TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसमञ्जरी - अध्याय १०

शालिनाथ कृत ‘रसमञ्जरी ’ ग्रंथात रसविद्या संबंधित वेगवेगळ्या क्रिया सविस्तर वर्णिल्या आहेत .


अध्याय १०

अथ कालस्य विज्ञानं प्रवक्ष्यामि यथासुखम् ।
जीवितं मरणं योगी यतो जानाति निश्चयात् ॥१॥

कालग्रहस्य यस्येदं दंष्ट्रासम्पुटके जगत् ।
अद्यैव वा प्रभाते वा सोऽवश्यं भविष्यति ॥२॥

रसं रसायनं योगं कालं ज्ञात्वा समाचरेत् ।
यस्माज्ज्ञानं विना व्यर्थं तत्तस्मात्प्रोच्यतेऽधुना ॥३॥

दूतो रक्तकषायकृष्णवसनो दन्ती जरामर्दितस् तैलाभ्यक्तशरीरकायुधकरो दीनाश्रुपूर्णाननः ।
भस्माङ्गारकपालपांशुमुशलः सूर्यास्तसूर्योदये यः सूर्यस्वरसंस्थितो गदवतां कालाय स स्यादसौ ॥४॥

अकस्माच्चित्तविकृतिरकस्मात्पुरुषोत्तमः ।
अकस्मादिन्द्रियोत्पत्तिः सन्निपातस्य लक्षणम् ॥५॥

शरीरं शीतलं यस्य प्रकृतेर् विकृतिर् भवेत् ।
तत्रारिष्टं समासेन व्याप्तं तत्र निबोध मे ॥६॥

दुष्टशब्देन रमते साधुशब्देन कुप्यति ।
यश्चाकस्मान्न शृणुते तं गतायुषमादिशेत् ॥७॥

यो वा गन्धं न गृह्णाति दीपे शान्ते च मानवः ।
दिवाज्योतींषि यश्चापि ज्वलितानि च पश्यति ॥८॥

चन्द्रं सूर्यप्रभं पश्येत् सूर्यं वा चन्द्रवर्चसम् ।
तडिद्वातोषितान् मेघान् निर्मले गगने चरान् ॥९॥

विमानयानप्रासादैर्यश्च संकुलमम्बरम् ।
यश्च नीलं मूर्तिमन्तम् अन्तरिक्षं च पश्यति ॥१०॥

यस्तूष्णम् इव गृह्णाति शीतमुष्णं च शीतवत् ।
संजातः संशयो यस्य तं वदन्ति गतायुषम् ॥११॥

विपरीतेन गृह्णाति भावानन्यांश्च यो नरः ।
धूमनीहारवासोभिरावृतामिव मेदिनीम् ॥१२॥

प्रदीप्तमिव लोकं च योऽवलुप्तमिवाम्भसा ।
भूमिम् अष्टादशाकारां लेखाभिर्यस्तु पश्यति ॥१३॥

ज्योत्स्नादर्शे हि तोयेषु छायां यश्च न पश्यति ।
पश्यत्येकाङ्गहीनां च वैकृतं चापि पश्यति ॥१४॥

श्वकाककङ्कगृध्राणां प्रयातं यक्षराक्षसाम् ।
पिशाचोरगनागानां विकृतामपि यो नरः ॥१५॥

ह्रीश्रियौ यस्य नश्येतां तेज ओजः स्मृतिस् तथा ।
अकस्माज्जृम्भते यश्च स परासुरसंशयम् ॥१६॥

यस्याधरोष्ठः पतति स्थितश्चोर्ध्वं तथोत्तरम् ।
पाशशङ्का भवेद्यस्य दुर्लभं तस्य जीवितम् ॥१७॥

कुटिला स्फुटिता वापि सुप्ता यस्य च नासिका ।
अवस्फूर्यति मग्ना वा स परासुरसंशयम् ॥१८॥

स्वरूपं परनेत्रेषु पुत्तिकां यो न पश्यति ।
यदा हि पटुदृष्टिश्च तदा मृत्युर् अदूरतः ॥१९॥

कर्णहीनं यदात्मानं पश्यत्यात्मा कथंचन ।
न स जीवति लोकेऽस्मिन् कालेन कवलीकृतः ॥२०॥

रात्रौ दाहो भवेद्यस्य दिवा शीतं च जायते ।
कफपूरितकण्ठस्य मृत्युश्चैव न संशयः ॥२१॥

चरणौ शीतलौ यस्य शीतलं नाभिमण्डलम् ।
शिरस्तापो भवेद्यस्य तस्य मृत्युर्न संशयः ॥२२॥

हुङ्कारः शीतलो यस्य फुत्कारो वह्णिसन्निभः ।
सदा दाहो भवेद्यस्य तस्य मृत्युर्न संशयः ॥२३॥

अरुन्धतीं ध्रुवं चैव विष्णोस्त्रीणि पदानि च ।
हीनायुधो न पश्यन्ति चतुर्थं मातृमण्डलम् ॥२४॥

अरश्मिबिम्बं सूर्यस्य वह्नेश्चैवांशुवर्जितम् ।
दृष्ट्वैकादशमासास्तु नरश्चोर्ध्वं न जीवति ॥२५॥

वातं मूत्रं पुरीषं यः सुवर्णं रजतं तथा ।
प्रत्यक्षमथवा स्वप्ने दशमासं न जीवति ॥२६॥

क्वचित् पश्यति यो दीप्तं स्वर्णवत् काननं नरः ।
विरूपाणि च भूतानि नवमासं न जीवति ॥२७॥

स्थूलाङ्गोऽपि कृशः कृशोऽपि सहसा स्थूलत्वमालम्बते श्यामो वा कनकप्रभो यदि भवेद्गौरोऽपि कृष्णच्छविः ।
धीरो धीरतयार्थधर्मनिपुणः शान्तोपकारी पुमान् इत्येवं प्रकृते तु शान्तचलनं मास्यष्टमे मृत्युदम् ॥२८॥

पीडा भवेत्पाणितले च जिह्वामूलं समूलं रुधिरं च कृष्णम् ।
वृद्धिं नरः कामपि यन्न दृष्ट्वा जीवेन्मनुष्यः स हि सप्तमासान् ॥२९॥

मध्याङ्गुलीनां त्रितयं विरक्तं रोगं विना शुष्यति यस्य कण्ठः ।
मुहुर्मुहुः प्रस्रवणं च जाड्यं षष्ठे च मासे प्रलयं प्रयाति ॥३०॥

यस्य न स्फुरणं किंचिद् विद्यते यस्य कर्मणि ।
सोऽवश्यं पञ्चमे मासि स्कन्धारूढो गमिष्यति ॥३१॥

यस्य न स्फुरते ज्योतिः पीडिते नयनद्वये ।
मरणं तस्य निर्दिष्टं चतुर्थे मासि निश्चितम् ॥३२॥

स्पन्दते वृषणो यस्य न किंचिदपि पीडितः ।
तृतीये मासि सोऽवश्यं यमलोके गमिष्यति ॥३३॥

तारा दिवा चन्द्रप्रभं निशान्ते यो विद्युतं पश्यति चैव श्वभ्रे ।
इन्द्रायुधं वा स्वयमेव रात्रौ मासद्वये तस्य वदन्ति नाशम् ॥३४॥

यस्य जानुगतं मर्म न किंचिदपि चेष्टितम् ।
मासान्ते मरणं तस्य न केनापि विलम्ब्यते ॥३५॥

कनिष्ठाङ्गुलिपर्व स्यात् कृष्णं च मध्यमं यदा ।
गतायुः प्रोच्यते पुंसाम् अष्टादशदिनावधिः ॥३६॥

घृते तैले जले वापि दर्पणे यस्य दृश्यते ।
शिरोरहितमात्मानं पक्षमेकं स जीवति ॥३७॥

शैत्यं दध्यन्नपानानि यस्य तापकराणि च ।
शीतरश्मि भवेच्चारुहासं चाथ सुनिर्मलम् ॥३८॥

न वेत्ति वै चारुहितं न चोष्णं वेत्ति यो नरः ।
कालज्ञानेन सम्प्रोक्तं पक्षमेकं स जीवति ॥३९॥

स्नातमात्रस्य यस्यैते त्रयः शुष्यन्ति तत्क्षणात् ।
हृदयं हस्तपादौ च दशरात्रं स जीवति ॥४०॥

नासाग्रं रसनाग्रं च चक्षुश्चैवौष्ठसम्पुटम् ।
यो न पश्येत्पुरादृष्टं सप्तरात्रं स जीवति ॥४१॥

धारा बिन्दुसमा यस्य पतते च महीतले ।
सप्ताहाज्जायते मृत्युः कालज्ञानेन कथ्यते ॥४२॥

अथातः सम्प्रवक्ष्यामि छायापुरुषलक्षणम् ।
यस्य विज्ञानमात्रेण त्रिकालज्ञो भवेन्नरः ॥४३॥

कालो दूरस्थितोऽस्यापि येनोपायेन लक्ष्यते ।
तं वदन्ति समासेन यथोद्दिष्टं शिवागमे ॥४४॥

एकान्ते विजने गत्वा कृत्वादित्यं स्वपृष्ठतः ।
संनिरीक्ष्य निजच्छायां कण्ठदेशसमाहिताम् ॥४५॥

ततश्चाकाशमीक्षेत ततः पश्यति शंकरम् ।
अष्टोत्तरशतं जप्त्वा ततो वै दृश्यते शुभम् ॥४६॥

शुद्धस्फटिकसंकाशं नानारूपधरो हरम् ।
षण्मासाभ्यासयोगेन भूचराणां पतिर्भवेत् ॥४७॥

वर्षद्वयेन हे नाथ कर्ता हर्ता स्वयं प्रभुः ।
त्रिकालज्ञत्वम् आप्नोति स योगी नात्र संशयः ॥४८॥

यत्कृताभ्यासयोगेन नास्ति किंचित् सुदुर्लभम् ।
तद्रूपं कृष्णवर्णं च पश्यति व्योम्नि निर्मले ॥४९॥

षण्मासान् मृत्युमाप्नोति स योगी नात्र संशयः ।
पीतो व्याधिभयं रक्तो नीलो हत्यां विनिर्दिशेत् ॥५०॥

नानावर्णे स्वरूपेऽस्मिनुद्वेगो जायते महान् ।
पादौ गुल्फं च जठरं विनाशकृशता भवेत् ॥५१॥

अर्धवर्षेण वर्षे वा जीवन्वर्षद्वयेन न वा ।
विनाशो दक्षिणे बाहौ स्वबन्धुर् म्रियते ध्रुवम् ॥५२॥

वामबाहौ तथा भार्या विनश्यति न संशयः ।
शिरो दक्षिणबाहुभ्यां विनाशो मृत्युमादिशेत् ॥५३॥

अशिरो मासमरणं विना जङ्घे दिवा नव ।
अष्टभिः स्कन्धनाशेन छायालुप्तेन तत्क्षणात् ॥५४॥

तीर्थस्नानेन दानेन तपसा सुकृतेन वा ।
जपेन ज्ञानयोगेन जायते कालबन्धनम् ॥५५॥

रसायनं च पूर्वोक्तं गुटिका मृतजीवनी ।
नरैः सेव्या यथोक्तं च परं कालस्य बन्धनम् ॥५६॥

रक्षणीयमतो देहं यतो धर्मादिसाधनम् ।
शरीरं नाशयन्त्येते दोषा धातुमलाश्रयाः ॥५७॥

वैद्यनाथतनूजेन शालिनाथेन धीमता ।
शास्त्रमालोक्य चाकृष्य रचिता रसमञ्जरी ॥५८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:02.2630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

downstream

  • पु. अनुवाह 
  • (in the direction of flow of a stream) प्रवाहाच्या दिशेने, अनुवाह- 
  • पु. अनुप्रवाह 
RANDOM WORD

Did you know?

पितापुत्र अथवा भाउ भाउ एकाच नक्षत्रावर जन्मले असता त्याचे काय परिणाम होतात? उपाय काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.