TransLiteral Foundation

अर्थशास्त्रम् अध्याय ०७ - भाग ९

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


भाग ९
९.०१
संहित.प्रयाणे मित्र.हिरण्य.भूमि.लाभानाम् उत्तर.उत्तरो लाभः श्रेयान् ॥

९.०२
मित्र.हिरण्ये हि भूमि.लाभाद् भवतः, मित्रं हिरण्य.लाभात् ॥

९.०३
यो वा लाभः सिद्धः शेषयोर् अन्यतरं साधयति ॥

९.०४
"त्वं च_अहं च मित्रं लभावहे" इत्य् एवं.आदिध् सम.संधिः ॥

९.०५
"त्वं मित्रम्" इत्य् एवं.आदिर् विषम.संधिः ॥

९.०६
तयोर् विशेष.लाभाद् अतिसंधिः ॥

९.०७
सम.संधौ तु यः सम्पन्नं मित्रं मित्र.कृच्छ्रे वा मित्रम् अवाप्नोति सो_अतिसंधत्ते ॥

९.०८
आपद्द् हि सौहृद.स्थैर्यम् उत्पादयति ॥

९.०९
मित्र.कृच्छ्रे_अपि नित्यम् अवश्यम् अनित्यं वश्यं वा_इति "नित्यम् अवश्यं श्रेयः, तद्द् हि अनुपकुर्वद् अपि न_अपकरोति" इत्य् आचार्याः ॥

९.१०
न_इति कौटिल्यः ॥

९.११
वश्यम् अनित्यं श्रेयः ॥

९.१२
यावद् उपकरोति तावन् मित्रं भवति, उपकार.लक्षणं मित्रम् इति ॥

९.१३
वश्ययोर् अपि महा.भोगम् अनित्यम् अल्प.भोगं वा नित्यम् इति ॥ महा.भोगम् अनित्यं श्रेयः, महा.भोगम् अनित्यम् अल्प.कालेन महद्.उपकुर्वन् महान्ति व्यय.स्थानानि प्रतिकरोति" इत्य् आचार्याः ॥

९.१४
न_इति कौटिल्यः ॥

९.१५
नित्यम् अल्प.भोगं श्रेयः ॥

९.१६
महा.भोगम् अनित्यम् उपकार.भयाद् अपक्रामति, उपकृत्य वा प्रत्यादातुम् ईहते ॥

९.१७
नित्यम् अल्प.भोगं सातत्याद् अल्पम् उपकुर्वन् महता कालेन महद् उपकरोति ॥

९.१८
गुरु.समुत्थं महन् मित्रं लघु.समुत्थम् अल्पं वा_इति "गुरु.समुत्थं महन् मित्रं प्रताप.करं भवति, यदा च_उत्तिष्ठते तदा कार्यं साधयति" इत्य् आचार्याः ॥

९.१९
न_इति कौटिल्यः ॥

९.२०
लघु.समुत्थम् अल्पं श्रेयः ॥

९.२१
लगु.समुत्थम् अल्पं मित्रं कार्य.कालं न_अतिपातयति दौर्बल्याच् च यथा.इष्ट.भोग्यं भवति, न_इतरत् प्रकृष्ट.भौमम् ॥

९.२२
विक्षिप्त.सैन्यम् अवश्य.सैन्यं वा_इति "विक्षिप्तं सैन्यं शक्यं प्रतिसंहर्तुं वश्यत्वाद्" इत्य् आचार्याः ॥

९.२३
न_इति कौटिल्यः ॥

९.२४
अवश्य.सैन्यं श्रेयः ॥

९.२५
अवश्यं हि शक्यं साम.आदिभिर् वश्यं कर्तुम्, न_इतरत् कार्य.व्यासक्तं प्रतिसंहर्तुम् ॥

९.२६
पुरुष.भोगं हिरण्य.भोगं वा मित्रम् इति "पुरुष.भोगं मित्रं श्रेयः, प्रुष.भोगं मित्रं प्रताप.करं भवति, यदा च_उत्तिष्ठते तदा कार्यं साधयति" इत्य् आचार्याः ॥

९.२७
न_इति कौटिल्यः ॥

९.२८
हिरण्य.भोगं मित्रं श्रेयः ॥

९.२९
नित्यो हि हिरण्येन योगः कदाचिद् दण्डेन ॥

९.३०
दण्डश् च हिरण्येन_अन्ये च कामाः प्राप्यन्त इति ॥

९.३१
हिरण्य.भोगं भूमि.भोगं वा मित्रम् इति "हिरण्य.भोगं गतिमत्त्वात् सर्व.व्यय.प्रतीकार.करम्" इत्य् आचार्याः ॥

९.३२
न_इति कौटिल्यः ॥

९.३३
मित्र.हिरण्ये हि भूमि.लाभाद् भवत इत्य् उक्तं पुरस्ताद् ॥

९.३४
तस्माद् भूमि.भोगं मित्रं श्रेय इति ॥

९.३५
तुल्ये पुरुष.भोगे विक्रमः क्लेश.सहत्वम् अनुरागः सर्व.बल.लाभो वा मित्र.कुलाद् विशेषः ॥

९.३६
तुल्ये हिरण्य.भोगे प्रार्थित.अर्थता प्राभूत्यम् अल्प.प्रयसता सातत्यं च विशेषः ॥

९.३७
तत्र_एतद् भवति ॥

९.३८
नित्यं वश्यं लघु.उत्थानं पितृ.पैतामहं महत् ।

९.३८
अद्वैध्यं च_इति सम्पन्नं मित्रं षड्.गुणम् उच्यते ॥

९.३९
ऋते यद् अर्थं प्रणयाद् रक्ष्यते यच् च रक्षति ।

९.३९
पूर्व.उपचित.सम्बन्धं तन् मित्रं नित्यम् उच्यते ॥

९.४०
सर्व.चित्र.महा.भोगं त्रिविधं वश्यम् उच्यते ।

९.४०
एकतो.भोग्य् उभयतः सर्वतो.भोगि च_अपरम् ॥

९.४१
आदातृ वा दात्र्.अपि वा जीवत्य् अरिषु हिंसया ।

९.४१
मित्रं नित्यम् अवश्यं तद्.दुर्ग.अटव्य्.अपसारि च ॥

९.४२
अन्यतो विगृहीतं यल् लघु.व्यसनम् एव वा ।

९.४२
संधत्ते च_उपकाराय तन् मित्रं वश्यम् अध्रुवम् ॥

९.४३
एक.अर्थेन_अथ सम्बद्धम् उपकार्य.विकारि च ।

९.४३
मित्र.भावि भवत्य् एतन् मित्रम् अद्वैध्यम् आपदि ॥

९.४४
मित्र.भावाद् ध्रुवं मित्रं शत्रु.साधारणाच् चलम् ।

९.४४
न कस्यचिद् उदासीनं द्वयोर् उभय.भावि तत् ॥

९.४५
विजिगीषोर् अमित्रं यन् मित्रम् अन्तर्धितां गतम् ।

९.४५
उपकारे_अनिविष्टं वा_अशक्तं वा_अनुपकारि तत् ॥

९.४६
प्रियं परस्य वा रक्ष्यं पूज्यं सम्बद्धम् एव वा ।

९.४६
अनुगृह्णाति यन् मित्रं शत्रु.साधारणं हि तत् ॥

९.४७
प्रकृष्ट.भौमं संतुष्टं बलवच् च_आलसं च यत् ।

९.४७
उदासीनं भवत्य् एतद् व्यसनाद् अवमानितम् ॥

९.४८
अरेर् नेतुश् च यद् वृद्धिं दौर्बल्याद् अनुवर्तते ।

९.४८
उभयस्य_अप्य् अविद्विष्टं विद्याद् उभय.भावि तत् ॥

९.४९
कारण.अकारण.ध्वस्तं कारण.अकारण.आगतम् ।

९.४९
यो मित्रं समुपेक्षेत स मृत्युम् उपगूहति ॥

९.५०
क्षिप्रम् अल्पो लाभश् चिरान् महान् इति वा "क्षिप्रम् अल्पो लाभः कार्य.देश.काल.संवादकः श्रेयान्" इत्य् आचार्याः ॥

९.५१
न_इति कौटिल्यः ॥

९.५२
चिराद् अविनिपाती बीज.सधर्मा महाम्ल् लाभः श्रेयान्, विपर्यये पूर्वः ॥

९.५३
एवं दृष्ट्वा ध्रुवे लाभे लाभ.अंशे च गुण.उदयम् ।

९.५३
स्व.अर्थ.सिद्धि.परो यायात् संहितः सामवायिकैः ॥

(मित्र.हिरण्य.भूमि.कर्म.संधयः, तत्र भूमि.संधिह्)

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:24.6230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वकत

  • पु. वेळ ; वखत पहा . माईला लेकरुं वळखेना असा वकत पडला । - ऐपो ३३५ . न्याहरीचा वकुत होईल . - यशोधन . [ अर . वक्त ] 
RANDOM WORD

Did you know?

लग्न ठरवितांना पत्रिका पाहणे किती योग्य आहे? पत्रिका पाहूनही कांही विवाह अयशस्वी कां होतात
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.