रसमञ्जरी - अध्याय ७

शालिनाथ कृत ‘रसमञ्जरी ’ ग्रंथात रसविद्या संबंधित वेगवेगळ्या क्रिया सविस्तर वर्णिल्या आहेत .


प्रणम्य निर्भयं नाथं खेन्द्रदेवं जगत्पतिम् ।
दिगम्बरं त्रिनेत्रं च जरामृत्युविनाशनम् ॥१॥

अमृतं च विषं चैव शिवेनोक्तं रसायनम् ।
अमृतं विधिसंयुक्तं विधिहीनं तु तद्विषम् ॥२॥

रेचनान्ते इदं सेव्यं सर्वदोषापनुत्तये ।
मृताभ्रं भक्षयेदादौ मासमेकं विचक्षणः ॥३॥

पश्चात्तु योजयेद् देहे क्षेत्रीकरणमिच्छतः ।
यत्क्षेत्रीकरणे सूतस्त्वमृतोऽपि विषं भवेत् ॥४॥

फलसिद्धिः कुतस्तस्य सुबीजस्योषरे यथा ।
न क्षेत्रकरणाद्देवि किंचित् कुर्याद्रसायनम् ।
कर्तव्यं क्षेत्रकरणं सर्वस्मिंश्च रसायने ॥५॥

भस्मसूतं द्विधा गन्धं क्षणं कन्याविमर्दितम् ।
रुद्ध्वा लघुपुटे पच्याद् उद्धृत्य मधुसर्पिषा ॥६॥

निष्कं खादेज्जरामृत्युं हन्ति गन्धामृतो रसः ।
समूलं भृङ्गराजं तु छायाशुष्कं विचूर्णयेत् ॥७॥

तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ।
पलैकं भक्षयेच्चानु तच्च मृत्युरुजापहम् ॥८॥

हेमसुन्दररसः

मृतसूतस्य पादांशं हेमभस्म प्रकल्पयेत् ॥९॥

क्षीराज्यं मधुना युक्तं माषैकं कांस्यपात्रके ।
लेहयेन्मासषट्कं तु जरामृत्युविनाशनम् ॥१०॥

वाकुचीचूर्णकर्षैकं धात्रीरसपरिप्लुतम् ।
अनुपानं लिहेन्नित्यं स्याद्रसो हेमसुन्दरः ॥११॥

मृतसंजीवनी गुटीका

शुद्धसूतं वज्रभस्म सत्त्वमभ्रकताप्ययोः ।
कान्तलोहसमं हेम जम्बीरे मर्दयेद् दृढम् ॥१२॥

सप्ताहं सर्वतुल्यांशं गोलं कृत्वा समुद्धरेत् ।
गोजिह्वावायसीवन्ध्यानिर्गुण्डीमधुसैन्धवैः ॥१३॥

लेपयेद्वज्रमूषान्ते गोलकं तत्र निक्षिपेत् ।
तत्कल्कैश्छादितं कृत्वा पक्षैकं भूधरे पचेत् ॥१४॥

यामं यामं समुद्धृत्य लिप्त्वामूषां पुनः पुनः ।
रुद्ध्वाथ पूर्ववत्पाच्यमेनं पक्षात्समुद्धरेत् ॥१५॥

यवचिञ्चापलाशाख्यराजीकार्पासतण्डुलैः ।
एतैः प्रलेपयेन्मूषां गुटिकां तत्र निक्षिपेत् ॥१६॥

टङ्कणं श्वेतकाचं च दत्त्वा यामे दृढं दृढम् ।
खदिराङ्गारयोगेन द्रुतो ऽयं जायते रसः ॥१७॥

मूषायां बिडयोगेन समं हेम च जारयेत् ।
ततस्त्रियामकैर्मर्द्यं सगोमूत्रं दिनैकतः ॥१८॥

अन्धमूषागतो ध्मातो बद्धो भवति वज्रवत् ।
मृतसंजीवनी नाम गुटिका वक्रमध्यगा ॥१९॥

कर्षमात्रा जरां मृत्युं हन्ति सत्यं शिवोदितम् ।
शस्त्रस्तम्भं च कुरुते ब्रह्मायुर्भवते नरः ॥२०॥

वीर्यरोधिनीगुटिका

नागवल्लीदलद्रावैः सप्ताहं शुद्धसूतकम् ।
मर्दयेत् क्षालयेद् अम्लैश्चतुर्निष्कप्रमाणकम् ॥२१॥

विषकन्दगतं कृत्वा विषेणैव निरोधयेत् ।
ततः शूकरमांसस्य गर्भे कृत्वाथ सिञ्चयेत् ॥२२॥

संध्याकाले बलिं दत्त्वा कुक्कुटीवारुणीयुतम् ।
ततश्चुल्ल्यां लोहपात्रे तैले धत्तूरसंयुते ॥२३॥

क्षिप्त्वा त्रिंशत्पले पाच्यं तद्रसं मांसपिण्डकम् ।
संध्याम् आरभ्य मन्दाग्नौ यावत्सूर्योदयं पचेत् ॥२४॥

हठाज्जागरणं कुर्यादन्यथा तन्नसिद्धिभाक् ।
प्रातरुद्धृत्य गुटिकां क्षीरभाण्डे विनिक्षिपेत् ॥२५॥

तत्क्षीरं शुष्यति क्षिप्रमेतत्प्रत्ययकारकम् ।
रतिकाले मुखे धार्या गुटिका वीर्यरोधिनी ॥२६॥

क्षीरं पीत्वा रमेद्रामां कामाकुलकुलान्विताम् ।
स्वमुखाद्धारयेद्धस्ते तदा वीर्यं विमुञ्चति ॥२७॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP