षमात्रं तु त्रिदोषस्यातिसारजित् ॥१७०॥

दध्यन्नं दापयेत्पथ्यं गव्याजं तक्रमेव च ।
पिपासायां जलं शीतं हिता च विजया निशि ॥१७१॥


मेघडम्बररसः

तण्डुलीयजलैः पिष्टं सूततुल्यं च गन्धकम् ।
अन्धमूषागतं पक्त्वा भूधरे भस्मतां नयेत् ॥१७२॥

दशमूलकषायेण भावयेत्प्रहरद्वयम् ।
गुञ्जाद्वयं हरत्याशु हिक्कां कासं ज्वरं तथा ।
अनुपानेन दातव्यो रसोऽयं मेघडम्बरः ॥१७३॥


त्रिगुणाख्यरसः

गन्धकाद् द्विगुणं सूतं शुद्धं मृद्वग्निना क्षणम् ॥१७४॥

पक्त्वावतार्य संचूर्ण्य चूर्णतुल्याभयायुतम् ।
सप्तगुञ्जामितं खादेद्वर्धयेच्च दिने दिने ॥१७५॥

गुञ्जैकं च क्रमेणैव यावत्स्याद् एकविंशतिः ।
क्षीराज्यशर्करामिश्रं शाल्यन्नं पथ्यमाचरेत् ॥१७६॥

कम्पवातप्रशान्त्यर्थं निर्वाते निवसेत्सदा ।
त्रिगुणाख्यो रसो नाम त्रिपक्षात्कम्पवातनुत् ॥१७७॥


वातरिपुरसः

सूतहाटकवज्राणि तारं लोहं च माक्षिकम् ।
तालं नीलाञ्जनं तुत्थमब्धिफेनं समांशकम् ॥१७८॥

पञ्चानां लवणानां च भागमेकं विमर्दयेत् ।
वज्रक्षीरैर् दिनैकं तु रुद्ध्वा तं भूधरे पुटेत् ॥१७९॥

माषैकमार्द्रकद्रावैर् लेहयेद् वातनाशनम् ।
पिप्पलीमूलजं क्वाथं सकृष्णमनुपाययेत् ॥१८०॥

सर्ववातविकारांस्तु निहन्त्याक्षेपकादिकान् ।
रसः सर्वत्र विख्यातो नाम वातरिपुः स्मृतः ॥१८१॥


वातगजाङ्कुशरसः

मृतं लोहं सूतगन्धं ताम्रतालकमाक्षिकम् ।
पथ्यां शृङ्गीविषं त्र्यूषम् अग्निमन्थं च टङ्कणम् ॥१८२॥

तुल्यं खल्वे दिनं मर्द्य मुण्डीनिर्गुण्डिजैर् द्रवैः ।
द्विगुञ्जां वटिकां खादेत्सर्ववातप्रशान्तये ।
साध्यासाध्यं निहन्त्याशु रसो वातगजाङ्कुशः ॥१८३॥


अम्लपित्तान्तकरसः

मृतसूताभ्रलोहानां तुल्यां पथ्यां विचूर्णयेत् ।
माषत्रयं लिहेत्क्षौद्रैरम्लपित्तप्रशान्तये ॥१८४॥


अग्निकुमाररसः

सूतं गन्धं च नागानां चूर्णं हंसाङ्घ्रिवारिणा ।
दिनं घर्मे विमर्द्याथ गोलिकां तस्य योजयेत् ॥१८५॥

काचकुप्यां च संवेष्ट्य तां त्रिभिर् मृत्पुटैर् दृढम् ।
मुखं संरुध्य संशोष्य स्थापयेत्सिकताह्वये ॥१८६॥

सार्धं दिनं क्रमेणाग्निं ज्वालयेत् तदधस्ततः ।
स्वांगशीतं समुद्धृत्य षडंशेनामृतं क्षिपेत् ॥१८७॥

मरिचान्यर्द्धभागेन समं वास्याथ मर्दयेत् ।
अयमग्निकुमाराख्यो रसो मात्रास्य रक्तिका ॥१८८॥

ताम्बूलीरससंयुक्तो हन्ति रोगानमून् अयम् ।
वातरोगान् क्षयं श्वासं कासं पाण्डुकफोल्बणम् ॥१८९॥

अग्निमांद्यं सन्निपातं पथ्यं शाल्यादिकं लघु ।
जलयोगप्रयोगोऽपि शस्तस्तापप्रशान्तये ॥१९०॥


अग्निकुमाररसः

टङ्कणं रसगन्धौ च समभागं त्रयो विषम् ।
कपर्दिसर्जिकाक्षारमागधीविश्वभेषजम् ॥१९१॥

पृथक्पृथक् कर्षमात्रं त्वष्टभागं मरीचकम् ।
जम्बीराम्लैर्दिनं पिष्टं भवेदग्निकुमारकः ।
विषूचिशूलवातादिवह्णिमांद्यप्रशान्तये ॥१९२॥


लीलाविलासरसः

रसो रविर्व्योम बलिः सुलोहं धात्र्यक्षनीरैस्त्रिदिनं विमर्द्य ।
तदल्पघृष्टं मृदुमार्कवेण संमर्दयेद् अस्य च वल्लयुग्मम् ॥१९३॥

हन्त्यम्लपित्तं मधुनावलीढं लीलाविलासो रसराज एषः ।
दुग्धं सकूष्माण्डरसं सधात्रीफलं शनैस्तत्सहितं भजेद्वा ॥१९४॥


मन्थानभैरवरसः

मृतं सूतं मृतं ताम्रं हिङ्गुपुष्करमूलकम् ।
सैन्धवं गन्धकं तालं टङ्कणं चूर्णयेत्समम् ॥१९५॥

पुनर्नवादेवदारुनिर्गुण्डीतण्डुलीयकैः ।
तिक्तकोशातकीद्रावैर्दिनैकं मर्दयेद् दृढम् ॥१९६॥

माषमात्रं लिहेत्क्षौद्रै रसो मन्थानभैरवः ।
कफरोगप्रशान्त्यर्थं निम्बक्वाथं पिबेदनु ॥१९७॥


क्रव्यादरसः

पलं रसस्य द्विपलं बलेः स्याच्छुल्वायसी चार्धपलप्रमाणे ।
संचूर्ण्य सर्वं द्रुतम् अग्नियोगाद् एरण्डपत्रेषु निवेशनीयम् ॥१९८॥

पिष्ट्वाथ तां पर्पटिकां निदध्याल्लोहस्य पात्रे वरपूतम् अस्मिन् ।
जम्बीरजं पक्वरसं पलानां शतं नियोज्याग्निमथाम्लमात्रम् ॥१९९॥

जीर्णे रसे भावितमेतदेतैः सपञ्चकोलोद्भववारिपूरैः ।
सवेतसाम्लैः शतमत्र योज्यं समं रजष् टंकणजं सुभृष्टम् ॥२००॥

विडं ददर्धं मरिचं समं च तत्सप्तधार्द्रं चणकाम्लवारि ।
क्रव्यादनामा भवति प्रसिद्धो रसः सुमन्थानकभैरवोक्तः ।
माषद्वयं सैन्धवतक्रपीतम् एतसुधन्यं खलु भोजनान्ते ॥२०१॥

गुरूणि मांसानि पयांसि पिष्टीघृतानि खाद्यानि फलानि वेगात् ।
मात्रातिरिक्तान्यपि सेवितानि यामद्वयाज्जारयति प्रसिद्धः ॥२०२॥


अग्नितुण्डीवटी

शुद्धं सूतं विषं गन्धमजमोदाफलत्रयम् ।
सर्जिक्षारं यवक्षारं वह्णिसैन्धवजीरकम् ॥२०३॥

सौवर्चलं विडङ्गानि सामुद्रं टङ्कणं समम् ।
विषमुष्टिं सर्वतुल्यं जम्बीराम्लेन मर्दयेत् ॥२०४॥

मरिचाभां वटीं खादेद्वह्णिमांद्यप्रशान्तये ॥२०५॥


आनन्दोदयरसः

पारदं गन्धकं लोहमभ्रकं विषमेव च ।
समांशं मरिचं चाष्टौ टङ्कणं च चतुर्गुणम् ॥२०६॥

भृङ्गराजरसैः सप्त भावनाश्चाम्लदाडिमैः ।
गुञ्जाद्वयं पर्णखण्डैर्हन्ति सायं तु भक्षितः ॥२०७॥

वातश्लेष्मोद्भवान्रोगान्मन्दाग्निग्रहणीज्वरान् ।
अरुचिं पाण्डुतां चैव जयेदचिरसेवनात् ॥२०८॥


चिन्तामणिरसः

रसं गन्धं मृतं शुल्बं मृतमभ्रं फलत्रिकम् ।
त्र्यूषणं बीजजैपालं समं खल्वे विमर्दयेत् ॥२०९॥

द्रोणपुष्पीरसैर्भाव्यं शुष्कं तद्वस्त्रगालितम् ।
चिन्तामणिरसोऽप्येष अजीर्णानां प्रशस्यते ॥२१०॥

ज्वरम् अष्टविधं हन्ति सर्वशूलेषु शस्यते ।
गुञ्जैको वा द्विगुंजो वा आमरोगहरः परः ॥२११॥


राजवल्लभरसः

रसनिष्कैकगन्धैकं निष्कमात्रः प्रदीपनः ॥२१२॥

सार्धं पलं प्रदातव्यं चूलिकालवणं भिषक् ।
खल्वे संमर्दयेत्तत्तु शुष्कवस्त्रेण गालयेत् ॥२१३॥

माषमात्रं प्रदातव्यो मुक्तमांसादिजारकः ।
अजीर्णेषु त्रिदोषेषु देयोऽयं राजवल्लभः ॥२१४॥


त्रिनेत्राख्यरसः

टङ्कणं हारिणं शृङ्गं स्वर्णं शुल्बं मृतं रसम् ।
दिनैकमार्द्रकद्रावैर्मर्द्य रुद्ध्वा पुटे पचेत् ॥२१५॥

त्रिनेत्राख्यो रसो नाम्ना माषैकं मधुसर्पिषा ।
सैन्धवं जीरकं हिङ्गुमध्वाज्याभ्यां लिहेदनु ।
पक्तिशूलहरं ख्यातं याममात्रान्न संशयः ॥२१६॥


मेहवज्ररसः

भस्म सूतं मृतं कान्तं शुल्बभस्म शिलाजतु ।
शुद्धताप्यं शिला व्योषं त्रिफलाङ्कोलबीजकम् ॥२१७॥

कपित्थरजनीचूर्णं भृङ्गराजेन भावयेत् ।
विंशद्वारं विशोष्याथ मधुयुक्तं लिहेत्सदा ॥२१८॥

निष्कमात्रं लिहेन्मेही मेहवज्रो महारसः ।
महानिम्बस्य बीजानि पिष्ट्वा कर्षमितानि च ॥२१९॥

पलं तण्डुलतोयेन घृतनिष्कद्वयेन च ।
एकीकृत्य पिबेत्तोयं हन्ति मेहं चिरोत्थितम् ॥२२०॥


इन्द्रवटीरसः

मृतं सूतं मृतं वंगमर्जुनस्य त्वचान्वितम् ।
तुल्यांशं मर्दयेत् खल्वे शाल्मल्या मूलजैर् द्रवैः ॥२२१॥

दिनान्ते वटिका कार्या माषमात्रा प्रमेहहा ।
एषा इन्द्रवटी नाम्ना मधुमेहप्रशान्तये ॥२२२॥


रसेन्द्रमङ्गलरसः

तालसत्त्वं मृतं ताम्रं मृतं लोहं मृतं रसम् ।
हतमभ्रं हतं तारं गन्धं तुत्थं मनःशिला ॥२२३॥

सौवीराञ्जनकासीसं नीलीभल्लातकानि च ।
शिलाजत्वर्कमूलं तु कदलीकन्दचित्रकम् ॥२२४॥

त्वचम् अङ्कोलजां कृष्णां कृष्णधत्तूरमूलकम् ।
अवल्गुजानि बीजानि गौरीमाध्वीफलानि च ॥२२५॥

हेमाह्वां फेनजात्यां च फलिनीं विषतिन्दुकम् ।
तैलिन्यो लोहकिट्टं च पुराणममृतं च तत् ॥२२६॥

त्वचा च मीनकाक्षस्य पुनरुक्तं पलं पृथक् ।
तैलिन्यो वटकास्तासु सर्वमेकत्र चूर्णयेत् ॥२२७॥

खल्वे निधाय दातव्या पुनरेषां च भावना ।
ब्रह्मदण्डी शिखापुङ्खा देवदाली च नीलिका ॥२२८॥

वाणशोना नृपतरु निम्बसारो विभीतकः ।
करञ्जो भृङ्गराजश्च गायत्री तिन्तडीफलम् ॥२२९॥

मलयूमूलमेतेषां तिस्रस्तिस्रस्तु भावनाः ।
दातव्या कुप्पिकां कृत्वा सम्यक् संशोष्य चातपे ॥२३०॥

भाण्डे तद्धारयेद्भाण्डं मुद्रितं चाथ कारयेत् ।
यामं मन्दाग्निना पच्यात् पुटमध्ये ह्यसौ रसः ॥२३१॥

पुण्डरीकं निहन्त्येव नात्र कार्या विचारणा ।
द्विमासाभ्यन्तरे पुंसामपथ्यं न तु भोजयेत् ॥२३२॥

रोगाः सर्वे विलीयन्ते कुष्ठानि सकलानि च ।
भानुभक्तिप्रवृत्तानां गुरुभक्तिकृतां सदा ॥२३३॥

रसेन्द्रमंगलो नाम्ना रसोऽयं प्रकटीकृतः ।
अनुग्रहाय भक्तानां शिवेन करुणात्मना ॥२३४॥


सर्वेश्वररसः

मृतताम्राभ्रलोहानां हिङ्गुलं च पलं पलम् ।
जम्बीरोन्मत्तभार्गीभिः स्नुह्यर्कविषमुष्टिभिः ॥२३५॥

मर्द्यं हयारिजैर् द्रावैः प्रत्येकं च दिनं दिनम् ।
एवं सप्तदिनं मर्द्यं तद्गोलं वस्त्रवेष्टितम् ॥२३६॥

वालुकायन्त्रगं स्वेद्यं त्रिदिनं लघुवह्णिना ।
आदाय चूर्णयेत् सर्वं पलैकं योजयेद्विषम् ॥२३७॥

द्विपलं पिप्पलीचूर्णमिश्रं सर्वेश्वरं रसम् ।
द्विगुञ्जं लेहयेत् क्षौद्रैर् मुनिमण्डलकुष्ठनुत् ॥२३८॥

वाकुची चैव दारू च कर्षमात्रं विचूर्णितम् ।
लिहेद् एरण्डतैलेन ह्यनुपानं सुखावहम् ॥२३९॥

रक्ताधिक्ये सिरामोक्षः पादे बाहौ ललाटके ।
कर्तव्यो दृष्टिरोगेषु कुष्ठिनां च विशेषतः ॥२४०॥

बलिनो बहुदोषस्य वयःस्थस्य शरीरिणः ।
एतत्प्रमाणमिच्छन्ति प्रस्थं शोणितमोक्षणे ॥२४१॥

व्यभ्रे वर्षासु विद्यात्तु ग्रीष्मकाले तु शीतले ।
हेमन्तकाले मध्याह्ने शस्त्रकालास्त्रयः स्मृताः ॥२४२॥


तलेश्वररसः (१ )

कर्षा द्वादश तालस्य कूष्माण्डरससंभृते ।
स्वेदयेद् दोलिकायन्त्रे यावत्तोयं न विद्यते ॥२४३॥

पश्चात्तं शोषयेत्खल्वे सूतं कर्षद्वयं क्षिपेत् ।
घर्षयेद् बहुधा तत्तु यावत्कज्जलिका भवेत् ॥२४४॥

स्नुहीक्षीरं रविक्षीरं छागी गोक्षुरवाकुची ।
पातालगरुडाङ्कोलचक्रमर्दकहिज्जलाः ॥२४५॥

कुमार्युन्मत्तभल्लातत्रिफलाम्बुपुनर्नवाः ।
निम्बत्वग् एभिर् भैषज्यैः पुटनाच्च त्रयं त्रयम् ॥२४६॥

षट्कर्षं कलिकाचूर्णं हण्डिकायां तु धारयेत् ।
चतुर्थांशमधः स्थाप्यं मध्ये स्थाप्यं तु तालकम् ॥२४७॥

पश्चादुपरिचूर्णं तु सर्वं स्थाप्यं प्रयत्नतः ।
हण्डिकां कण्ठपर्यन्तां कुमारीरसयोगतः ॥२४८॥

पूरयेच्च ततो मुद्रां दृढां कुर्यात्प्रयत्नतः ।
तस्योपरि शिलां दत्त्वा दृढा न च चलेद्यथा ॥२४९॥

दीपाग्ना चतुर्यामं विंशद्यामं हठाग्निना ।
स्वाङ्गशीतलमुद्धृत्य कुष्ठे तालेश्वरो रसः ॥२५०॥

कुष्ठनाशः परः ख्यातो भैरवानन्दयोगिना ।
पथ्यं मुद्गाम्बुशाल्यन्नं भिषगत्र प्रयोजयेत् ॥२५१॥


तालेश्वररसः (२ )

सूतो द्वौ वल्गुजा त्रीणि कणा विश्वा त्रिकं त्रिकम् ॥२५२॥

सार्धैकं ब्रह्मपुत्रस्य मरिचस्य चतुष्टयम् ।
एकैकं निम्बधत्तूरबीजतो गन्धकत्रयम् ॥२५३॥

जातीटङ्कणतालाया भागा दश दश स्मृताः ।
युक्त्या सर्वं विमर्द्याथामृतास्वरसभाविताः ॥२५४॥

सप्तधा शोषयित्वाथ धत्तूरस्यैव दापयेत् ।
संमर्द्य गोलकं सार्द्रं धत्तूरैर् वेष्टयेद्दलैः ॥२५५॥

गोमये वेष्टयेत्तच्च कुक्कुटाख्यपुटे पचेत् ।
रसः कुष्ठहरः सेव्यः सर्वदा भोजनप्रियैः ॥२५६॥


स्वर्णक्षीरीरसः

हेमाह्वां पञ्चपलिकां क्षिप्त्वा तक्रघटे पचेत् ।
तक्रे जीर्णे समुद्धृत्य पुनः क्षीरघटे पचेत् ॥२५७॥

क्षीरे जीर्णे समुद्धृत्य क्षालयित्वा विशोषयेत् ।
चूर्णितं तत्पञ्चपलं मरिचानां पलद्वयम् ॥२५८॥

पलैकं मूर्छितं सूतम् एकीकृत्वा च भक्षयेत् ।
निष्कैकं सुप्तिकुष्ठार्तः स्वर्णक्षीरीरसो ह्ययम् ॥२५९॥


शूलगजकेसरीरसः

शुद्धसूतं द्विधा गन्धं यामैकं मर्दयेद् दृढम् ।
ताम्रभस्म द्वयोस्तुल्यं सम्पुटे तं निरोधयेत् ॥२६०॥

ऊर्ध्वाधोलवणं दत्त्वा मृद्भाण्डे धारयेद्भिषक् ।
ततो गजपुटे पक्त्वा स्वाङ्गशीतं समुद्धरेत् ॥२६१॥

सम्पुटं चूर्णयेत् सूक्ष्मं पर्णखण्डे द्विगुञ्जके ।
भक्षयेच्छूलपीडार्थे हिङ्गुशुण्ठीसजीरकम् ॥२६२॥

वचामरिचजं चूर्णं कर्षमुष्णजलैः पिबेत् ।
असाध्यं साधयेच्छूलं रसः स्याच्छूलकेसरी ॥२६३॥

व्यायामं मैथुनं मद्यं लवणं कटुकानि च ।
वेगरोधं शुक्ररोधं वर्जयेच्छूलवान्नरः ॥२६४॥


ब्रह्मरसः

भागैकं मूर्छितं सूतं गन्धावल्गुजचित्रकान् ।
चूर्णं तु ब्रह्मबीजानां प्रतिद्वादशभागिकम् ॥२६५॥

भागांस्त्रिंशद्गुडस्यापि क्षौद्रेण गुटिका कृता ।
अयं ब्रह्मरसो नाम्ना ब्रह्महत्याविनाशनः ॥२६६॥

द्विनिष्कभक्षणाद्धन्ति प्रसुप्तिं कुष्ठमण्डलम् ।
पातालगरुडीमूलं जले पिष्ट्वा पिबेदनु ॥२६७॥


इन्दुधररसः

शुद्धं सूतं समं गन्धं तुत्थं च मृतताम्रकम् ।
मर्दितं वाकुचीक्वाथैर्दिनैकं वटकीकृतम् ॥२६८॥

निष्कमात्रं सदा खादेच्छ्वेतघ्नेन्दुधरो रसः ।
वाकुचीतैलकर्षैकं सक्षौद्रमनुपाययेत् ॥२६९॥


पारिभद्ररसः

मूर्छितं सूतकं धात्रीफलं निम्बस्य चाहरेत् ।
तुल्यांशं खादिरक्वाथैर्दिनं मर्द्यं च भक्षयेत् ।
निष्कैकं दद्रुकुष्ठघ्नः पारिभद्राह्वयो रसः ॥२७०॥


श्वेतारिरसः

शुद्धं सूतं समं गन्धं त्रिफलाभ्रं च वाकुची ।
भल्लातं च शिला कृष्णा निम्बबीजं समं समम् ॥२७१॥

मर्दयेद्भृङ्गजद्रावैः पेष्यं शोष्यं पुनः पुनः ।
इत्थं कुर्यात् त्रिसप्ताहं रसं श्वेतारिको भवेत् ॥२७२॥

मध्वाज्यैः खादयेन्निष्कं श्वेतकुष्ठं विनाशयेत् ॥२७३॥


कालाग्निरुद्ररसः

सूताभ्रं ताम्रतीक्ष्णानां भस्म माक्षिकगन्धकम् ।
वन्ध्याकर्कोटकीद्रावै रसो मर्द्यो दिनावधि ॥२७४॥

वन्ध्याकर्कोटकीकन्दे क्षिप्त्वा लिप्त्वा मृदा बहिः ।
भूधराख्ये पुटे पाच्यं दिनैकं तु विचूर्णयेत् ॥२७५॥

दशमांशं विषं योज्यं माषमात्रं च भक्षयेत् ।
रसः कालाग्निरुद्रोऽयं दशाहेन विसर्पनुत् ॥२७६॥

पिप्पलीमधुसंयुक्तं ह्यनुपानं प्रकल्पयेत् ।

मकरध्वजरसः

स्वर्णादष्टगुणं सूतं मर्दयेद् द्वित्वगन्धकम् ॥२७७॥

रक्तकार्पासकुसुमैः कुमार्यास्त्रिदिनं ततः ।
शुष्कं काचघटे रुद्ध्वा वालुकायन्त्रगं हठात् ॥२७८॥

भस्म कुर्याद्रसेन्द्रस्य नवार्ककिरणोपमम् ।
भागोऽस्य भागाश्चत्वारः कर्पूरस्य सुशोभनाः ॥२७९॥

लवङ्गं मरिचं जातीफलं कर्पूरमात्रया ।
मेलयेन्मृगनाभिं च गद्याणकमितां ततः ॥२८०॥

श्लक्ष्णपिष्टो रसः श्रीमाञ्जायते मकरध्वजः ।
वल्लं वल्लद्वयं वास्य ताम्बूलदलसंयुतम् ॥२८१॥

भक्षयेन्मधुरं स्निग्धं लघुमांसमवातुलम् ।
शृतं शीतं सितायुक्तं दुग्धं गोधूमम् आज्यकम् ॥२८२॥

माषाश्च पिष्टमपरं मद्यानि विविधानि च ।
करोत्यग्निबलं पुंसां वलीपलितनाशनः ॥२८३॥

मेधायुःकान्तिजनकः कामोद्दीपनकृन्महान् ।
अभ्यासात् साधकः स्त्रीणां शतं जयति नित्यशः ॥२८४॥

रतिकाले रतान्ते वा पुनः सेव्यो रसोत्तमः ।
मदहानिं करोत्येष प्रमदानां सुनिश्चितम् ॥२८५॥

कृत्रिमं स्थावरविषं जंगमं विषवारिजम् ।
न विकाराय भवति साधकानां च वत्सरात् ॥२८६॥

मृत्युञ्जयो यथाभ्यासान्मृत्युं जयति देहिनाम् ।
तथायं साधकेन्द्रस्य जरामरणनाशनः ॥२८७॥


मदनकामदेवरसः

तारं वज्रं सुवर्णं च ताम्रं च सूतगन्धकम् ।
लोहं च क्रमवृद्धानि कुर्यादेतानि मात्रया ॥२८८॥

विमर्द्य कन्यकाद्रावैर्न्यसेत्काचमये घटे ।
मुद्रितं पिठरीमध्ये धारयेत्सैन्धवैर्भृते ॥२८९॥

पिठरीं मुद्रयेत्सम्यक् ततश् चुल्ल्यां निवेशयेत् ।
वह्निं शनैः शनैः कुर्याद्दिनैकं तत उद्धरेत् ॥२९०॥

स्वाङ्गशीतं च संचूर्ण्य भावयेदर्कदुग्धकैः ।
अश्वगन्धा च कङ्कोली वानरी मुशलीक्षुरः ॥२९१॥

त्रिवारं स्वरसं भाव्यं शतावर्या विभावयेत् ।
पद्मकन्दकसेरूणां रसैर् भाव्यं तु एकधा ॥२९२॥

कस्तूरीव्योषकपूरैः कङ्कोलैलालवंगकम् ।
पूर्वचूर्णादष्टमांशमितचूर्णं विमिश्रयेत् ॥२९३॥

सर्वैः समां शर्करां च दत्त्वा शाणोन्मितं ददेत् ।
गोदुग्धद्विपलेनैव मधुराहारसेविनः ॥२९४॥

अस्य प्रभावात् सौन्दर्य्यं बलं तेजो विवर्धते ।
तरुणी रमते बह्वीर्वीर्यहानिर्न जायते ॥२९५॥


पूर्णेन्दुरसः

शाल्मल्युत्थैर् द्रवैर् मर्द्य पक्षैकं शुद्धसूतकम् ।
यामद्वयं पचेदाज्ये वस्त्रे बद्ध्वाथ मर्दयेत् ॥२९६॥

दिनैकं शाल्मलिद्रावैर् मर्दयित्वा वटीं कृताम् ।
वेष्टयेन्नागवल्ल्या च निःक्षिपेत् काचभाजने ॥२९७॥

भाजनं शाल्मलीद्रावैः पूर्णं यामद्वयं पचेत् ।
वालुकायंत्रमध्ये तु द्रवे जीर्णे समुद्धरेत् ॥२९८॥

द्विगुञ्जं भक्षयेत्प्रातर्नागवल्लीदलान्तरे ।
मुशलीं ससितां क्षीरैः पलैकं पाययेदनु ॥२९९॥

रसः पूर्णेन्दुनामायं सम्यग् वीर्यकरो भवेत् ।
कामिनीनां सहस्रैकं नरः कामयते ध्रुवम् ॥३००॥


कामिनीमदभञ्जनरसः

शुद्धं सूतं समं गन्धं त्र्यहं कह्लारजद्रवैः ।
मर्दितं वालुकायन्त्रे यामैः कूपीगतं पचेत् ॥३०१॥

रक्ताङ्गस्य द्रवैर्भाव्यं दिनैकं तु सितायुतम् ।
यथेष्टं भक्षयेच्चानु कामयेत्कामिनीशतम् ॥३०२॥


मदनोदयरस

शुद्धं सूतं समं गन्धं रक्तोत्पलदलद्रवैः ।
यामं मर्द्यं पुनर्गन्धं पूर्वाद् अर्धं विनिष्क्षिपेत् ॥३०३॥

दिनैकं मर्दयेत्तत्तु पुनर्गन्धं च मर्दयेत् ।
पूर्वद्रावैर्दिनैकं तु काचकुप्यां निरुध्य च ॥३०४॥

दिनैकं वालुकायन्त्रे पक्वम् उद्धृत्य भक्षयेत् ।
पञ्चगुञ्जा सिता सार्द्धं रसोऽयं मदनोदयः ॥३०५॥

समूलं वानरीबीजं मुशली शर्करासमम् ।
गवां क्षीरेण तत्पेयं पलार्द्धमनुपानकम् ॥३०६॥


अनङ्गसुन्दररसः

पलद्वयं द्वयं शुद्धं पारदं गन्धकं तथा ।
मृतहेम्नस्तु कर्षैकं पलैकं मृतताम्रकम् ॥३०७॥

मृततारं चतुर्निष्कं मर्द्यं पञ्चामृतैर्दिनम् ।
रुद्ध्वा तु वै पुटे पश्चाद्दिनैकं तु समुद्धरेत् ॥३०८॥

पिष्ट्वा पञ्चामृतैः कुर्याद्वटिकां बदराकृतिम् ।
अनङ्गसुन्दरो नाम परं पुष्टिप्रदायकः ॥३०९॥


कामेश्वररसः

सम्यङ्मारितमभ्रकं कट्फलं कुष्ठाश्वगन्धामृता मेथी मोचरसो विदारिमुशली गोक्षूरकं क्षूरकम् ।
रम्भाकन्दशतावरी ह्यजमुदा माषास्तिला धान्यकं यष्टी नागबला कचूरमदनं जातीफलं सैन्धवम् ॥३१०॥

भार्ङ्गी कर्कटशृङ्गिका त्रिकटुकं जीरद्वयं चित्रकं चातुर्जातपुनर्नवा गजकणा द्राक्षा शटी वासकम् ।
शाल्मल्यन्ध्रिफलत्रिकं कपिभवं बीजं समं चूर्णयेच्चूर्णांशा विजया सिता द्विगुणिता मध्वाज्ययोः पिण्डितम् ॥३११॥

कर्षार्द्धा गुटिकावलेहम् अथवा सेव्यं सदा सर्वथा पेयं क्षीरसिता तु वीर्यकरणं स्तम्भोऽप्ययं कामिनी ।
रामावश्यकरं सुखातिसुखदं प्रौढाङ्गनाद्रावकम् क्षीणे पुष्टिकरं क्षये क्षयहरं सर्वामयध्वंसनम् ॥३१२॥

कासश्वासमहातिसारशमनं मन्दाग्निसंदीपनं धातोर्वृद्धिकरं रसायनवरं नास्त्यन्यदस्मात्परम् ।
अर्शांसि ग्रहणीप्रमेहनिचयश्लेष्मातिरक्तप्रणुन् नित्यानन्दकरं विशेषविदुषां वाचां विलासोद्भवम् ॥३१३॥

अभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरात् सर्वेषां हितकारको निगदितः श्रीवैद्यनाथेन यः ।
वृद्धानां मदनोदयोदयकरः प्रौढाङ्गनासङ्गमे सिंहोऽयं समदृष्टिः प्रत्ययकरो भूपैः सदा सेव्यताम् ॥३१४॥


अजीर्णकण्टकरसः

शुद्धं सूतं विषं गन्धं समचूर्णं विचूर्णयेत् ।
मरिचं सर्वतुल्यांशं कण्टकार्याः फलद्रवैः ॥३१५॥

मर्दयेद्भावयेत्सर्वानेकविंशतिवारकान् ।
वटीं गुञ्जात्रयां खादेत्सर्वाजीर्णप्रशान्तये ॥३१६॥


उदयभास्कररसः

गन्धकेन मृतं ताम्रं दशभागं समुद्धरेत् ।
ऊषणं पञ्चभागं स्यादमृतं च द्विभागकम् ॥३१७॥

श्लक्ष्णचूर्णीकृतं सर्वं रक्तिकैकप्रमाणतः ।
दातव्यं कुष्ठिने सम्यगनुपानस्य योगतः ॥३१८॥

गलिते स्फुटिते चैव विषूच्यां मण्डले तथा ।
विचर्चिकादद्रुपामाकुष्ठाष्टकप्रशान्तये ॥३१९॥


रौद्ररसः

शुद्धं सूतं समं गन्धं मर्द्यं यामचतुष्टयम् ।
नागवल्लीरसैर्युक्तं मेघनादपुनर्नवैः ॥३२०॥

गोमूत्रे पिप्पलीयुक्ते मर्द्यं रुद्ध्वा पुटेल्लघु ।
लिहेत्क्षौद्रे रसो रौद्रो गुञ्जामात्रोऽर्बुदं जयेत् ॥३२१॥


नित्योदितरसः

मृतसूतार्कलोहाभ्रविषगन्धं समं समम् ।
सर्वतुल्यांशभल्लातफलमेकत्र चूर्णयेत् ॥३२२॥

द्रवैः सूरणकन्दोत्थैः खल्वे मर्द्यं दिनत्रयम् ।
माषमात्रं लिहेदाज्ये रसश्चार्शांसि नाशयेत् ॥३२३॥

रसो नित्योदितो नाम्ना गुदोद्भवकुलान्तकः ।
हस्ते पादे मुखे नाभ्यां गुदवृषणयोस्तथा ॥३२४॥

शोथो हृत्पार्श्वशूलं च यस्यासाध्यार्शसां हितः ।
असाध्यस्यापि कर्तव्या चिकित्सा शङ्करोदिता ॥३२५॥


अर्शकुठाररसः

शुद्धसूतं पलैकं तु द्विपलं शुद्धगन्धकम् ।
मृतं ताम्रं मृतं लोहं प्रत्येकं तु पलत्रयम् ॥३२६॥

त्र्यूषणं लाङ्गली दन्ती पीलुकं चित्रकं तथा ।
प्रत्येकं द्विपलं योज्यं यवक्षारं च टङ्कणम् ॥३२७॥

उभौ पञ्चपलौ योज्यौ सैन्धवं पलपञ्चकम् ।
द्वाविंशत्पलगोमूत्रं स्नुहीक्षीरं च तत्समम् ॥३२८॥

मृद्वग्निना पचेत्सर्वं स्थाल्यां यावत्सुपिण्डितम् ।
माषद्वयं सदा खादेद्रसोऽप्यर्शःकुठारकः ॥३२९॥


विद्याधररसः

गन्धकं तालकं ताप्यं मृतं ताम्रं मनःशिला ।
शुद्धं सूतं च तुल्यांशं मर्दयेद्भावयेद्दिनम् ॥३३०॥

पिप्पल्याश्च कषायेण वज्रीक्षीरेण भावयेत् ।
वल्लं च भक्षयेत् क्षौद्रैः प्लीहगुल्मादिकं जयेत् ॥३३१॥

रसो विद्याधरो नाम गोदुग्धं च पिबेदनु ।

वङ्गेश्वररसः

भस्मसूतं भस्मवङ्गं भागैकैकं प्रकल्पयेत् ॥३३२॥

गन्धकं मृतताम्रं च प्रत्येकं च चतुर्गुणम् ।
अर्कक्षीरैर्दिनं मर्द्यं सर्वं तद्गोलकीकृतम् ॥३३३॥

रुद्ध्वा तद्भूधरे पाच्यं पुटैकेन समुद्धरेत् ।
एवं वङ्गेश्वरो नाम्ना प्लीहगुल्मोदरं जयेत् ॥३३४॥

घृतैर् गुञ्जाद्वयं लिह्यान्निष्कं श्वेतपुनर्नवाम् ।
गवां मूत्रैः पिबेच्चानु रजनी वा गवां जलैः ॥३३५॥


उदरारिरसः

पारदं शिखितुत्थं च जैपालं पिप्पलीसमम् ।
आरग्वधफलान्मज्जा वज्रीदुग्धेन मर्दयेत् ॥३३६॥

माषमात्रां वटीं खादेद्धरेत्स्त्रीणां जलोदरम् ।
चिञ्चाफलरसं चानु पथ्यं दध्योदनं हितम् ।
जलोदरहरं चैव तीव्रेण रेचनेन तु ॥३३७॥


जलोदरारिरसः

पिप्पलीमरिचं ताम्रं काञ्चनीचूर्णसंयुतम् ॥३३८॥

स्नुहीक्षीरैर्दिनं मर्द्यं तुत्थं जैपालबीजकम् ।
निष्कं खादेद् विरेकं स्यात् सद्यो हन्ति जलोदरम् ॥३३९॥

रेचनानां च सर्वेषां दध्यन्नं स्तम्भनं हितम् ।
दिनान्ते च प्रदातव्यमन्नं वा मुद्गयूषकम् ॥३४०॥


नाराचरसः

सूतटङ्कणतुल्यांशं मरिचं सूततुल्यकम् ।
गन्धकं पिप्पली शुण्ठी द्वौ द्वौ भागौ विचूर्णयेत् ॥३४१॥

सर्वतुल्यं क्षिपेद्दन्तीबीजानि निस्तुषाणि च ।
द्विगुञ्जं रेचने सिद्धं नाराचोऽयं महारसः ।
गुल्मप्लीहोदरं हन्ति पिबेत्तमुष्णवारिणा ॥३४२॥


इच्छाभेदीरसः

शुण्ठीमरिचसंयुक्तं रसगन्धकटङ्कणम् ।
जैपालस्त्रिगुणः प्रोक्तः सर्वमेकत्र चूर्णयेत् ॥३४३॥

इच्छाभेदी द्विगुञ्जः स्यात्सितया सह दापयेत् ।
पिबेच्च चुल्लिकान् यावत् तावद्वारान्विरेचयेत् ॥३४४॥

तक्रौदनं प्रदातव्यमिच्छाभेदी यथेच्छया ।
दोषाः कदाचित्कुप्यन्ति जिता लङ्घनपाचनैः ॥३४५॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-10-12T09:41:29.1870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

water equivalent

  • Heat सममूल्य जल 
RANDOM WORD

Did you know?

जन्मानंतर पाचवी पूजनाचे महत्व काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.