TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसमञ्जरी - अध्याय ३

शालिनाथ कृत ‘रसमञ्जरी ’ ग्रंथात रसविद्या संबंधित वेगवेगळ्या क्रिया सविस्तर वर्णिल्या आहेत .


अध्याय ३

उपरसाः

गन्धकं वज्रवैक्रान्तं गगनं तालकं शिलाम् ।
खर्परं शिखितुत्थं च विमला हेममाक्षिकम् ॥१॥

कासीसं कान्तपाषाणं वराटाञ्जनहिङ्गुलम् ।
कङ्कुष्ठं शंखभूनागं टङ्कणं तु शिलाजतु ॥२॥

एते उपरसाः प्रोक्ताः शोध्या द्राव्याश्च मारयेत् ।

गन्धक

तत्रादौ गन्धकोत्पत्तिं शोधनं त्वथ कथ्यते ॥३॥

श्वेतद्वीपे पुरा देव्याः क्रीडन्त्याः प्रसृतं रजः ।
क्षीरार्णवे तु स्नाताया दुकूलं रजसान्वितम् ॥४॥

धौतं यत् सलिले तस्मिन् गन्धवद्गन्धकं स्मृतम् ।
चतुर्धा गन्धकः प्रोक्तो रक्तपीतसितासितैः ॥५॥

रक्तो हेमक्रियासूक्तः पीतश्चैव रसायने ।
व्रणादिलेपने श्वेतः श्रेष्ठः कृष्णस्तु दुर्लभः ॥६॥

अशुद्धगन्धः कुरुतेऽतिकुष्ठं तापं भ्रमं पित्तरुजं करोति ।
रूपं सुखं वीर्यबलं निहन्ति तस्मात् सुशुद्धं विनियोजनीयम् ॥७॥

गन्धकशोधनम् (१ )

साज्यभाण्डे पयः क्षिप्त्वा मुखं वस्त्रेण बन्धयेत् ।
तत्पृष्ठे गन्धकं क्षिप्त्वा शरावेणावरोधयेत् ॥८॥

भाण्डं निक्षिप्य भूम्यां तदूर्ध्वं देयं पुटं लघु ।
ततः क्षीरेण गन्धं च शुद्धं योगेषु योजयेत् ॥९॥

गन्धकशोधनम् (२ )

गन्धकं शोधयेद् दुग्धे दोलायन्त्रेण तत्त्ववित् ।
तेन शुद्धो भवत्येष धातूणां प्राणमूर्छकः ॥१०॥

गन्धकशोधनम् (३ )

घृतयुक्तम् अयोदर्व्या गन्धं वह्णौ प्रगालयेत् ।
एकीभूतं ततो गन्धं दुग्धमध्ये परिक्षिपेत् ॥११॥

तेन शुद्धो भवेद्गन्धः सर्वयोगेषु योजयेत् ।
शोधितो रसराजः स्याज्जरामृत्युरुजापहः ।
अग्निसंदीपनं श्रेष्ठं वीर्यवृद्धिं करोति च ॥१२॥

गन्धकतैल

अर्कक्षीरैः स्नुहीक्षीरैर्वस्त्रं लेप्यं तु सप्तधा ।
गन्धकं नवनीतेन पिष्ट्वा वस्त्रं लिपेत्तु तत् ॥१३॥

तद्वर्तिर्ज्वलिता वंशैर्धृता धार्या त्वधोमुखी ॥१४॥

तैलं पतत्यधो भाण्डे ग्राह्यं योगेषु योजयेत् ।
अग्निसंदीपनं श्रेष्ठं वीर्यवृद्धिं करोति च ॥१५॥

हीरक

श्वेतपीता रक्तकृष्णा द्विजाद्या वज्रजातयः ।
पुंस्त्रीनपुंसकं चेति लक्षणेन तु लक्षयेत् ॥१६॥

वृत्ताः फलकसम्पूर्णास् तेजोवन्तो बृहत्तराः ।
पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥१७॥

रेखाबिन्दुसमायुक्ताः षट्कोणास्ताः स्त्रियः स्मृताः ।
त्रिकोणाः पत्रवद्दीर्घा विज्ञेयास्ते नपुंसकाः ॥१८॥

सर्वेषां पुरुषाः श्रेष्ठा वेधका रसबन्धकाः ।
स्त्रीवज्रं देहसिद्ध्यर्थं क्रामणं स्यान्नपुंसकम् ॥१९॥

विप्रो रसायने प्रोक्तः क्षत्रियो रोगनाशने ।
वादादौ वैश्यजातीयो वयःस्तम्भे तुरीयकः ॥२०॥

स्त्री तु स्त्रिये प्रदातव्या क्लीबे क्लीबं तथैव च ।
सर्वेषां सर्वदा योज्याः पुरुषा बलवत्तराः ॥२१॥

पाण्डुरोगं पार्श्वपीडां किलासं दाहसन्ततिम् ।
रोगानीकं गुरुत्वं च धत्ते वज्रम् अशोधितम् ॥२२॥

वज्रशोधनम् (१ )

व्याघ्रीकन्दगतं वज्रं दोलायन्त्रे विपाचितम् ।
सप्ताहं कोद्रवक्वाथे कौलत्थे विमलं भवेत् ॥२३॥

वज्रशोधनम् (२ )

व्याघ्रीकन्दगतं वज्रं मृदा लिप्तं पुटे पचेत् ।
अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् ।
वज्रीक्षीरेण वा सिञ्चेत् कुलिशं विमलं भवेत् ॥२४॥

वज्रमारणं (१ )

त्रिवर्षारूढकार्पासमूलम् आदाय पेषयेत् ।
त्रिवर्षनागवल्ल्याश्च द्रावेण तं प्रपेषयेत् ॥२५॥

तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् ।
एवं सप्तपुटं कृत्वा कुलिशं म्रियते ध्रुवम् ॥२६॥

वज्रमारण (२ )

कांस्यपात्रे तु भेकस्य मूत्रे वज्रं सुभावयेत् ।
त्रिः सप्तकृत्वः संतप्तं वज्रमेव मृतं भवेत् ॥२७॥

वज्रमारण (३ )

त्रिः सप्तकृत्वः संतप्तं खरमूत्रेण सेचयेत् ।
मत्कुणैस्तालकं पिष्ट्वा तद्गोले कुलिशं क्षिपेत् ॥२८॥

प्रध्मातं वाजिमूत्रेण सिक्तं पूर्वक्रमेण वै ।
भस्मीभवति तद्भुक्तं वज्रवत्कुरुते तनुम् ॥२९॥

आयुष्यं सौख्यजनकं बलदं रूपदं तथा ।
रोगघ्नं मृत्युहरणं वज्रभस्म भवत्यलम् ॥३०॥

वैक्रान्त

अष्टास्रश् चाष्टफलकः षट्कोणो मसृणो गुरुः ।
शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते ॥३१॥

श्वेतो रक्तश्च पीतश्च नीलः पारावतच्छविः ।
श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि सः ॥३२॥

वैक्रान्तशोधनम्

वैक्रान्तं वज्रवच्छुद्धं ध्मातं तं हयमूत्रके ।
हितं तद्भस्म संयोज्यं वज्रस्थाने विचक्षणैः ॥३३॥

आयुःप्रदः सकलबन्धकरो ऽतिवृष्यः प्रज्ञाप्रदः सकलरोगसमूलहारी ।
दीप्ताग्निकृत् पविसमानगुणस् तरस्वी वैक्रान्तकः खलु वपुर्बललोहकारी ॥३४॥

वैक्रान्तसत्त्वपातनम्

वैक्रान्तं वज्रकन्दे च पेषयेद् वज्रवारिणा ।
माहिषं नवनीतं च सक्षौद्रं पिण्डितं ततः ॥३५॥

शोषयित्वा धमेत् सत्त्वं इन्द्रगोपसमं भवेत् ।

अभ्रक

पिनाकं दर्दुरं नागं वज्रमभ्रं चतुर्विधम् ।
ध्मातं वह्णौ दलचयं पिनाकं विसृजत्यलम् ॥३६॥

फूत्कारं नागवत् कुर्यात् दर्दुरं भेकशब्दवत् ।
चतुर्थं च वरं ज्ञेयं न चाग्नौ विकृतिं व्रजेत् ॥३७॥

तस्माद्वज्राभ्रकं ग्राह्यं व्याधिवार्धक्यमृत्युजित् ।
अशुद्धाभ्रं निहन्त्यायुर्वर्धयेन्मारुतं कफम् ॥३८॥

अहतं छेदयेद्गात्रं मन्दाग्निकृमिवर्धनम् ।
अतः शुद्धाभ्रकं ग्राह्यं मन्दाग्निकृमिनाशनम् ॥३९॥

धान्याभ्रक

पादांशशालिसंयुक्तम् अभ्रं बद्ध्वाथ कम्बले ।
त्रिरात्रं स्थापयेन्नीरे तत् क्लिन्नं मर्दयेद् दृढम् ॥४०॥

कम्बलाद्गलितं श्लक्ष्णं वालुकारहितं च यत् ।
तद्धान्याभ्रमिति प्रोक्तं सद्भिर्देहस्य सिद्धये ॥४१॥

धान्याभ्रककरण

धमेद्वज्राभ्रकं वह्णौ ततः क्षीरेण सेचयेत् ।
भिन्नपत्रं तु तत्कृत्वा मेघनादाम्लयोर्द्रवैः ।
भावयेदष्टयामं तद्धान्याभ्रं कारयेत् सुधीः ॥४२॥

धान्याभ्र (३ )

अथवा बदरीक्वाथे ध्मातमभ्रं विनिक्षिपेत् ।
मर्दितं पाणिना शुष्कं धान्याभ्राद् अतिरिच्यते ॥४३॥

अभ्रकभस्म

धान्याभ्रकस्य भागैकं द्वौ भागौ टंकणस्य च ॥४४॥

पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत् ।
स्वभावशीतलं चूर्णं सर्वरोगेषु योजयेत् ॥४५॥

अभ्रमारण (१ )

धान्याभ्रकं दृढं मर्द्यम् अर्कक्षीरे दिनावधि ।
वेष्टयेद् भानुपत्रैश्च चक्राकारं तु कारयेत् ॥४६॥

कुञ्जराख्ये पुटे पाच्यं सप्तवारं पुनः पुनः ।
ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयम् ॥४७॥

म्रियते नाम सन्देहः सर्वरोगेषु योजयेत् ।

अभ्रमारण (२ )

धान्याभ्रकं समादाय मुस्तक्वाथैः पुटत्रये ॥४८॥

तद्वत्पुनर्नवानीरैः कासमर्दरसैस् तथा ।
नागवल्लीरसैर्युक्तं सूर्यक्षीरैः पृथक्पृथक् ॥४९॥

दिने दिने मर्दयित्वा क्वाथैर्वटजटोद्भवैः ।
दत्त्वा पुटत्रयं पश्चात् त्रिपुटं मुशलीजलैः ॥५०॥

त्रिर् गोक्षुरकषायेण त्रिः पुटेद्वानरीरसैः ।
मोचाकन्दरसैः पाच्यं त्रिवारं कोकिलाक्षकैः ॥५१॥

रसैः पुटेत्ततो धेनुः क्षारोदकं पुटं मुहुः ।
दध्ना घृतेन मधुना स्वच्छया सितया तथा ॥५२॥

एकमेकं पुटं दद्याद् अभ्रस्यैवं मृतिर्भवेत् ।
सर्वरोगहरं व्योम जायते योगवाहकम् ॥५३॥

कामिनीमददर्पघ्नं शस्तं पुंस्त्वोपवाहिनाम् ।
वृष्यमायुष्करं शुक्रवृद्धिसन्तानकारकम् ॥५४॥

अभ्रमारण (३ )

दुग्धत्रयं कुमार्यम्बु गंगापत्रं नृमूत्रकम् ।
वटाङ्कुरम् अजारक्तम् एभिरभ्रं सुमर्दितम् ॥५५॥

शतधा पुटितं भस्म जायते पद्मरागवत् ।
निश्चन्द्रकं भवेद् व्योम शुद्धदेहो रसायनम् ॥५६॥

निश्चन्द्रमारितं व्योम रूपं वीर्यं दृढां तनुम् ।
कुरुते नाशयेन्मृत्युं जरारोगकदम्बकम् ॥५७॥

अभ्रकसत्त्वपातनम्

भावितं चूर्णितं त्वभ्रं दिनैकं काञ्जिकेन च ।
रम्भासूरणजैर् नीरैर् मूलकोत्थैश्च मेलयेत् ॥५८॥

तुर्यांशं टंकणेनेदं क्षुद्रमत्स्यैः समं पुनः ।
महिषीमलसम्मिश्रं विधायास्याथ गोलकम् ॥५९॥

खराग्निना धमेद्गाढं सत्त्वं मुञ्चन्ति कान्तिमत् ।
सत्त्वसेवी वयःस्तम्भं कृतशुद्धिर्लभेत्सुधीः ॥६०॥

अभ्रकद्रावण

अगस्तिपुष्पनिर्यासमर्दितं सूरणोदरे ।
गोष्ठभूस्थं नभोभासं जायते जलसन्निभम् ॥६१॥

सत्त्वपातन (अल्ल्गेम् .)

गुडपुरस्तथा लाक्षा पिण्याकं टंकणं तथा ।
ऊर्णा सर्जरसं चैव क्षुद्रमीनसमन्वितम् ॥६२॥

एतत् सर्वं तु संचूर्णं छागीदुग्धेन पिण्डिकाम् ।
कृत्वा ध्माता खराङ्गारैः सर्वसत्त्वानि पातयेत् ॥६३॥

पाषाणमृत्तिकादीनि सर्वलोहगतानि च ।
अन्यानि यान्यसाध्यानि व्योमसत्त्वस्य का कथा ॥६४॥

यदोपरसभावोऽस्ति रसे तत्सत्त्वयोजनम् ।
कर्तव्यं तद्गुणाधिक्यं रसज्ञत्वं यदीच्छसि ॥६५॥

भूनागसत्त्वपातन

सद्यो भूनागमादाय चारयेच्छिखिनं बुधः ।
अथवा कुक्कुटं वीरं कृत्वा मन्दिरमाश्रितम् ॥६६॥

मलं मूत्रं गृहीत्वा च संत्यज्य प्रथमांशकम् ।
आलोड्य क्षीरमध्वाज्यं धमेत्सत्त्वार्थमादरात् ॥६७॥

मुञ्चन्ति ताम्रवत् सत्त्वं तन्मुद्राजलपानजः ।
नश्यन्ति जङ्गमविषाण्यशेषाणि न संशयः ॥६८॥

अशुद्धहरितालदोषाः

अशुद्धं तालमायुर्घ्नं कफमारुतमेहकृत् ।
वान्तिस्फोटाङ्गसंकोचं कुरुते तेन शोधयेत् ॥६९॥

हरिताल

शुद्धःस्यात्तालकः स्विन्नः कूष्माण्डसलिले ततः ।
चूर्णोदके पृथक्तैले भस्मीभूतो न दोषकृत् ॥७०॥

तालको हरते रोगान्कुष्ठं मृत्युरुजादिकान् ।
संशुद्धः कान्तिवीर्यं च कुरुते ह्यायुर्वर्धनम् ॥७१॥

हरितालमारणं

पलमेकं शुद्धतालं कौमारीरसमर्दितम् ।
शरावसम्पुटे क्षिप्त्वा यामान्द्वादशकं पचेत् ॥७२॥

स्वाङ्गशीतं समादाय तालकं तु मृतं भवेत् ।
गलत्कुष्ठं हरेच्चैव तालकं च न संशयः ॥७३॥

मनःशिलाशोधन

अगस्तिपत्रतोयेन भाविता सप्तवारकम् ।
शृङ्गवेररसैर् वापि विशुध्यति मनःशिला ॥७४॥

मनःशिलागुणाः

कटुः स्निग्धा शिला तिक्ता कफघ्नी लेखनी परा ।
भूतावेशामयं हन्ति कासश्वासहरा शुभा ॥७५॥

रसकशोधनम्

नृमूत्रैः खरमूत्रैश्च सप्ताहं रसकं पचेत् ।
दोलायन्त्रेन संशोध्य ततः कार्येषु योजयेत् ॥७६॥

तुत्थशोधन

ओतोर्विष्ठासमं तुत्थं सक्षौद्रं टंकणाद्भिषक् ।
त्रिविधं पुटितं शुद्धं वान्तिभ्रान्तिविवर्जितम् ॥७७॥

तुत्थगुणाः

तुत्थकं कटु सक्षारं कषायं विशदं लघु ।
लेखनं भेदी चक्षुष्यं कण्डूकृमिविषापहम् ॥७८॥

विमल

जम्बीरस्य रसे स्विन्ना मेषशृङ्गीरसेऽथवा ।
रम्भातोयेन वा पाच्यं घस्रं विमलशुद्धये ॥७९॥

माक्षिकशोधन (?)

सिन्धूद्भवस्य भागैकं त्रिभागं माक्षिकस्य च ।
कृत्वा तदायसे पात्रे लोहदर्व्याथ चालयेत् ॥८०॥

सिन्दूराभं भवेद् यावत् तावन्मृद्वग्निना पचेत् ।
सुभद्रं माक्षिकं विद्यात् सर्वयोगेषु योजयेत् ॥८१॥

माक्षिकमारणम्

माक्षिकस्य चतुर्थांशं दत्त्वा गन्धं विमर्दयेत् ।
ऊरुबूकस्य तैलेन ततः कार्या सुचक्रिका ॥८२॥

शरावसम्पुटे कृत्वा पुटेद् गजपुटेन च ।
सिन्दूराभं भवेद् भस्म माक्षिकस्य न संशयः ॥८३॥

माक्षिकगुणाः

माक्षिकं तिक्तमधुरं मेहार्शःक्षयकुष्ठनुत् ।
कफपित्तहरं बल्यं योगवाहि रसायनम् ॥८४॥

कासीसशोधनम्

सकृद् भृङ्गाम्बुना स्विन्नं कासीसं निर्मलं भवेत् ॥८५॥

कासीसगुणाः

कासीसं शीतलं स्निग्धं स्विन्नं नेत्ररुजापहम् ।
पित्तापस्मारशमनं रसवद् गुणकारकम् ॥८६॥

कान्तपाषाण

लवणानि तथा क्षारौ शोभाञ्जनरसे क्षिपेत् ।
अम्लवर्गयुते चादौ दिनम् अर्धं विभावयेत् ॥८७॥

तद्द्रवैर् दोलकायन्त्रे दिवसं पाचयेत् सुधीः ।
कान्तपाषाणशुद्धौ तु रसकर्म समाचरेत् ॥८८॥

वराटिकाः

पीताभा ग्रन्थिलाः पृष्ठे दीर्घवृत्ता वराटिकाः ।
सार्धनिष्कभराः श्रेष्ठा निष्कभाराश्च मध्यमाः ॥८९॥

पादोननिष्कभाराश्च कनिष्ठाः परिकीर्तिताः ।
रसवैद्यविनिर्दिष्टास् ताश् चराचरसंज्ञकाः ॥९०॥

वराटाशोधनम्

वराटा काञ्जिके स्विन्ना यामाच्छुद्धिम् अवाप्नुयात् ।

वराटगुणाः

परिणामादिशूलघ्नी ग्रहणीक्षयनाशिनी ॥९१॥

कटूष्णा दीपनी वृष्या नेत्र्या वातकफापहा ।
रसेन्द्रजारणे प्रोक्ता विडद्रव्येषु शस्यते ॥९२॥

हिङ्गुलशोधन

मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् ।
सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ॥९३॥

हिङ्गुलगुणाः

तिक्तोष्णं हिङ्गुलं दिव्यं रसगन्धकसम्भवम् ।
मेहकुष्ठहरं रुच्यं बल्यं मेधाग्निदीपनम् ॥९४॥

शिलाजतुशोधन

गोदुग्धत्रिफलाभृङ्गद्रवैः पिष्टं शिलाजतु ।
दिनैकं लोहजे पात्रे शुद्धिमायात्यसंशयः ॥९५॥

शिलाजतुगुणाः

शिलाजतु भवेत्तिक्तं कटूष्णं च रसायनम् ।
क्षयशोषोदरार्शांसि हन्ति बस्तिरुजो जयेत् ॥९६॥

सौवीरं टंकणं शंखं कङ्कुष्ठं गैरिकं तथा ।
एते वराटवच्छोध्या भवेयुर्दोषवर्जिताः ॥९७॥

रत्नशोधनम्

शुध्यत्यम्लेन माणिक्यं जयन्त्या मौक्तिकं तथा ।
विद्रुमं क्षारवर्गेण तार्क्ष्यं गोदुग्धकैस्तथा ॥९८॥

पुष्परागं च सन्धानैः कुलत्थक्वाथसंयुतैः ।
तण्डुलीयजलैर् वज्रं नीलं नीलीरसेन च ॥९९॥

रोचनाभिश्च गोमेदं वैदूर्यं त्रिफलाजलैः ।
लकुचद्रावसम्पिष्टैः शिलागन्धकतालकैः ।

रत्नमारण

वज्रं विनान्यरत्नानि म्रियन्ते ऽष्टपुटैः खलु ॥१००॥

मणिगुणाः

मुक्ताविद्रुमवज्रेन्द्रवैदूर्यस्फटिकादिकम् ॥१०१॥

मणिरत्नं खरं शीतं कषायं स्वादु लेखनम् ।
चक्षुष्यं धारणात्तं तु पापालक्ष्मीविषापहम् ॥१०२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:59.3330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

केडला

  • क्रि.वि. ( चि .) केव्हां ( सं . कियत् + वेला ) 
RANDOM WORD

Did you know?

बांस की लकड़ी
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site