TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसमञ्जरी - अध्याय ५

शालिनाथ कृत ‘रसमञ्जरी ’ ग्रंथात रसविद्या संबंधित वेगवेगळ्या क्रिया सविस्तर वर्णिल्या आहेत .


अध्याय ५

हेमादिलोहकिट्टान्तं शोधनं मारणं गुणम् ।
वक्ष्ये सप्रत्ययं योगं यथागुरुमुखोदितम् ॥१॥

धातु (metals) : शोधन

तैले तक्रे गवां मूत्रे क्वाथे कौलत्थकाञ्जिके ।
तप्तं तप्तं निषेचेत्तु तत्तद्द्रावे तु सप्तधा ॥२॥

स्वर्णादिलोहपर्यन्तं शुद्धिर्भवति निश्चितम् ।
शोधनं मारणं चैव कथ्यते च मयाधुना ॥३॥

स्वर्ण शोधन

मृत्तिकामातुलुङ्गाम्लैः पञ्चवासरभाविता ।
सभस्मलवणं हेम शोधयेत् पुटपाकतः ॥४॥

स्वर्णभस्म

शुद्धसूतसमं हेम खल्वे कुर्याच्च गोलकम् ।
अधोर्ध्वं गन्धकं दत्त्वा सर्वं तुल्यं निरुध्य च ॥५॥

त्रिंशद्वनोपलैर्देयं पुटान्येवं चतुर्दश ।
निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥६॥

स्वर्णभस्म

कृत्वा कण्टकवेध्यानि स्वर्णपत्राणि लेपयेत् ।
लुङ्गाम्बुभस्मसूतेन म्रियते दशभिः पुटैः ॥७॥

स्वर्णभस्म

रसस्य भस्मना वाथ रसैर्वा लेपयेद्दलम् ।
हिङ्गुहिङ्गुलसिन्दूरैः शिलासाम्येन लेपयेत् ॥८॥

संमर्द्य काञ्चनद्रावैर्दिनं कृत्वाथ गोलकम् ।
तं भाण्डस्य तले धृत्वा भस्मना पूरयेद्दृढम् ॥९॥

अग्निं प्रज्वालयेद्गाढं द्विनिशं स्वाङ्गशीतलम् ।
उद्धृत्य सावशेषं च पुनर्देयं पुटत्रयम् ॥१०॥

अनेन विधिना स्वर्णं निरुत्थं जायतेऽमितम् ।
एतद्रसायनं बल्यं वृष्यं शीतं क्षयादिहृत् ॥११॥

स्वर्णभस्म

गलितस्य सुवर्णस्य षोडशांशेन सीसकम् ।
योजयित्वा समुद्धृत्य निम्बुनीरेण मर्दयेत् ॥१२॥

तद्गोलकसमं गन्धं चूर्णं दद्यादधोपरि ।
शरावसम्पुटे धृत्वा पुटेद्विंशद्वनोपलैः ॥१३॥

एवं मुनिपुटैर्हेम नोत्थानं लभते पुनः ।

स्वर्णभस्म

माक्षिकं नागचूर्णं च पिष्टमर्करसे पुनः ॥१४॥

हेमपत्रं च तेनैव म्रियते क्षणमात्रतः ।

स्वर्ण गुणा :

कषायतिक्तमधुरं सुवर्णं गुरु लेखनम् ॥१५॥

वृष्यं रसायनं बल्यं चक्षुष्यं कान्तिदं शुचि ।
आयुर्मेदोवयःस्थैर्यवाग्विशुद्धिस्मृतिप्रदम् ॥१६॥

क्षयोन्मादगदार्तानां शमनं परमुच्यते ।

रजतशोधनम्

भागेन क्षारराजेन द्रावितं शुद्धिमिच्छता ॥१७॥

रजतभस्म

तारपत्रं चतुर्भागं भागैकं शुद्धतालकम् ।
मर्द्यं जम्बीरजैर्द्रावैस्तारपत्राणि लेपयेत् ॥१८॥

रुद्ध्वा त्रिभिः पुटैः पाच्यं पञ्चविंशद्वनोपलैः ।
म्रियते नात्र सन्देहो गन्धो देयः पुनः पुनः ॥१९॥

रजतभस्म

स्वर्णमाक्षिकगन्धस्य समं भागं तु कारयेत् ।
अर्कक्षीरेण सम्पिष्टं तारपत्रं प्रलिप्य च ॥२०॥

पुटेन जारयेत्तारं मृतं भवति निश्चितम् ।

रजत : मारण (३ )

विधाय पिष्टिं सूतेन रजतस्याथ मेलयेत् ॥२१॥

तालं गन्धं समं पश्चान्मर्दयेन्निम्बुकद्रवैः ।
द्वित्रैः पुटैः भवेद्भस्म योज्यमेव रसादिषु ॥२२॥

रजतस्य आयुष्य गुणा :

शीतं कषायं मधुरमम्लं वातप्रकोपजित् ।
दीपनं बलकृत् स्निग्धं गाढाजीर्णविनाशनम् ।
आयुष्यं दीर्घरोगघ्नं रजतं लेखनं परम् ॥२३॥

ताम्र

न विषं विषमित्याहुस्ताम्रं तु विषमुच्यते ।

ताम्र ८ दोषस्

एको दोषो विषे ताम्रे त्वष्टौ दोषाः प्रकीर्तिताः ॥२४॥

भ्रमो मूर्च्छा विदाहश्च स्वेदक्लेदनवान्तयः ।
अरुचिश्चित्तसन्ताप एते दोषा विषोपमाः ॥२५॥

तस्माद्विशुद्धं संग्राह्यं ताम्रं रोगप्रशान्तये ।

ताम्रे शोधन

लवणैर् वज्रदुग्धेन ताम्रपत्रं विलेपयेत् ॥२६॥

अग्नौ संताप्य निर्गुण्डीरसैः सिक्तं च सप्तधा ।
स्नुह्यर्कस्वरसेऽप्येवं शुल्बशुद्धिर्भविष्यति ॥२७॥

ताम्रे शोधन

गोमूत्रेण पचेद्यामं ताम्रपत्रं दृढाग्निना ।
शुध्यते नात्र सन्देहो मारणं वाप्यथोच्यते ॥२८॥

ताम्रभस्म

सूतमेकं द्विधा गन्धं यामं कन्यां विमर्दयेत् ।
द्वयोस्तुल्यं ताम्रपत्रं स्थाल्या गर्भं निरोधयेत् ॥२९॥

सम्यङ् मृल्लवणैः सार्द्धं पार्श्वे भस्म निधाय च ।
चतुर्यामं पचेच्चुल्ल्यां पात्रपृष्ठे सगोमये ॥३०॥

जलं पुनः पुनर्देयं स्वाङ्गशीतं विचूर्णयेत् ।
म्रियते नात्र सन्देहः सर्वयोगेषु योजयेत् ॥३१॥

ताम्रभस्म

चतुर्थांशेन सूतेन ताम्रपत्राणि लेपयेत् ।
अम्लपिष्टं द्विगुणितमधोर्ध्वं दापयेद् बलिम् ॥३२॥

चाङ्गेरीकल्कगर्भे तद्भाण्डे यामं पचेद्दृढम् ।
भस्मीभूतं ताम्रपत्रं सर्वयोगेषु योजयेत् ॥३३॥

ताम्रभस्म

जम्बीररससम्पिष्टं रसगन्धकलेपितम् ।
शुल्बपत्रं शरावस्थं त्रिपुटैर्याति पञ्चताम् ॥३४॥

ताम्रभस्मगुणाः

ताम्रं तिक्ताम्लमधुरं कषायं शीतलं परम् ॥३५॥

कफपित्तक्षयं धातुकुष्ठघ्नं च रसायनम् ।
नाशयेच्छूलम् अर्शांसि वृक्षमिन्द्राशनिर्यथा ॥३६॥

राजरीति -, घोषशोधन , -मारण

राजरीतिस्तथा घोषं ताम्रवन्मारयेत् पृथक् ।
ताम्रवच्छोधनं तेषां ताम्रवद् गुणकारकम् ॥३७॥

नागवङ्गशोधनम्

नागवङ्गौ च गलितौ रविदुग्धेन सेचयेत् ।
त्रिवारं शुद्धिमायाति सच्छिद्रे हण्डिकान्तरे ॥३८॥

नाग (Lead) मारण (१ )

त्रिभिः कुम्भपुटैर्नागो वासास्वरसमर्दितः ।
सा शिला भस्मतामेति तद्रजः सर्वमेहहृत् ॥३९॥

नागभस्म

भूभुजङ्गम् अगस्तिं च पिष्ट्वा पात्रं विलेपयेत् ।
तद्रसं विद्रुते नागे वासापामार्गसम्भवम् ॥४०॥

क्षारं विमिश्रयेत्तत्र चतुर्थांशं गुरूक्तितः ।
प्रहरं पाचयेच्चुल्ल्यां वासादर्व्या च घट्टिता ॥४१॥

तत उद्धृत्य तच्चूर्णं वासानीरे विमर्दयेत् ।
पुटेत् पुनः समुद्धृत्य तेनैव परिमर्दयेत् ॥४२॥

एवं सप्त पुटं नागं सिन्दूरं जायते ध्रुवम् ।

नागभस्मगुणाः

तारस्थो रञ्जनो नागो वातपित्तकफापहः ॥४३॥

ग्रहणीकुष्ठमेहार्शःप्राणशोषविषापहः ।

वङ्गं (tin) मारण (१ )

आभीरं शोधयेदादौ द्रावयेद्धण्डिकान्तरे ॥४४॥

अपामार्गचतुर्थांशं चूर्णितं मेलयेत्ततः ।
स्थूलाग्रया लोहदर्व्या शनैस्तद् अवचालयेत् ॥४५॥

यावद्भस्मत्वमायाति तावन्मर्द्यं च पूर्ववत् ।
तत एकीकृतं सर्वं भवेदङ्गारवर्णकम् ॥४६॥

नूतनेन शरावेण रोधयेदन्तरे भिषक् ।
पश्चात्तीव्राग्निना पक्वं वङ्गभस्म भवेद्ध्रुवम् ॥४७॥

वङ्गं (tin) मारण (२ )

वङ्गं सतालमर्कस्य पिष्ट्वा दुग्धेन तं पुटेत् ।
शुष्काश्वत्थभवैर्वल्कैः सप्तधा भस्मतां व्रजेत् ॥४८॥

वङ्गभस्मगुणाः

वङ्गं तिक्तोष्णकं रूक्षमीषद्वातप्रकोपनम् ।
मेहश्लेष्मामयघ्नं च कृमिघ्नं मोहनाशनम् ॥४९॥

लोह अद्रि

त्रिफलादष्टगुणे तोये त्रिफला षोडशं पलम् ।
तत्क्वाथे पादशेषे तु लोहस्य पलपञ्चकम् ॥५०॥

कृत्वा पत्राणि तप्तानि सप्तवारं निषेचयेत् ।
एवं प्रलीयते दोषो गिरिजो लोहसम्भवः ॥५१॥

लोहभस्म

शुद्धस्य सूतराजस्य भागो भागद्वयं बलेः ।
द्वयोः समं सारचूर्णं मर्दयेत् कन्यकाम्बुना ॥५२॥

यामद्वयं ततो गोलं स्थापयेत्ताम्रभाजने ।
आच्छाद्यैरण्डजैः पत्रैरुष्णो यामद्वयं भवेत् ॥५३॥

त्रिदिनं धान्यराशिस्थं तं ततो मर्दयेद् दृढम् ।
रजस्तद्वस्त्रगलितं नीरे तरति हंसवत् ॥५४॥

तीक्ष्णं मुण्डं कान्तलोहं निरुत्थं जायते मृतम् ।
त्रिफलामधुसंयुक्तम् एतत्सेव्यं रसायनम् ॥५५॥

लोहभस्म

द्वादशांशेन दरदं तीक्ष्णचूर्णस्य मेलयेत् ।
कन्यानीरेण संमर्द्य यामयुग्मं तु तत्पुटेत् ।
पुटेदेवं लोहचूर्णं सप्तधा मरणं व्रजेत् ॥५६॥

लोहभस्म

काकोदुम्बरिकानीरे लोहपत्राणि सेचयेत् ।
तप्ततप्तानि षड्वारं कुट्टयेत्तद् उदूखले ॥५७॥

तत्पञ्चमांशं दरदं क्षिप्त्वा सर्वं विमर्दयेत् ।
कुमारीनीरतस् तीक्ष्णं पुटे गजपुटे तथा ॥५८॥

त्रिवारं त्रिफलाक्वाथैस्तत्संख्याकैरतन्द्रितः ।
एवं चतुर्दशपुटैर्लोहं वारितरं भवेत् ॥५९॥

लोहभस्म

तिन्दूफलस्य मज्जायां खड्गं लिप्त्वातपे खरे ।
धारयेत् कांस्यपात्रेण दिनैकेन पुटत्यलम् ॥६०॥

लेपं पुनः पुनः कुर्याद् दिनान्ते तत्प्रपेषयेत् ।
त्रिफलाक्वाथसंयुक्तं दिनैकेन मृतिर्भवेत् ॥६१॥

लोहभस्म

लोहं पत्रमतीव तप्तमसकृत्क्वाथे क्षिपेत्त्रैफले चूर्णीभूतमतो भवेत् त्रिफलजे क्वाथे पचेत् गोजले ।
मत्स्याक्षीत्रिफलारसेन पुटयेद्यावन्निरुत्थं भवेत् पश्चादाज्यमधुप्लुतं सुपुटितं भस्म भवेद् आयसम् ॥६२॥

लोह : वारितर स्थित्या : परीक्षणम्

सर्वमेतन्मृतं लोहं ध्मातव्यं मृतपञ्चके ।
यद्येव स्यान्निरुत्थानं सत्यं वारितरं भवेत् ॥६३॥

लोहनिरुत्थभस्म

गन्धकं तुत्थकं लोहं तुल्यं खल्वे विमर्दयेत् ।
दिनैकं कन्यकाद्रावै रुद्ध्वा गजपुटे पचेत् ।
इत्येवं सर्वलोहानां कर्तव्येत्थं निरुत्थितिः ॥६४॥

लोहभस्मगुणाः

कृष्णायसोऽथ शूलार्शःकुष्ठपाण्डुत्वमेहनुत् ।
वयःस्थं गुरु चक्षुष्यं सरं मेदोगदापहम् ॥६५॥

आयुःप्रदाता बलवीर्यकर्ता रोगस्य हर्ता मदनस्य कर्ता ।
अयःसमानं नहि किंचिद् अन्यद् रसायनं श्रेष्ठतमं हि जन्तो ॥६६॥

कूष्माण्डं तिलतैलं च माषान्नं राजकं तथा ।
मद्यमम्लरसं चैव त्यजेल्लोहस्य सेवकः ॥६७॥

मुण्ड

ये गुणा मारिते मुण्डे ते गुणा मुण्डकिट्टके ।
तस्मात् सर्वत्र मण्डूरं रोगशान्त्यै नियोजयेत् ॥६८॥

शतोत्थमुत्तमं किट्टं मध्यमाशीतिवार्षिकम् ।
अधमं षष्टिवर्षीयं ततो हीनं विषोपमम् ॥६९॥

दग्धाक्षकाष्ठैर् मलम् आयसं तु गोमूत्रनिर्वापितमष्टवारान् ।
विचूर्ण्य लीढं मधुनाचिरेण नृणां क्षयं पाण्डुगदं निहन्ति ॥७०॥

किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शताधिकम् ।
तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात् कुरुते गुणम् ॥७१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:59.8700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

bred

  • प्रजात, प्रजनित 
RANDOM WORD

Did you know?

कुंभमेळ्याबद्दल माहिती द्या? नजिकचा कुंभमेळा कोठे आहे ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.