अर्थशास्त्रम् अध्याय ०७ - भाग १४

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


१४.०१
सामवायिकैर् एवम् अभियुक्तो विजिगीषुर् यस् तेषां प्रधानस् तं ब्रूयात् "त्वया मे संधिः, इदं हिरण्यम्, अहं च मित्रम्, द्वि.गुणा ते वृद्धिः, न_अर्हस्य् आत्म.क्षयेण मित्र.मुखान् अमित्रान् वर्धयितुम्, एते हि वृद्धास् त्वाम् एव परिभविष्यन्ति" इति ॥

१४.०२
भेदं वा ब्रूयात् "अनपकारो यथा_अहम् एतैः सम्भूय_अभियुक्तस् तथा त्वाम् अप्य् एते संहित.बलाः स्वस्था व्यसने वा_अभियोक्ष्यन्ते, बलं हि चित्तं विकरोति, तद् एषां विघातय" इति ॥

१४.०३
भिन्नेषु प्रधानम् उपगृह्य हीनेषु विक्रमयेत्, हीनान् अनुग्राह्य वा प्रधाने, यथा वा श्रेयो_अभिमन्येत तथा ॥

१४.०४
वैरं वा परैर् ग्राहयित्वा विसंवादयेत् ॥

१४.०५
फल.भूयस्त्वेन वा प्रधानम् उपजाप्य संधिं कारयेत् ॥

१४.०६
अथ_उभय.वेतनाः फल.भूयस्त्वं दर्शयन्तः सामवायिकान् "अतिसंहिताः स्थ" इत्य् उद्द्दूषयेयुः ॥

१४.०७
दुष्टेषु संधिं दूषयेत् ॥

१४.०८
अथ_उभय.वेतना भूयो भेदम् एषां कुर्युः "एवं तद् यद् अस्माभिर् दर्शितम्" इति ॥

१४.०९
भिन्नेष्व् अन्यतम.उपग्रहेण चेष्टेत ॥

१४.१०
प्रधान.अभावे सामवायिकानाम् उत्साहयितारं स्थिर.कर्माणम् अनुरक्त.प्रकृक्तिं लोभाद् भयाद् वा संघातम् उपागतं विजिगीषोर् भीतं राज्य.प्रतिसम्बद्धं मित्रं चल.अमित्रं वा पूर्वान् उत्तर.अभावे साधयेत् - उत्साहयितारम् आत्म.निसर्गेण, स्थिर.कर्माणं सान्त्व.प्रणिपातेन, अनुरक्त.प्रकृतिं कन्या.दान.यापनाभ्याम्, लुब्धम् अंश.द्वैगुण्येन, भीतम् एभ्यः कोश.दण्ड.अनुग्रहेण, स्वतो भीतं विश्वास्य प्रतिभू.प्रदानेन, राज्य.प्रतिसम्बद्धम् एकी.भाव.उपगमनेन, मित्रम् उभयतः प्रिय.हिताभ्याम्, उपकार.त्यागेन वा, चल.अमित्रम् अवधृतम् अनपकार.उपकाराभ्याम्  ॥

१४.११
यो वा यथा_अयोगं भजेत तं तथा साधयेत्, साम.दान.भेद.दण्डैर् वा यथा_आपत्सु व्याख्यास्यामः ॥

१४.१२
व्यसन.उपघात.त्वरितो वा कोश.दण्डाभ्यां देशे काले कार्ये वा_अवधृतं संधिम् उपेयात् ॥

१४.१३
कृत.संधिर् हीनम् आत्मानं प्रतिकुर्वीत ॥

१४.१४
पक्षे हीनो बन्धु.मित्र.पक्षं कुर्वीत, दुर्गम् अविषह्यं वा ॥

१४.१५
दुर्ग.मित्र.प्रतिष्टब्धो हि स्वेषां परेषां च पूज्यो भवति ॥

१४.१६
मन्त्र.शक्ति.हीनः प्राज्ञ.पुरुष.उपचयं विद्या.वृद्ध.सम्योगं वा कुर्वीत ॥

१४.१७
तथा हि सद्यः श्रेयः प्राप्नोति ॥

१४.१८
प्रभाव.हीनः प्रकृति.योग.क्षेम.सिद्धौ यतेत ॥

१४.१९
जन.पदः सर्व.कर्मणां योनिः, ततः प्रभावः ॥

१४.२०
तस्य स्थानम् आत्मनश् च_आपदि दुर्गम् ॥

१४.२१
सेतु.बन्धः सस्यानां योनिः ॥

१४.२२
नित्य.अनुषक्तो हि वर्ष.गुण.लाभः सेतु.वापेषु ॥

१४.२३
वणिक्.पथः पर.अतिसंधानस्य योनिः ॥

१४.२४
वणिक्.पथेन हि दण्ड.गूढ.पुरुष.अतिनयनं शस्त्र.आवरण.यान.वाहन.क्रयश् च क्रियते, प्रवेशो निर्णयनं च ॥

१४.२५
खनिः संग्राम.उपकरणानां योनिः, द्रव्य.वनं दुर्ग.कर्मणां यान.रथयोश् च, हस्ति.वनं हस्तिनाम्, गव.अश्व.खर.उष्ट्राणां च व्रजः ॥

१४.२६
तेषाम् अलाभे बन्धु.मित्र.कुलेभ्यः समार्जनम् ॥

१४.२७
उत्साह.हीनः श्रेणी.प्रवीर.पुरुषाणां चोर.गण.आटविक.म्लेच्छ.जातीनां पर.अपकारिणां गूढ.पुरुषाणां च यथा.लाब्भम् उपचयं कुर्वीत ॥

१४.२८
पर.मिश्र.अप्रतीकारम् आबलीयसं वा परेषु प्रयुञ्जीत ॥

१४.२९
एवं पक्षेण मन्त्रेण द्रव्येण च बलेन च ।

१४.२९
सम्पन्नः प्रतिनिर्गच्छेत् पर.अवग्रहम् आत्मनः ॥

(विगृह्य.उपरोध.हेतवह् - दण्ड.उपनत.वृत्तम्)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP