अर्थशास्त्रम् अध्याय ०७ - भाग १६

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


१६.०१
अनुज्ञात.संधि.पण.उद्वेग.करं बलवान् विजिगीषमाणो यतः स्व.भूमिः स्व.ऋतु.वृत्तिश् च स्व.सैन्यानाम्, अदुर्ग.अपसारः शत्रुर्.अपार्ष्णिर् अनासारश् च, ततो यायात् ॥

१६.०२
विपर्यये कृत.प्रतीकारो यायात् ॥

१६.०३
साम.दानाभ्यां दुर्बलान् उपनमयेत्, भेद.दण्डाभ्यां बलवतः ॥

१६.०४
नियोग.विकल्प.समुच्चयैश् च_उपायानाम् अनन्तर.एक.अन्तराः प्रकृतीः साधयेत् ॥

१६.०५
ग्राम.अरण्य.उपजीवि.व्रज.वणिक्.पथ.अनुपालनम् उज्झित.अपसृत.अपकारिणां च_अर्पणम् इति सान्त्वम् आचरेत् ॥

१६.०६
भूमि.द्रव्य.कन्या.दानम् अभयस्य च_इति दानम् आचरेत् ॥

१६.०७
सामन्त.आटविक.तत्.कुलीन.अपरुद्धानाम् अन्यतम.उपग्रहेण कोश.दण्ड.भूमि.दाय.याचनम् इति भेदम् आचरेत् ॥

१६.०८
प्रकाश.कूट.तूष्णीं.युद्ध.दुर्ग.लम्भ.उपायैर् अमित्र.प्रग्रहणम् इति दण्डम् आचरेत् ॥

१६.०९
एवम् उत्साहवतो दण्ड.उपकारिणः स्थापयेत्, स्व.प्रभाववतः कोश.उपकारिणः, प्रज्ञावतो भूम्य्.उपकारिणः ॥

१६.१०
तेषां पण्य.पत्तन.ग्राम.खनि.संजातेन रत्न.सार.फल्गु.कुप्येन द्रव्य.हस्ति.वन.व्रज.समुत्थेन यान.वाहनेन वा यद् बहुश उपकरोति तच् चित्र.भोगम् ॥

१६.११
यद् दण्डेन कोशेन वा महद् उपकरोति तन् महा.भोगम् ॥

१६.१२
यद् दण्ड.कोश.भूमीभिर् उपकरोति तत् सर्व.भोगम् ॥

१६.१३
यद् अमित्रम् एकतः प्रतिकरोति तद् एकतो.भोगि ॥

१६.१४
यद् अमित्रम् आसारं च_उभयतः प्रतिकरोति तद् उभयतो.भोगि ॥

१६.१५
यद् अमित्र.आसार.प्रतिवेश.आटविकान् सर्वतः प्रतिकरोति तत् सर्वतो.भोगि ॥

१६.१६
पार्ष्णि.ग्राहश् च_आटविकः शत्रु.मुख्यः शत्रुर् वा भूमि.दान.साध्यः कश्चिद् आसाद्येत, निर्गुणया भूम्या_एनम् उपग्राहयेत्, अप्रतिसम्बद्धया दुर्गस्थम्, निरुपजीव्यया_आटविकं - ॥

१६.१६
प्रत्यादेयया तत्.कुलीनं शत्रोः, अपच्छिन्नया शत्रोर् अपरुद्धं नित्य.अमित्रया श्रेणी.बलम्, बलवत्.सामन्तया संहत.बलम्, उभाभ्यां युद्धे प्रतिलोमम्, - ॥

१६.१६
अलब्ध.व्यायामया_उत्साहिनम्, शूयया_अरि.पक्षीयम्, कर्शितया_अपवाहितम्, महा.क्षय.व्यय.निवेशया गत.प्रत्यागतम्, अनपाश्रयया प्रत्यपसृतम्, परेण_अनधिवास्यया स्वयम् एव भर्तारम् उपग्राहयेत् ॥

१६.१७
तेषां महा.उपकारं निर्विकारं च_अनुवर्तयेत् ॥

१६.१८
प्रतिलोमम् उपांशुना साधयेत् ॥

१६.१९
उपकारिणम् उपकार.शक्त्या तोषयेत् ॥

१६.२०
प्रयासतश् च_अर्थ.मानौ कुर्याद्, व्यसनेषु च_अनुग्रहम् ॥

१६.२१
स्वयं.आगतानां यथा.इष्ट.दर्शनं प्रतिविधानं च कुर्यात् ॥

१६.२२
परिभव.उपघात.कुत्स.अतिवादांश् च_एषु न प्रयुञ्जीत ॥

१६.२३
दत्त्वा च_अभयं पिता_इव_अनुगृह्णीयात् ॥

१६.२४
यश् च_अस्य_अपकुर्यात् तद् दोषम् अभिविख्याप्य प्रकाशम् एनं घातयेत् ॥

१६.२५
पर.उद्वेग.कारणाद् वा दाण्डकर्मिकवच् चेष्टेत ॥

१६.२६
न च हतस्य भूमि.द्रव्य.पुत्र.दारान् अभिमन्येत ॥

१६.२७
कुल्यान् अप्य् अस्य स्वेषु पात्रेषु स्थापयेत् ॥

१६.२८
कर्मणि मृतस्य पुत्रं राज्ये स्थापयेत् ॥

१६.२९
एवम् अस्य दण्ड.उपनताः पुत्र.पौत्रान् अनुवर्तन्ते ॥

१६.३०
यस् तु_उपनतान् हत्वा बद्ध्वा वा भूमि.द्रव्य.पुत्र.दारान् अभिमन्येत तस्य_उद्विग्नं मण्डलम् अभावाय_उत्तिष्ठते ॥

१६.३१
ये च_अस्य_अमात्याः स्व.भूमिष्व् आयत्तास् ते च_अस्य_उद्विग्ना मण्डलम् आश्रयन्ते ॥

१६.३२
स्वयं वा राज्यं प्राणान् वा_अस्य_अभिमन्यन्ते ॥

१६.३३
स्व.भूमिषु च राजानस् तस्मात् साम्ना_अनुपालिताः ।

१६.३३
भवन्त्य् अनुगुणा राज्ञः पुत्र.पौत्र.अनुवर्तिनः ॥

(सम्धि.कर्म -समाधि.मोक्षह्)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP