TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसमञ्जरी - अध्याय ४

शालिनाथ कृत ‘रसमञ्जरी ’ ग्रंथात रसविद्या संबंधित वेगवेगळ्या क्रिया सविस्तर वर्णिल्या आहेत .


अध्याय ४

१८ विषानि

अष्टादशविधं ज्ञेयं कन्दजं परिकीर्तितम् ।
कालकूटं मयूराख्यं बिन्दुकं सक्तुकं तथा ॥१॥

वालुकं वत्सनाभं च शङ्खनाभं सुमङ्गलम् ।
शृङ्गीं मर्कटकं मुस्तं कर्दमं पुष्करं शिखी ॥२॥

हारिद्रं हरितं चक्रं विषं हालाहलाह्वयम् ।
घनं रूक्षं च कठिनं भिन्नाञ्जनसमप्रभम् ॥३॥

कन्दाकारं समाख्यातं कालकूटं महाविषम् ।
मयूराभं मयूराख्यं बिन्दुवद् बिन्दुकः स्मृतः ॥४॥

चित्रम् उत्पलकन्दाभं शक्तुकं शक्तुवद् भवेत् ।
वालुकं वालुकाकारं वत्सनाभं तु पाण्डुरम् ॥५॥

शंखनाभं शंखवर्णं शुभ्रवर्णं सुमङ्गलम् ।
घनं गुरुं च निविडं शृङ्गाकारं तु शृङ्गिकम् ॥६॥

मर्कटं कपिवर्णाभं मुस्ताकारं तु मुस्तकम् ।
कर्दमं कर्दमाकारं सितं पीतं च कर्दमम् ॥७॥

पुष्करं पुष्कराकारं शिखि शिखिशिखाप्रभम् ।
हारिद्रकं हरिद्राभं हरितं हरितं स्मृतम् ॥८॥

चक्राकारं भवेच्चक्रं नीलवर्णं हलाहलम् ।
ब्राह्मणः पाण्डुरस्तत्र क्षत्रियो रक्तवर्णकः ॥९॥

वैश्यः पीतप्रभः शूद्रः कृष्णाभो निन्दितः स्मृतः ।
ब्राह्मणो दीयते रोगे क्षत्रियो विषभक्षणे ।
वैश्यो व्याधिषु सर्वेषु सर्पदष्टाय शूद्रकम् ॥१०॥

विषमारण

समटङ्कणकं पिष्टं तद्विषं मृतमुच्यते ।
योजयेत् सर्वरोगेषु न विकारं करोति हि ॥११॥

विषशोधन (?)

विषभागांश्च कणवत् स्थूलान् कृत्वा तु भाजने ।
ततः गोमूत्रकं क्षिप्त्वा प्रत्यहं नित्यनूतनम् ॥१२॥

शोषयेत् त्रिदिनादूर्ध्वं कृत्वा तीव्रातपे ततः ।
प्रयोगेषु प्रयुञ्जीत भागमानेन तद्विषम् ॥१३॥

विषसेवन

विषस्य मारणं प्रोक्तमथ सेवां प्रवच्म्यहम् ॥१४॥

शरद्ग्रीष्मवसन्तेषु वर्षासु च प्रदापयेत् ।
चातुर्मास्ये हरेद् रोगान् कुष्ठलूतादिकानपि ॥१५॥

प्रथमे सर्षपी मात्रा द्वितीये सर्षपद्वयम् ।
तृतीये च चतुर्थे च पञ्चमे दिवसे तथा ॥१६॥

षष्ठे च सप्तमे चैव क्रमवृद्ध्या विवर्धयेत् ।
सप्तसर्षपमात्रेण प्रथमं सप्तकं भवेत् ॥१७॥

क्रमहानिं तथा पक्षे द्वितीयं सप्तकं विषम् ।
यवमात्रं विषं देयं तृतीये सप्तके क्रमात् ॥१८॥

वृद्ध्यां हान्यां च दातव्यं चतुर्थसप्तके तथा ।
यवमात्रं ग्रसेत् स्वस्थो गुञ्जामात्रं तु कुष्ठवान् ॥१९॥

अशीतिर्यस्य वर्षाणि वसुवर्षाणि यस्य वा ।
विषं तस्मै न दातव्यं दत्तं चेद् दोषकारकम् ॥२०॥

ददेद्वै सर्वरोगेषु मृताशिनि हिताशिनि ।
क्षीराशनं प्रयोक्तव्यं रसायनरते नरे ॥२१॥

ब्रह्मचर्यं प्रधानं हि विषकल्पे तदाचरेत् ।
पथ्ये स्वस्थमना भूत्वातदा सिद्धिर्न संशयः ॥२२॥

मात्राधिकं यदा मर्त्यः प्रमादाद्भक्षयेद्विषम् ।
अष्टौ वेगास्तदा तस्य जायन्ते नात्र संशयः ॥२३॥

प्रथमे वेग उद्वेगो द्वितीये वेपथुर्भवेत् ।
तृतीये घोरदाहः स्याच्चतुर्थे पतनं भुवि ॥२४॥

फेनं तु पञ्चमे वेगे षष्ठे विकलता भवेत् ।
जडता सप्तमे वेगे मरणं चाष्टमे भवेत् ॥२५॥

विषवेगांश्च विज्ञाय मन्त्रतन्त्रैर् विनाशयेत् ।
साधकानां हितार्थाय सदाशिवमुखोद्गतः ॥२६॥

सर्वविषविनाशार्थं प्रोच्यते मन्त्र उत्तमः ॥२७॥

ओं नमो भगवते घोणेयन् हर हर दर दर पर पर तर तर बर बर वध वध वः वः लः लः रं रं लां लां लां हरलां हर हर भव सर रां रां क्षीं क्षीं हीं हीं भगवति श्रीघोणेयन् सं सं सं वर वर रसः ध वर वर खण्ड च रूप ह्रीं वर विहंगम मानुष योगक्षेमं वद शेषारे शेषारे षषः स्वाहा ॥२८॥

विद्यैषा स्मृतिमात्रेण नश्यन्ते गुत्थकादयः ।
सप्त जप्तेन तोयेन प्रोक्षयेत् कालचोदितम् ॥२९॥

उत्तिष्ठति सवेगेन शिखाबन्धेन धारयेत् ।
त्रिमन्त्रितेन शंखेन दुन्दुभिर् वादयेद् यदि ॥३०॥

देशान्तरे शरीरेऽपि निर्विषं कुरुते क्षणात् ।
विषं दृष्ट्वा यदा मन्त्री मन्त्रमावर्तयेत्सकृत् ।
दृष्ट्वा निर्विषतां याति अपि मारशतानि च ॥३१॥

गोघृतपानाद्धरते विविधं गरलं च वन्ध्यकर्कोटी ।
सकलविषदोषशमनी त्रिशूलिका सुरभिजिह्वा च ॥३२॥

विषमारण

तुत्थेन टङ्कणेनैव म्रियते पेषणाद्विषम् ।
अतिमात्रं तदा भुङ्क्ते तदाज्यं टङ्कणं पिबेत् ॥३३॥

न दातव्यं न भोक्तव्यं विषं वादे कदाचन ।
आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारणम् ॥३४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:59.6600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

खुरगुटणें

  • अ.क्रि. १ खुजट होणें ; वाढ खुरटी होणें ; खुरटणें . २ खुरडत चालणें ; ढुंगणावर सरपटणें . ( खुरगुटी ) 
RANDOM WORD

Did you know?

भावाला राखी बांधण्यामागील धार्मिक अथवा भावनिक महत्व काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site