TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अर्थशास्त्रम् अध्याय ०७ - भाग ६

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


भाग ६
६.०१
विजिगीषुर् द्वितीयां प्रकृतिम् एवम् अतिसंदध्यात् ॥

६.०२
सामन्तं संहित.प्रयाणे योजयेत् "त्वम् इतो याहि, अहम् इतो यास्यामि, समानो लाभः" इति ॥

६.०३
लाभ.साम्ये संधिः, वैषम्ये विक्रमः ॥

६.०४
संधिः परिपणितश् च_अपरिपणितश् च ॥

६.०५
"त्वम् एतं देशं याहि, अहम् इमं देशं यास्यामि" इति परिपणित.देशः ॥

६.०६
"त्वम् एतावन्तं कालं चेष्टस्व, अहम् एतावन्तं कालं चेष्टिष्ये" इति परिपणित.कालः ॥

६.०७
"त्वम् एतावत्.कार्यं साधय, अहम् इदं कार्यं साधयिष्यामि" इति परिपणित.अर्थः ॥

६.०८
यदि वा मन्येत "शैल.वन.नदी.दुर्गम् अटवी.व्यवहितं छिन्न.धान्य.पुरुष.वीवध.आसारम् अयवस.इन्धन.उदकम् अविज्ञातं प्रकृष्टम् अन्य.भाव.देशीयं वा सैन्य.व्यायामानाम् अलब्ध.भौमं वा देशं परो यास्यति, विपरीतम् अहम्" इत्य् एतस्मिन् विशेषे परिपणित.देशं संधिम् उपेयात् ॥

६.०९
यदि वा मन्येत "प्रवर्ष.उष्ण.शीतम् अतिव्याधि.प्रायम् उपक्षीण.आहार.उपभोगं सैन्य.व्यायामानां च_औपरोधिकं कार्य.साधनानाम् ऊनम् अतिरिक्तं वा कालं परश् चेष्टिष्यते, विपरीतम् अहम्" इत्य् एतस्मिन् विशेषे परिपणित.कालं संधिम् उपेयात् ॥

६.१०
यदि वा मन्येत "प्रत्यादेयं प्रकृति.कोपकं दीर्घ.कालं महा.क्षय.व्ययम् अल्पम् अनर्थ.अनुबन्धम् अकल्यम् अधर्म्यं मध्यम.उदासीन.विरुद्धं मित्र.उपघातकं वा कार्यं परः साधयिष्यति, विपरीतम् अहम्" इत्य् एतस्मिन् विशेषे परिपणित.अर्थं संधिम् उपेयात् ॥

६.११
एवं देश.कालयोः काल.कार्ययोर् देश.कार्ययोर् देश.काल.कार्याणां च_अवस्थापनात् सप्त.विधः परिपणितः ॥

६.१२
तस्मिन् प्राग् एव_आरभ्य प्रतिष्ठाप्य च स्व.कर्माणि पर.कर्मसु विक्रमेत ॥

६.१३
व्यसन.त्वर.अवमान.आलस्य.युक्तम् अज्ञं वा शत्रुम् अतिसंधातु.कामो देश.काल.कार्याणाम् अनवस्थापनात् "संहितौ स्वः" इति संधि.विश्वासेन परच्.छिद्रम् आसाद्य प्रहरेद् इत्य् अपरिपणितः ॥

६.१४
तत्र_एतद् भवति ॥

६.१५
सामन्तेन_एव सामन्तं विद्वान् आयोज्य विग्रहे ।

६.१५
ततो_अन्यस्य हरेद् भूमिं छित्त्वा पक्षं समन्ततः ॥

६.१६
संधेर् अकृत.चिकीर्षा कृत.श्लेषणं कृत.विदूषणम् अवशीर्ण.क्रिया च ॥

६.१७
विक्रमस्य प्रकाश.युद्धं कूट.युद्धं तूष्णीं.युद्धम् ॥

६.१८
इति संधि.विक्रमौ ॥

६.१९
अपूर्वस्य संधेः स.अनुबन्धैः साम.आदिभिः पर्येषणं सम.हीन.ज्यायसां च यथा.बलम् अवस्थापनम् अकृत.चिकीर्षा ॥

६.२०
कृतस्य प्रिय.हिताभ्याम् उभयतः परिपालनं यथा.सम्भाषितस्य च निबन्धनस्य_अनुवर्तनं रक्षणं च "कथं परस्मान् न भिद्येत" इति कृत.श्लेषणम् ॥

६.२१
परस्य_अपसंधेयतां दूष्य.अतिसंधानेन स्थापयित्वा व्यतिक्रमः कृत.विदूषणम् ॥

६.२२
भृत्येन मित्रेण वा दोष.अपसृतेन प्रतिसंधानम् अवशीर्ण.क्रिया ॥

६.२३
तस्यां गत.आगतश् चतुर्.विधः - कारणाद् गत.आगतो, विपरीतः, कारणाद् गतो_अकारणाद् आगतो, विपरीतश् च_इति ॥

६.२४
स्वामिनो दोषेण गतो गुणेन_आगतः परस्य गुणेन गतो दोषेण_आगत इति कारणाद् गत.आगतः संधेयः ॥

६.२५
स्व.दोषेण गत.आगतो गुणम् उभयोः परित्यज्य अकारणाद् गत.आगतः चल.बुद्धिर् असंधेयः ॥

६.२६
स्वामिनो दोषेण गतः परस्मात् स्व.दोषेण_आगत इति कारणाद् गतो_अकारणाद् आगतः तर्कयितव्यः "पर.प्रयुक्तः स्वेन वा दोषेण_अपकर्तु.कामः, परस्य_उच्छेत्तारम् अमित्रं मे ज्ञात्वा प्रतिघात.भयाद् आगतः, परं वा माम् उच्छेत्तु.कामं परित्यज्य_आनृशंस्याद् आगतः" इति ॥

६.२७
ज्ञात्वा कल्याण.बुद्धिं पूजयेद्, अन्यथा.बुद्धिम् अपकृष्टं वासयेत् ॥

६.२८
स्व.दोषेण गतः पर.दोषेण_आगत इत्य् अकारणाद् गतः कारणाद् आगतः तर्कयितव्यः " छिद्रं मे पूरयिष्यति, उचितो_अयम् अस्य वासः, परत्र_अस्य जनो न रमते, मित्रैर् मे संहितः, शत्रुभिर् विगृहीतः, लुब्ध.क्रूराद् आविग्नः शत्रु.संहिताद् वा परस्मात्" इति ॥

६.२९
ज्ञात्वा यथा.बुद्ध्य् अवस्थापयितव्यः ॥

६.३०
"कृत.प्रणाशः शक्ति.हानिर् विद्या.पण्यत्वम् आशा.निर्वेदो देश.लौल्यम् अविश्वासो बलवद्.विग्रहो वा परित्याग.स्थानम्" इत्य् आचार्याः ॥

६.३१
भयम् अवृत्तिर् अमर्ष इति कौटिल्यः ॥

६.३२
इह_अपकारी त्याज्यः, पर.अपकारी संधेयः, उभय.अपकारी तर्कयितव्य इति समानम् ॥

६.३३
असंधेयेन त्व् अवश्यं संधातव्ये यतः प्रभावस् ततः प्रतिविदध्यात् ॥

६.३४
स.उपकारं व्यवहितं गुप्तम् आयुः.क्षयाद् इति ।

६.३४
वासयेद् अरि.पक्षीयम् अवशीर्ण.क्रिया.विधौ ॥

६.३५
विक्रमयेद् भर्तरि वा सिद्धं वा दण्ड.चारिणम् ॥

६.३५
कुर्याद् अमित्र.अटवीषु प्रत्यन्ते वा_अन्यतः क्षिपेत् ॥

६.३६
पण्यं कुर्याद् असिद्धं वा सिद्धं वा तेन संवृतम् ॥

६.३६
तस्य_एव दोषेण.अदूष्य पर.संधेय.कारणात् ॥

६.३७
अथ वा शमयेद् एनम् आयत्य्.अर्थम् उपांशुना ॥

६.३७
आयत्यां च वध.प्रेप्सुं दृष्ट्वा हन्याद् गत.आगतम् ॥

६.३८
अरितो_अभ्यागतो दोषः शत्रु.संवास.कारितः ॥

६.३८
सर्प.संवास.धर्मित्वान् नित्य.उद्वेगेन दूषितः ॥

६.३९
जायते प्लक्ष.बीज.आशात् कपोताद् इव शाल्मलेः ॥

६.३९
उद्वेग.जननो नित्यं पश्चाद् अपि भय.आवहः ॥

६.४०
प्रकाश.युद्धं निर्दिष्टे देशे काले च विक्रमः ॥

६.४०
विभीषणम् अवस्कन्दः प्रमाद.व्यसन.अर्दनम् ॥

६.४१
एकत्र त्याग.घातौ च कूट.युद्धस्य मातृका ॥

६.४१
योग.गूढ.उपजाप.अर्थं तूष्णीं.युद्धस्य लक्षणम् ॥

(द्वैधी.भाविकाः संधि.विक्रमाह्)

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:24.4530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

tentaculocyst

  • स्त्री. Zool. शुंडकपुटीगुहा 
RANDOM WORD

Did you know?

जुळी मुले झाली असतां शांति करावी काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.