TransLiteral Foundation

रसमञ्जरी - अध्याय १

शालिनाथ कृत ‘रसमञ्जरी’ ग्रंथात रसविद्या संबंधित वेगवेगळ्या क्रिया सविस्तर वर्णिल्या आहेत.


अध्याय १
यद्गण्डमण्डलगलन्मधुवारि बिन्दुः पानालसाति निभृतां ललितालिमाला ।
यद्गुञ्जितेन विनिहन्ति नवेन्द्रनील शङ्कां स वो गणपतिः शिवमातनोतु ॥१॥

इन्दीवरी भवति यच्च चरणारविन्दद्वन्द्वे पुरन्दरपुरःसरदेवतानाम् ।
वन्दारुता कलयतां सुकिरीटकोटिः श्री शारदा भवतु सा भवपारदाय ॥२॥

हे भस्माङ्गविरक्तिरूपगुणदं तं प्रेरणादं शिवं गङ्गाभूषितशेखरं स्मरहरं शक्तिस्वरूपं प्रभो ।
त्वामीशं करुणार्णवं शरणदं विद्यानिधिं निर्गुणं सूतेन्द्रं गिरिजापतिं शशिधरं माङ्गल्यदेवं नमः ।
श्रीवैद्यनाथतनयः सुनयः सुशीलः श्रीशालिनाथ इति विश्रुतनामधेयः ।
तेनावलोक्य विधिवद् विविधप्रबन्धान् आरम्भते सुकृतिना रसमञ्जरीयम् ॥३॥

सन्मधुव्रतं वृन्दानां सततं चित्तहारिणी ।
अनेकरसपूर्णेयं क्रियते रसमञ्जरी ॥४॥

हरति सकलरोगान्मूर्छितो यो नराणां वितरति किल बद्धः खेचरत्वं जवेन ।
सकलसुरमुनीन्द्रैर् वन्दितं शम्भुबीजं स जयति भवसिन्धुः पारदः पारदोऽयम् ॥५॥

शुष्केन्धनमहाराशिं यद्वद्दहति पावकः ।
तद्वद्दहति सूतोऽयं रोगान् दोषत्रयोद्भवान् ॥६॥

तेजो मृगाङ्कमौले सोढुं यन्नैव तेजसां पुञ्जैः ।
अजरामरतां वितरति कल्पतरुं च रसेश्वरं वन्दे ॥७॥

यो न वेत्ति कृपाराशिं रसहरिहरात्मकम् ।
वृथा चिकित्सां कुरुते स वैद्यो हास्यतां व्रजेत् ॥८॥

गुरुसेवां विना कर्म यः कुर्यान्मूढचेतसः ।
स याति निष्फलत्वं हि स्वप्नलब्धधनं यथा ॥९॥

विद्यां गृहीतुमिच्छन्ति चौर्यच्छद्मबलादिना ।
न तेषां सिध्यते किंचिन्मणिमन्त्रौषधादिकम् ॥१०॥

मन्त्रसिद्धो महावीरो निश्चलः शिववत्सलः ।
देवीभक्तः सदा धीरो देवतायागतत्परः ॥११॥

सर्वशास्त्रार्थतत्त्वज्ञः कुशलो रसकर्मणि ।
एतल्लक्षणसंयुक्तो रसविद्यागुरुर्भवेत् ॥१२॥

शिष्यो निजगुरोर्भक्तः सत्यवक्ता दृढव्रतः ।
निरालस्यः स्वधर्मज्ञो देव्याराधनतत्परः ॥१३॥


पारदनामानि
शिवबीजं सूतराजः पारदश्च रसेन्द्रकः ।
एतानि रसनामानि तथान्यानि शिवे यथा ॥१४॥

अन्तःसुनीलो बहिरुज्ज्वलो वा मध्याह्णसूर्यप्रतिमप्रकाशः ।
शस्तोऽथ धूम्रः परिपाण्डुरश्च चित्रो न योज्यो रसकर्मसिद्धये ॥१५॥

दोषमुक्तो यदा सूतस्तदा मृत्युरुजापहः ।
साक्षादमृतम् एवैष दोषयुक्तो रसो विषम् ॥१६॥


पारददोषाः
नागो वङ्गोऽग्निचापल्यम् असह्यत्वं विषं गिरिः ।
मला ह्येते च विज्ञेया दोषाः पारदसंस्थिताः ॥१७॥

जाड्यं कुष्ठं महादाहं वीर्यनाशं च मूर्च्छनाम् ।
मृत्युं स्फोटं रोगपुञ्जं कुर्वन्त्येते क्रमान्नृणाम् ॥१८॥


पारदशोधन
अथातः सम्प्रवक्ष्यामि पारदस्य च शोधनम् ।
रसो ग्राह्यः सुनक्षत्रे पलानां शतमात्रकम् ॥१९॥

पञ्चाशत् पञ्चविंशद्वा दश पञ्चैकमेव वा ।
पलाद् ऊनं न कर्तव्यं रससंस्कारमुत्तमम् ॥२०॥


पारदशोधन (१)
पलत्रयं चित्रकसर्षपाणां कुमारीकन्याबृहतीकषायैः ।
दिनत्रयं मर्दितसूतकस्तु विमुच्यते पञ्चमलादिदोषैः ॥२१॥


पारदशोधन (२)
इष्टिकारजनीचूर्णैः षोडशांशं रसस्य च ।
मर्दयेत्तं तथा खल्वे जम्बीरोत्थद्रवैर्दिनम् ॥२२॥


सामान्यदोषशोधनम्
काञ्जिकैः क्षालयेत्सूतं नागदोषं विमुञ्चति ।
विशालाङ्कोलचूर्णेन वङ्गदोषं विमुञ्चति ॥२३॥

राजवृक्षो मलं हन्ति पावको हन्ति पावकम् ।
चापल्यं कृष्णधत्तूरस् त्रिफला विषनाशिनी ॥२४॥

कटुत्रयं गिरिं हन्ति असह्यत्वं त्रिकण्टकः ।
प्रतिदोषं पलांशेन तत्र सूतं सकाञ्जिकम् ॥२५॥

सर्वदोषविनिर्मुक्तः सप्तकञ्चुकवर्जितः ।
जायते शुद्धसूतोऽयं योजयेत् सर्वकर्मसु ॥२६॥


पारदशोधनम् (२)
सुवस्त्रगालितं खल्वे सूतं क्षिप्त्वा विमर्दयेत् ।
उद्धृत्य चारनालेन मृद्भाण्डे क्षालयेत् सुधीः ॥२७॥

रसस्य दशमांशं तु गन्धं दत्त्वा विमर्दयेत् ।
जम्बीरोत्थद्रवैर् यामं पात्यं पातनयन्त्रके ॥२८॥

पुनर् मर्द्यं पुनः पात्यं सप्तवारं विशुद्धये ।
युक्तं सर्वस्य सूतस्य तप्तखल्वे विमर्दनम् ॥२९॥


तप्तखल्व
अजाशकृत्तुषाग्निं तु भूगर्भे त्रितयं क्षिपेत् ।
तस्योपरिस्थितं खल्वं तप्तखल्वमिदं स्मृतम् ॥३०॥


पारदशोधनम्
कुमार्याश्च निशाचूर्णैर् दिनं सूतं विमर्दयेत् ।
पातयेत्पातनायन्त्रे सम्यक् शुद्धो भवेद्रसः ॥३१॥


पारदशोधन
श्रीखण्डदेवदारुश्च काकतुण्डी जयाद्रवैः ।
कर्कोटीमुसलीकन्याद्रवं दत्त्वा विमर्दयेत् ॥३२॥

दिनैकं मर्दयेत्पश्चाच्छुद्धं च विनियोजयेत् ।

पारदशोधन
अथवा हिङ्गुलात् सूतं ग्राहयेत् तन्निगद्यते ॥३३॥

जम्बीरनिम्बुनीरेण मर्दितं हिङ्गुलं दिनम् ।
ऊर्ध्वपातनयन्त्रेण ग्राह्यः स्यान्निर्मलो रसः ॥३४॥

कञ्चुकैर्नागवङ्गाद्यैर् निर्मुक्तो रसकर्मणि ।
विना कर्माष्टकेनैव सूतोऽयं सर्वकर्मकृत् ॥३५॥

सर्वसिद्धमतम् एतद् ईरितं सूतशुद्धिकरम् अद्भुतं परम् ।
अल्पकर्मविधिभूरिसिद्धिदं देहलोहकरणे हि शस्यते ॥३६॥

संस्कारहीनं खलु सूतराजं यः सेवते तस्य करोति बाधाम् ।
देहस्य नाशं विविधं च कुष्ठं कष्टं च रोगाञ्जनयेन्नराणाम् ॥३७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:58.1900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

arbitrary figure

  • पु. स्वेच्छांक 
RANDOM WORD

Did you know?

नमस्कार कोणी कोणास कसा करावा ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site