अर्थशास्त्रम् अध्याय ०७ - भाग २

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


२.०१
संधि.विग्रहयोस् तुल्यायां वृद्धौ संधिम् उपेयात् ॥

२.०२
विग्रहे हि क्षय.व्यय.प्रवास.प्रत्यवाया भवन्ति ॥

२.०३
तेन_आसन.यानयोर् आसनं व्याख्यातम् ॥

२.०४
द्वैधी.भाव.संश्रययोर् द्वैधी.भावं गच्छेत् ॥

२.०५
द्वैधी.भूतो हि स्व.कर्म.प्रधान आत्मन एव_उपकरोति, संश्रितस् तु परस्य_उपकरोति, न_आत्मनः ॥

२.०६
यद्.बलः सामन्तस् तद्.विशिष्ट.बलम् आश्रयेत् ॥

२.०७
तद्.विशिष्ट.बल.अभावे तम् एव_आश्रितः कोश.दण्ड.भूमीनाम् अन्यतमेन_अस्य_उपकर्तुम् अदृष्टः प्रयतेत ॥

२.०८
महा.दोषो हि विशिष्ट.बल.समागमो राज्ञाम्, अन्यत्र_अरि.विगृहीतात् ॥

२.०९
अशक्ये दण्ड.उपनतवद् वर्तेत ॥

२.१०
यदा च_अस्य प्राण.हरं व्याधिम् अन्तः.कोपं शत्रु.वृद्धिं मित्र.व्यसनम् उपस्थितं वा तन्.निमित्ताम् आत्मनश् च वृद्धिं पश्येत् तदा सम्भाव्य.व्याधि.धर्म.कार्य.अपदेशेन_अपयायात् ॥

२.११
स्व.विषयस्थो वा न_उपगच्छेत् ॥

२.१२
आसन्नो वा_अस्य च्छिद्रेषु प्रहरेत् ॥

२.१३
बलीयसोर् वा मध्य.गतस् त्राण.समर्थम् आश्रयेत, यस्य वा_अन्तर्धिः स्यात्, उभौ वा ॥

२.१४
कपाल.संश्रयस् तिष्ठेत्, मूल.हरम् इतरस्य_इतरम् अपदिशन् ॥

२.१५
भेदम् उभयोर् वा परस्पर.अपदेशं प्रयुञ्जीत, भिन्नयोर् उपांशु.दण्डम् ॥

२.१६
पार्श्वस्थो वा बलस्थयोर् आसन्न.भयात् प्रतिकुर्वीत ॥

२.१७
दुर्ग.अपाश्रयो वा द्वैधी.भूतस् तिष्ठेत् ॥

२.१८
संधि.विग्रह.क्रम.हेतुभिर् वा चेष्टेत ॥

२.१९
दूष्य.अमित्र.आटविकान् उभयोर् उपगृह्णीयात् ॥

२.२०
एतयोर् अन्यतरं गच्छंस् तैर् एव_अन्यतरस्य व्यसने प्रहरेत् ॥

२.२१
द्वाभ्याम् उपहतो वा मण्डल.अपाश्रयस् तिष्ठेत्, मध्यमम् उदासीनं वा संश्रयेत ॥

२.२२
तेन सह_एकम् उपगृह्य_इतरम् उच्छिन्द्याद्, उभौ वा ॥

२.२३
द्वाभ्याम् उच्छिन्नो वा मध्यम.उदासीनयोस् तत्.पक्षीयाणां वा राज्ञां न्याय.वृत्तिम् आश्रयेत ॥

२.२४
तुल्यानां वा यस्य प्रकृतयः सुख्येयुर् एनम्, यत्रस्थो वा शक्नुयाद् आत्मानम् उद्धर्तुम्, यत्र वा पूर्व.पुरुष.उचिता गतिर् आसन्नः सम्बन्धो वा, मित्राणि भूयांस्य् अतिशक्तिमन्ति वा भवेयुः ॥

२.२५
प्रियो यस्य भवेद् यो वा प्रियो_अस्य कतरस् तयोः ।

२.२५
प्रियो यस्य स तं गच्छेद् इत्य् आश्रय.गतिः परा ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP