TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसमञ्जरी - अध्याय ९

शालिनाथ कृत ‘रसमञ्जरी ’ ग्रंथात रसविद्या संबंधित वेगवेगळ्या क्रिया सविस्तर वर्णिल्या आहेत .


अध्याय ९

कर्पूरं टङ्कणं सूतं तुल्यं मुनिरसं मधु ।
मर्दयित्वा लिपेल्लिङ्गं स्थित्वा यामं तथैव च ॥१॥

ततः प्रक्षालयेल्लिङ्गं रमेद्रामां यथोचिताम् ।
वीर्यस्तम्भकरं पुंसां सम्यङ् नागार्जुनोदितम् ॥२॥

कृकलासस्य पुच्छाग्रं मुद्रिका प्रोततन्तुभिः ।
वेष्ट्या कनिष्ठिका धार्या नरो वीर्यं न मुञ्चति ॥३॥

मधुना पद्मबीजानि पिष्ट्वा नाभिं प्रलेपयेत् ।
यावत्तिष्ठत्यसौ लेपस्तावद्वीर्यं न मुञ्चति ॥४॥

चटकाण्डं तु संग्राह्य नवनीतेन पेषयेत् ।
तेन प्रलेपयेत् पादौ शुक्रस्तम्भः प्रजायते ।
यावन्न स्पृशते भूमिं तावद्वीर्यं न मुञ्चति ॥५॥

वनक्रोडस्य दंष्ट्राग्रं दक्षिणं च समाहरेत् ।
कट्यामुपरि यद् बद्ध्वा शुक्रस्तम्भः प्रजायते ॥६॥

डुण्डुभो नामतः सर्पः कृष्णवर्णस्तमाहरेत् ॥७॥

तस्यास्थि धारयेत् कट्यां नरो वीर्यं न मुञ्चति ।
विमुञ्चति विमुक्तेन सिद्धयोग उदाहृतः ॥८॥

रक्तापामार्गमूलं तु सोमवाराभिमन्त्रितम् ।
भौमे प्रातः समुद्धृत्य कट्यां बद्ध्वा न वीर्यमुक् ॥९॥

खसपलं शुण्ठीक्वाथः षोडशांशेन गुडेन निशि पीतः ।
कुरुते रतौ न पुंसो रेतः पतनं विनाम्लेन ॥१०॥

सूरणं तुलसीमूलं ताम्बूलेन तु भक्षयेत् ।
न मुञ्चति नरो वीर्यमेकैकेन न संशयः ॥११॥

वराहवसया लिङ्गं मधुना सह लेपयेत् ।
स्थूलं दृढं च दीर्घं च पुंसो लिङ्गं प्रजायते ॥१२॥

क्षौद्रेण च समं पृष्टं पुण्डरीकस्य केशरम् ।
ध्वस्तं कुर्यात्ततो मेढ्रं रत्यन्यत्राप्यसंशयः ॥१३॥

अनुराधासुनक्षत्रे लाङ्गलीमूलिका ध्रुवम् ।
निखाता मैथुनस्थाने पुंसत्त्वखण्डकारिणी ॥१४॥

निशा षट्तिन्दुचूर्णेन भावितेनाजवारिणा ।
पानाशनं प्रयुक्तेन षण्ढत्वं जायते नृणाम् ॥१५॥

तिलगोक्षुरयोश्चूर्णं छागीदुग्धेन पाचितम् ।
शीतलं मधुना युक्तं भुक्तं षण्ढत्वनाशनम् ॥१६॥

ऊर्णनाभिस्तु यो जीवो मधुना सह लेपयेत् ।
तेन लेपयतो नाभिं बद्धषण्ढ्यं विमुच्यते ॥१७॥

एक एव महाद्रावी मालतीसम्भवो रसः ।
किं पुनर्यदि युज्यते मधुकर्पूरपारदैः ॥१८॥

आर्द्रकं गन्धकं चैव राजिकं चाथ टङ्कणम् ।
सम्पिष्टा सममात्राणि क्षेपयेन्निम्बुजे जले ॥१९॥

स्थापयेद्घटिकां तिस्रो हस्ते वा धारयेत्ततः ।
यावन्त्यो ललनाः पञ्च आजिघ्रन्ति द्रवन्ति वै ॥२०॥

चूर्णिते मधुसंयुक्ते महारिष्टफलछदैः ।
लिङ्गलेपेन सुरते द्रवो भवति योषिताम् ॥२१॥

मधुसैन्धवसंयुक्तं पारावतमलान्वितम् ।
एतल्लिप्तेन्द्रियो रामां दासीवत् कुरुते रतौ ॥२२॥

कपीन्द्रियं शशी सूतं कुङ्कुमं कनकं मधु ।
एतल्लिप्तेन्द्रियो रामां दासीवत् कुरुते रतौ ॥२३॥

वृत्तमध्यस्थितं नाम तद्बाह्ये ह्रीं चतुष्टयम् ।
तद्बहिः क्लीं चतुष्कं च लिखित्वा शिलयाखिलम् ॥२४॥

शुभनक्षत्रसंयोगे स्थापितं मधुनि ध्रुवम् ।
स्त्रियम् आकर्षति क्षिप्रं यन्त्रमेतन्न संशयः ॥२५॥

चन्दनं तगरं कुष्ठं प्रियङ्गुं नागकेशरम् ।
कृष्णां तिन्तिडिकं चैव समभागानि कारयेत् ॥२६॥

दापयेच्चैव सप्ताहमात्मपञ्चमलेन तु ।
खाने पाने प्रदातव्यं स्त्रियं वा पुरुषं तथा ॥२७॥

शंखपुष्पी मधुपुष्पी तथा कुञ्चिकिपत्रिका ।
श्वेतगिरिसमायुक्ता समभागानि कारयेत् ॥२८॥

सप्ताहं दापयेद्युक्ता ह्यात्मपञ्चमलेन च ।
खाने पाने प्रदातव्यं वशीकरणमुत्तमम् ॥२९॥

पूर्वोक्तमन्त्रेण सप्तभिःकृत्वा मन्त्रितदापयेत् ।
गर्दभस्य रजो गृह्य लुलितं गात्रसम्भवम् ।
मृतकस्य तथा भस्म नारीरजःसमन्वितम् ॥३०॥

एकीकृत्य क्षिपेद्रात्रौ शय्यायामासनेऽपि वा ।
नूनं संजायते द्वेषः कथितो मालतीमते ॥३१॥

अन्यद् योगवरं वक्ष्ये विद्वेषकरणं परम् ।
युध्यमानावुभौ श्वानौ परस्परविरोधिनौ ॥३२॥

तयोर् धूलिं समादाय हन्यते योषितां रतिः ।
सत्यं भवति विद्वेषं नात्र कार्या विचारणा ॥३३॥

प्रक्षालने भगे नित्यं कृते चामलवल्कलैः ।
वृद्धापि कामिनी कामं बालेव कुरुते रतिम् ॥३४॥

सपद्मबीजं सितया भक्षितं पद्मवारिणा ।
दृढं स्त्रीणां स्तनद्वन्द्वं मासेन कुरुते भृशम् ॥३५॥

मुण्डीचूर्णकषायेण युतं तैलं विपाचितम् ।
पतितं यौवनं यस्यास्तस्याः स्तनोन्नतिर्भवेत् ॥३६॥

हरितालचूर्णकलिका लेपात् तेनैव वारिणा सद्यः ।
निपतन्ति केशनिचयाः कौतुकमिदम् अद्भुतं कुरुते ॥३७॥

पलाशचिञ्चातिलमाषशंखं दहेदपामार्गसपिप्पलोऽपि ।
मनःशिलातालकचूर्णलेपात् करोति निर्लोमशिरः क्षणात् ॥३८॥

तण्डुलीयकमूलानि पिष्ट्वा तण्डुलवारिणा ।
ऋत्वन्ते त्र्यहपीतानि वन्ध्यां कुर्वन्ति योषितम् ॥३९॥

काञ्जिकेन जपापुष्पं पिष्ट्वा पिबति याङ्गना ।
ऋतौ त्र्यहं निपीतानि वन्ध्यां कुर्वन्ति योषितम् ॥४०॥

धूपिते योनिरन्ध्रे तु निम्बकाष्ठेन युक्तितः ।
ऋत्वन्ते रमते सा स्त्री गर्भदुःखविवर्जिता ॥४१॥

धत्तूरं मल्लिकापुष्पं गृहीत्वा कटिसंस्थितम् ।
गर्भं निवारयत्येव रण्डावेश्यादियोषिताम् ॥४२॥

नागकेशरपुष्पाणां चूर्णं गोसर्पिषा सह ।
सेवनाल्लभते पुत्रमृतौ दुग्धान्नभोजिनी ॥४३॥

बीजानि मातुलुङ्गस्य दुग्धस्विन्ना ससर्पिषा ।
सगर्भामिति कुर्वन्ति पानाद्वन्ध्यामपि स्त्रियम् ॥४४॥

मातुलुङ्गस्य बीजानि कुमार्या सह पेषयेत् ।
क्षीरेण सह दातव्यं गर्भमाप्नोत्यसंशयम् ॥४५॥

पिप्पली शृङ्गवेरं च मरिचं केशरं तथा ।
घृतेन सह पातव्यं वन्ध्यागर्भप्रदं परम् ॥४६॥

पुष्योद्धृतं लक्ष्मणाया मूलं पिष्टं च कन्यका ।
ऋत्वन्ते घृतदुग्धाभ्यां पीत्वा गर्भमवाप्नुयात् ॥४७॥

अन्यद् योगवरं वक्ष्ये येन सा सफला भवेत् ।
उशीरमधुयष्टी च लोध्रमिन्द्रयवानपि ॥४८॥

घृतं सर्जरसं चैव माक्षिकं त्रायमाणकम् ।
शोभाञ्जनकमूलानि समभागानि कारयेत् ॥४९॥

पेषयित्वा ततो द्रव्यमजाक्षीरेण पाचयेत् ।
सप्तरात्रं पिबेन्नारी यावत्तिष्ठति शोणितम् ॥५०॥

ततो योनौ विशुद्धायां पश्चाद्दद्यान्महौषधम् ।
कुमारीक्षीरसंयुक्तं नस्ये पाने प्रदापयेत् ॥५१॥

तेन सा लभते पुत्रं सत्यं चैव सुरार्चितम् ।
लशुनं क्षीरसंयुक्तं नस्ये पाने प्रदापयेत् ॥५२॥

अश्वगन्धाकृतं चूर्णमजाक्षीरेण दापयेत् ।
यवक्षारं विडङ्गं च गुडूची च हरेणुका ॥५३॥

सर्वाणि समभागानि कृत्वा च वरचूर्णितान् ।
एतत्पीत्वा लभेत् पुत्रं सा नारी नात्र संशयः ॥५४॥

हिङ्गुं च शतवीर्या च दाडिमं सैन्धवं तथा ।
त्रिकटुः शतपुष्पा च नागपुष्पं शतावरी ॥५५॥

मधुकं सुमना चैव कार्षकाणि प्रदापयेत् ।
क्षीरेण सह दातव्या नार्याश्च पुरुषस्य च ॥५६॥

दिनत्रयं तु भुञ्जीत शालितण्डुलदुग्धकम् ।
भुक्तं तु लभते गर्भं नारीणां नात्र संशयः ॥५७॥

अर्कमूलं प्रियङ्गुं च कुसुम्भं नागकेशरम् ।
बला चातिबला छागीक्षीरं पीतं दिनत्रयम् ॥५८॥

विशोधयन्ति योनिं च ततो दद्यान्महौषधम् ।
उत्पलं तगरं कुष्ठं यष्टीमधु सचन्दनम् ॥५९॥

अजाक्षीरेण पिष्टानि दापयेत् पञ्चवासरम् ।
लक्ष्मणागोपयोयुक्ता तस्यै पाने प्रदापयेत् ॥६०॥

तेन सा लभते पुत्रं लक्षणाढ्यं सुपण्डितम् ।
गते रक्ते भगे शुद्धे सक्षीरा लक्ष्मणा तथा ॥६१॥

नस्ये पाने प्रदातव्या लभते सुतमङ्गना ।
श्वेतार्कक्षुद्रणीश्वेता श्वेता च गिरिकर्णिका ॥६२॥

लक्ष्मणा वन्ध्यकर्कोटी देयं गोक्षीरसंयुतम् ।
नस्ये पाने कृते गर्भं लभते रतिसंगमात् ॥६३॥

पतन्तं स्तम्भयेद् गर्भं कुलालकरमृत्तिका ।
मधुच्छागीपयः पीत्वा किंवा श्वेताद्रिकर्णिका ॥६४॥

ललना शर्करा पाठा कन्दश्च मधुनान्वितः ।
भक्षितो वारयत्येव पतन्तं गर्भसंस्थितम् ॥६५॥

समभागं सितायुक्तं शालितण्डुलचूर्णकम् ।
उदुम्बरशिफाक्वाथे पीतं गर्भं सुरक्षति ॥६६॥

मातुलुङ्गस्य मूलानि मधुकं मधुसंयुतम् ।
घृतेन सह पातव्यं सुखं नारी प्रसूयते ॥६७॥

तुषाम्बुपरिघृष्टेन कन्देन परिलेपयेत् ।
लाङ्गल्याश्चरणौ सूतिं क्षिप्रमाप्नोति गर्भिणी ॥६८॥

यासां पुष्पागमो नास्ति ऋतुकाले च योषिताम् ।
तासां कुर्याच्चिकित्सेयं पुनः पुष्पागमो भवेत् ॥६९॥

पिप्पलीं च यवक्षारं विडङ्गं मन्मथफलम् ।
तिक्तं तु तुम्बिनीबीजं गुटिकां कारयेद्भिषक् ॥७०॥

मुण्डी च क्षीरसंयुक्ता योनिद्वारेऽङ्गना शुभा ।
त्रिपञ्चसप्तरात्रेण पुष्पं भवति नान्यथा ॥७१॥

बालतन्त्रं प्रवक्ष्यामि समासाद् रावणोदितम् ।
पूजाद्रव्यं दिशो भागं मन्त्रं तद्ग्राह्यलक्षणम् ॥७२॥

प्रथमे दिवसे मासे वर्षे गृह्णाति बालकम् ।
मन्दानाम्नी समाख्याता योगिणी तस्य लक्षणम् ॥७३॥

द्वितीये दिवसे मासे वर्षे गृह्णाति बालकम् ।
सुनन्दा योगिनी नाम प्रथमं जायते ज्वरः ॥७४॥

संकोचो हस्तपादानामक्षिरोगोऽतिछर्दनम् ।
सभयत्वं कृशत्वं च तद्ग्रस्त इति लक्षणम् ॥७५॥

तृतीये दिवसे मासे वर्षे गृह्णाति बालकम् ।
पूतना योगिनी नाम गात्रभङ्गो ज्वरोऽरुचिः ॥७६॥

प्रलापं कन्धराशोथच्छर्दिरित्यादिलक्षणम् ।
अपराह्ने च वारुण्यां पञ्चरात्रं बलिं क्षिपेत् ॥७७॥

चतुर्थे दिवसे मासे वर्षे गृह्णाति बालकम् ।
बिडाली नाम तद्ग्रस्ते चक्षुःशूलं ज्वरोऽरुचिः ॥७८॥

गात्रमाटेनम् इत्यादि विवर्णेन बलिं क्षिपेत् ।
पञ्चमे दिवसे मासे वर्षे गृह्णाति बालकम् ॥७९॥

नर्तकीति समाख्याता योगिनी तस्य लक्षणम् ।
अथ षष्ठदिने मासे वर्षे गृह्णाति बालकम् ॥८०॥

योगिनी शकुनी नाम कासश्वासोऽरुचिर्ज्वरः ।
हस्तपादादिसंकोचश् चक्षुःपीडेति लक्षणम् ॥८१॥

पञ्चरात्रं बलिं तस्यै वारुण्यां दिशि निक्षिपेत् ।
सप्तमे दिवसे मासे वर्षे शुष्काशिवा शिशुम् ॥८२॥

गृह्णाति रोदनं कम्पो ज्वरशोषादिलक्षणम् ।
पश्चिमायां दिशि पञ्च बलौ दत्ते शिशुः सुखी ॥८३॥

अष्टमे दिवसे मासे वर्षे गृह्णाति जृम्भका ।
तया गृहीतमात्रस्य प्रथमं जायते ज्वरः ॥८४॥

शिरःपीडाक्षिरोगश्च चक्षुरुत्पाटचेष्टितम् ।
दक्षिणां दिशिम् आश्रित्य बलिं तस्यै प्रदापयेत् ॥८५॥

नवमे दिवसे मासे वर्षे गृह्णाति बालकम् ।
अचिन्ता योगिनी नाम गात्रभङ्गः शिरोऽक्षिरुक् ॥८६॥

छर्दिः प्रलाप इत्यादि तद्गृहीतस्य लक्षणम् ।
उत्तरां दिशिम् आश्रित्य बलिं तस्यै प्रदापयेत् ॥८७॥

दशमे दिवसे मासे वर्षे गृह्णाति बालकम् ।
नाम्ना कापालिका ख्याता योगिनी तस्य लक्षणम् ॥८८॥

रोदनं कम्पनं छर्दिर्ज्वरो दुर्बलताक्षिरुक् ।
पूर्वां दिशं समाश्रित्य पञ्चरात्रं बलिं क्षिपेत् ॥८९॥

एकादशे दिने मासे वर्षे गृह्णाति लिप्सिता ।
गात्रकम्पो ज्वरस्तीव्रस्तद्गृहीतस्य लक्षणम् ॥९०॥

भानुसंख्ये दिने मासे वर्षे गृह्णाति बालकम् ।
पीतली योगिनी नाम रोदनं वेदना ज्वरः ॥९१॥

निद्रा क्षीणस्वरः पीतो वमनाहारशून्यता ।
उत्तरां दिशिमाश्रित्य सप्तरात्रं बलिं क्षिपेत् ॥९२॥

कामसंख्ये दिने मासे वर्षे गृह्णति बालकम् ।
भद्रकाली ज्वरो नाम वामहस्तस्य कम्पम् ॥९३॥

वेदनारुचिनिःश्वासाः कायः पीतो विचेष्टितम् ।
पूर्वां दिशः समाश्रित्य बलिं तस्यै प्रदापयेत् ॥९४॥

पुरन्दरदिने मासे वर्षे गृह्णाति बालकम् ।
तारा हि योगिनी नाम ज्वरः शोषोऽरुचिर्भृशम् ॥९५॥

चक्षुःपीडेङ्गितं तस्यै पश्चिमे बलिमाहरेत् ।
पक्षे च दिवसे मासे वर्षे गृह्णाति बालकम् ॥९६॥

योगिनी शर्वरी नाम श्वासः कासोऽरुचिर्ज्वरः ।
तद्ग्रस्ते चिह्नम् इत्यादि दक्षिणस्यां बलिं क्षिपेत् ॥९७॥

विकारदिवसे मासे वर्षे गृह्णति योगिनी ।
कुमारी नयनोद्वेगो ज्वरशोषादिचेष्टितम् ॥९८॥

नैरृतीं दिशिमाश्रित्य सप्तरात्रं बलिं क्षिपेत् ।
बालं च स्नपयेत्पश्चाच्छान्तितोयेन मन्त्रवित् ॥९९॥

नदीतीरद्वयाकृष्टमृदा देवीस्वरूपकम् ।
कृत्वा पूजा च कर्तव्या भूपपुष्पाक्षतादिभिः ॥१००॥

वटका लड्डुकापूपा अग्रभक्तं गुडं दधि ।
चातुर्वर्ण्यपताकाश्च प्रदीप्ताः पुष्पचन्दनम् ॥१०१॥

पूजयेत्सर्वरोगाणामपराह्ने यथाबलि ।
सर्वत्र नामभेदेन बलिदानं प्रजायते ॥१०२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:00.6430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हिरमोड होणे .

  • ना. धैर्य खचणे , निराश होणे , मनोभंग होणे , विरस होणे . 
RANDOM WORD

Did you know?

गणपतीची सोंड कोणत्या दिशेला वळली आहे, यावरून पूजाअर्चेचे कांही धर्मशास्त्र आहे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.