TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसमञ्जरी - अध्याय २

शालिनाथ कृत ‘रसमञ्जरी’ ग्रंथात रसविद्या संबंधित वेगवेगळ्या क्रिया सविस्तर वर्णिल्या आहेत.


अध्याय २
अथातः सम्प्रवक्ष्यामि रसजारणमुत्तमम् ।
अथाजीर्णम् अबीजं च सूतकं यस्तु घातयेत् ॥१॥

ब्रह्महा स दुराचारी मम द्रोही महेश्वरि ।
तस्मात्सर्वप्रयत्नेन जारितं मारयेद्रसम् ॥२॥


पारदबलिजारणं
प्रक्षिप्य तोयं मृत्कुण्डे तस्योपरि शरावकम् ।
संचूर्णमेखलायुक्तं स्थापयेत्तस्य चान्तरे ॥३॥

रसं क्षिप्त्वा गन्धकस्य रजस्तस्योपरि क्षिपेत् ।
समं भागं ततो दद्याच्छरावेण पिधापयेत् ॥४॥

लघ्वीयसीं भस्ममुद्रां ततः कुर्याद् भिषग्वरः ।
आरण्योपलकैः सम्यक् चतुर्भिः पुटमाचरेत् ॥५॥

एवं पुनः पुनर् गन्धं दत्त्वा दत्त्वा भिषग्वरः ।
सम्यक् कुर्वीत सूतस्य देवि षड्गुणजारणम् ॥६॥


पारदसुवर्णजारणं
रसः स्यात् पटुशिग्रुतुत्थैः सराजिकैर्व्योषणकैस् त्रिरात्रम् ।
पिष्टस्ततः स्विन्नतनु सुवर्णमुख्यानयं खादति सर्वधातून् ॥७॥


पारदजारण
अथवा बिडयोगेन शिखिपित्तेन लेपितम् ।
चरेत् सुवर्णं रसराट् तप्तखल्वे यथासुखम् ॥८॥

निर्दग्धशंखचूर्णं च रविक्षीरेण संप्लुतम् ।
पुटितं शतशो देवि प्रशस्तं जारणं विदुः ॥९॥

स्वर्णाभ्रसर्वलोहानि यथेष्टानि च जारयेत् ।
अनेकविधिना सूतं चतुःषष्ट्यंशकादिना ।
द्वात्रिंशत् षोडशांशेन जारयेत् कनकं बुधः ॥१०॥


रसमारणं
द्विपलं शुद्धसूतं च सूतार्धं शुद्धगन्धकम् ।
कन्यानीरेण संमर्द्य दिनमेकं निरन्तरम् ॥११॥

रुद्ध्वा तद्भूधरे यन्त्रे दिनैकं मारयेत् पुटान् ।

रसमारण (२)
भुजङ्गवल्लीनीरेण मर्दितं पारदं दृढम् ॥१२॥

कर्कोटीकन्दमृन्मूषासम्पुटस्थं पुटे गजे ।
भस्म तद्योगवाहि स्यात्सर्वकर्मसु योजयेत् ॥१३॥


रसमारण (३)
श्वेताङ्कोलजटावारि मर्द्यः सूतो दिनत्रयम् ।
पुटितश्चान्धमूषायां सूतो भस्मत्वमाप्नुयात् ॥१४॥

प्रत्यहं रक्तिकापञ्च भक्षयेन्मधु सर्पिषा ।
को वा तस्य गुणान् वक्तुं भुवि शक्नोति मानवः ॥१५॥


रससिन्दूरनिर्माण (१)
पलमत्र रसं शुद्धं तावन्मात्रं सुगन्धकम् ।
विधिवत् कज्जलीं कृत्वा न्यग्रोधाङ्कुरवारिभिः ॥१६॥

भावनात्रितयं दत्त्वा स्थालीमध्ये निधापयेत् ।
विरच्य कवचीयन्त्रं वालुकाभिः प्रपूरयेत् ॥१७॥

जायते रससिन्दूरं तरुणारुणसन्निभम् ।
अनुपानविशेषेण करोति विविधान् गुणान् ॥१८॥


रससिन्दूर (२)
गन्धकेन समः सूतो निर्गुण्डीरसमर्दितः ।
पाचितो वालुकायन्त्रे रक्तं भस्म प्रजायते ॥१९॥


रससिन्दूर
सूतार्द्धं गन्धकं शुद्धं माक्षिकोद्भूतसत्त्वकम् ।
गन्धतुल्यं विमर्द्याथ दिनं निर्गुण्डिकाद्रवैः ॥२०॥

स्थापयेद्वालुकायन्त्रे काचकूप्यां विपाचयेत् ।
अन्धमूषागतं वाथ वालुकायन्त्रके दिनम् ॥२१॥

पक्वं संजायते भस्म दाडिमीकुसुमोपमम् ।

रससिन्दूर
पृथक् समं समं कृत्वा पारदं गन्धकं तथा ॥२२॥

नवसारं धूमसारं स्फटिकीं याममात्रके ।
निम्बुनीरेण संमर्द्य काचकुप्यां विपाचयेत् ॥२३॥

मुखे पाषाणवटिकां दत्त्वा मुद्रां प्रलेपयेत् ।
सप्तभिर् मृत्तिकावस्त्रैः पृथक् संशोष्य वेष्टयेत् ॥२४॥

सच्छिद्रायां मृदः स्थाल्यां कूपिकां संनिवेशयेत् ।
पूरयेत् सिकतापुरैर् आ गलं मतिमान् भिषक् ॥२५॥

निवेश्य चुल्ल्यां दहनं मन्दमध्यखरं क्रमात् ।
प्रज्वाल्य द्वादशं यामं स्वाङ्गशीतलम् उद्धरेत् ॥२६॥

स्फोटयित्वा पुनः स्थालीमूर्ध्वगं गन्धकं त्यजेत् ।
अधस्थं रससिन्दूरं सर्वकर्मसु योजयेत् ॥२७॥


रससिन्दूर
गन्धकं धूम [... औ१ Zएइछेन्झ्] रं च शुद्धसूतं समं समम् ।
यामैकं मर्दयेत्खल्वे काचकुप्यां निवेशयेत् ॥२८॥

रुद्ध्वा द्वादशयामं तु वालुकायन्त्रगं पचेत् ।
स्फोटयेत् स्वाङ्गशीतं तमूर्ध्वलग्नं तु तं त्यजेत् ।
अधस्थं मृतसूतं च सर्वयोगेषु योजयेत् ॥२९॥


रससिन्दूर
भागौ रसस्य त्रय एव भागा गन्धस्य भागं पवनासनस्य ।
संमर्द्य गाढं सकलं सुभाण्डे तां कज्जलीं काचकृते विदध्यात् ॥३०॥

संवेष्ट्य मृत्कर्पटकैः स्वयं तां मुखे सुचूर्णां खटिकां च कृत्वा ।
क्रमाग्निना त्रीणि दिनानि पक्त्वा तां वालुकायन्त्रगतां ततः स्यात् ॥३१॥

बन्धूकपुष्पारुणम् ईशजस्य भस्म प्रयोज्यं सकलामयेषु ।
निजानुपानैर् मरणं जरां च निहन्ति वल्लक्रमसेवनेन ॥३२॥


रससिन्दूर
पक्वमूषागतं सूतं गन्धकं चाधरोत्तरम् ।
तुल्यं सुचूर्णितं कृत्वा काकमाचीद्रवं पुनः ॥३३॥

द्वाभ्यां चतुर्गुणं देयं द्रवं मूषां निरुध्य च ।
पाचयेद् वालुकायन्त्रे क्रमवृद्धाग्निना दिनम् ।
आरक्तं जायते भस्म सर्वयोगेषु योजयेत् ॥३४॥


रससिन्दूर
अश्वगन्धादिवर्गेण रसं स्वेद्यं प्रयत्नतः ।
रसतुल्यं गन्धकं च मर्दयेत् कुशलो भिषक् ॥३५॥

पाचयेद्रससिन्दूरं जायतेऽरुणसन्निभम् ।
श्रेष्ठं सर्वरसानां हि पुष्टिकामबलप्रदम् ॥३६॥

इदमेवायुषो वृद्धिं कर्तुं नान्यदलं भवेत् ।
विनापि स्वर्णराजेन मुनिभिः परिकीर्तितम् ॥३७॥


रसकर्पूर
टङ्कणं मधु लाक्षाथ ऊर्णा गुञ्जायुतो रसः ।
मर्दयेद् भृङ्गजैर्द्रावैर्दिनैकं वा धमेत् पुनः ॥३८॥

ध्मातो भस्मत्वमायाति शुद्धः कर्पूरसन्निभः ।

रसकर्पूर
खटीष्टिगैरिकावल्मीमृत्तिका सैन्धवं समम् ॥३९॥

भागद्वयमितो गन्धो रसभागद्वयं स्मृतम् ।
हण्डिकायां विनिःक्षिप्य पार्श्वे पार्श्वे च खर्पटान् ॥४०॥

दग्ध्वाथ हण्डिकां दत्त्वा द्विरष्टप्रहरं पचेत् ।
मृतसूतं तु गृह्णीयाच्छुद्धः कर्पूरसन्निभम् ॥४१॥

कल्कादिवेष्टितं कृत्वा निर्गिलेद् उपदंशके ।

रसकर्पूर
पिष्टं पांशुपटुप्रगाढममलं वज्र्यम्बुनानेकशः सूतं धातुयुतं खटीकवलितं तं सम्पुटे रोधयेत् ।
अन्तःस्थं लवणस्य तस्य च तले प्रज्वाल्य वह्णिं हठात् भस्म ग्राह्यमथेन्दुकुन्दधवलं भस्मोपरिस्थं शनैः ॥४२॥

तद्वल्लद्वितयं लवङ्गसहितं प्रातः प्रभुक्तं नृणाम् ऊर्ध्वं रेचयति द्वियाममसकृत्पेयं जलं शीतलम् ।
एतद्धन्ति च वत्सरावधि विषं षाण्मासिकं मासिकं शैलोत्थं गरलं मृगेन्द्रकुटिलोद्भूतं च तात्कालिकम् ॥४३॥


रसमूर्छन
मेघनादवचाहिङ्गुलशुनैर् मर्दयेद् रसम् ।
नष्टपिष्टं तु तद्गोलं हिङ्गुना वेष्टयेद्बहिः ॥४४॥

पचेल्लवणयन्त्रस्थं दिनैकं चण्डवह्णिना ।
ऊर्ध्वलग्नं समादाय दृढं वस्त्रेण वेष्टयेत् ॥४५॥

ऊर्ध्वाधो गन्धकं तुल्यं दत्त्वा सौम्यानले पचेत् ।
जीर्णे गन्धे पुनर्देयं षड्भिर् वारैः समं समम् ॥४६॥

षड्गुणे गन्धके जीर्णे मूर्छितो रोगहा भवेत् ।

रसमूर्छन
लोहपात्रेऽथवा ताम्रे पलैकं शुद्धगन्धकम् ॥४७॥

मृद्वग्निना द्रुते तस्मिञ्छुद्धं सूतपलत्रयम् ।
क्षिप्त्वाथ चालयेत् किंचिल्लोहदर्व्या पुनः पुनः ॥४८॥

गोमयं कदलीपत्रं तस्योपरि च ढालयेत् ।
इत्येवं गन्धबद्धं च सर्वरोगेषु योजयेत् ॥४९॥

मारितो देहसिद्ध्यर्थं मूर्छितो व्याधिघातने ।
रसभस्म क्वचिद्रोगे देहार्थं मूर्छितं क्वचित् ।
बद्धो द्वाभ्यां प्रयुञ्जीत शास्त्रदृष्टेन कर्मणा ॥५०॥


बद्धपारदलक्षणानि
अक्षयी च लघुर्द्रावी तेजस्वी निर्मलो गुरुः ।
स्फुटनं पुनरावृत्तिर्बद्धसूतस्य लक्षणम् ॥५१॥


मूर्छितपारदलक्षणानि
कज्जलाभो यदा सूतो विहाय घनचापलम् ।
दृश्यतेऽसौ तदा ज्ञेयो मूर्छितः सुतरां बुधैः ॥५२॥


मृतपारदलक्षणानि
आर्द्रत्वं च घनत्वं च चापल्यं गुरुतैजसम् ।
यस्यैतानि न दृश्यन्ते तं विद्यान्मृतसूतकम् ॥५३॥


निर्बीजबद्धपारदः
रसस्तु पादांशसुवर्णजीर्णः पिष्टीकृतो गन्धकयोगतश्च ।
तुल्यांशगन्धैः पुटितं क्रमेण निर्बीजनामाखिलरोगहन्ता ॥५४॥


सबीजबद्धपारदः
बीजीकृतैर् अभ्रकसत्त्वहेमतारार्ककान्तैः सह साधितोऽयम् ।
पुनस्ततः षड्गुणगन्धचूर्णैः सबीजबद्धो ऽप्यधिकप्रभावः ॥५५॥

रसवीर्यविपाकेषु विद्यात्सूतं सुधामयम् ।
सेवितोऽसौ सदा देहे रोगनाशाय कल्पते ॥५६॥


ककाराष्टक
कूष्माण्डं कर्कटीं चैव कलिङ्गं कारवेल्लकम् ।
कुसुम्भिकं च कर्कोटीं कदलीं काकमाचिकाम् ॥५७॥

ककाराष्टकमेतद्धि वर्जयेद्रसभक्षकः ।
हितं मुद्गाम्बुदुग्धाज्यं शाल्यन्नं च विशेषतः ॥५८॥

शाकं पुनर्नवायास्तु मेघनादं च चिल्लिकाम् ।
सैन्धवं नागरं मुस्तं पद्ममूलानि भक्षयेत् ॥५९॥

अभ्यङ्गं मैथुनं स्नानं यथेष्टं च सुखाम्बुना ।
रूपयौवनसम्पन्नां सानुकूलां प्रियां भजेत् ॥६०॥

बुद्धिः प्रज्ञा बलं कान्तिः प्रभा चैवं वयस्तथा ।
वर्धन्ते सर्व एवैते रससेवाविधौ नृणाम् ॥६१॥

यस्य रोगस्य यो योगस्तेनैव सह योजयेत् ।
रसेन्द्रो हरते रोगान्नरकुञ्जरवाजिनाम् ॥६२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:59.1930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

शंकरपाळा

  • पुन . एक खाद्य पदार्थविशेष ; साखर अगर गूळ , तूप , कणिक यांचा तळीव गोड पदार्थ [ सं . शंखपाळ . तुल० फा . सक ( क्क ) र् ‍ - पारा ; म . साखरपारा ] 
RANDOM WORD

Did you know?

पिंपळाच्या झाडाला फक्त शनिवारीच स्पर्श का करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.