अर्थशास्त्रम् अध्याय ०७ - भाग ७

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


७.०१
विजिगीषुर् द्वितीयां प्रकृतिम् एवम् उपगृह्णीयात् ॥

७.०२
सामन्तं सामन्तेन सम्भूय यायात्, यदि वा मन्येत "पार्ष्णिं मे न ग्रहीष्यति, पार्ष्णि.ग्राहं वारयिष्यति, यातव्यं न_अभिसरिष्यति, बल.द्वैगुण्यं मे भविष्यति, वीवध.आसारौ मे प्रवर्तयिष्यति, परस्य वारयिष्यति, बह्व्.आबाधे मे पथि कण्टकान् मर्दयिष्यति, दुर्ग.अटव्य्.अपसारेषु दण्डेन चरिष्यति, यातव्यम् अविषह्ये दोषे संधौ वा स्थापयिष्यति, लब्ध.लाभ.अंशो वा शत्रून् अन्यान् मे विश्वासयिष्यति" इति ॥

७.०३
द्वैधी.भूतो वा कोशेन दण्डं दण्डेन कोशं सामन्तानाम् अन्यतमाल् लिप्सेत ॥

७.०४
तेषां ज्यायसो_अधिकेन_अंशेन समात् समेन हीनाद्द् हीनेन_इति सम.संधिः ॥

७.०५
विपर्यये विषम.संधिः ॥

७.०६
तयोर् विशेष.लाभाद् अतिसंधिः ॥

७.०७
व्यसनिनम् अपाय.स्थाने सक्तम् अनर्थिनं वा ज्यायांसं हीनो बल.समेन लाभेन पणेत ॥

७.०८
पणितस् तस्य_अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥

७.०९
एवं.भूतो वा हीन.शक्ति.प्रताप.पूरण.अर्थं सम्भाव्य.अर्थ.अभिसारी मूल.पार्ष्णि.त्राण.अर्थं वा ज्यायांसं हीनो बल.समाद् विशिष्टेन लाभेन पणेत ॥

७.१०
पणितः कल्याण.बुद्धिम् अनुगृह्णीयात्, अन्यथा विक्रमेत ॥

७.११
जात.व्यसन.प्रकृति.रन्ध्रम् उपस्थित.अनर्थं वा ज्यायांसं हीनो दुर्ग.मित्र.प्रतिष्टब्धो वा ह्रस्वम् अध्वानं यातु.कामः शत्रुम् अयुद्धम् एक.अन्त.सिद्धिं वा लाभम् आदातु.कामो बल.समाद्द् हीनेन लाभेन पणेत ॥

७.१२
पणितस् तस्य_अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥

७.१३
अरन्ध्र.व्यसनो वा ज्यायान् दुर्.आरब्ध.कर्माणं भूयः क्षय.व्ययाभ्यां योक्तु.कामो दूष्य.दण्डं प्रवासयितु.कामो दूष्य.दण्डम् आवाहयितु.कामो वा पीडनीयम् उच्छेदनीयं वा हीनेन व्यथयितु.कामः संधि.प्रधानो वा कल्याण.बुद्धिर् हीनं लाभं प्रतिगृह्णीयात् ॥

७.१४
कल्याण.बुद्धिना सम्भूय_अर्थं लिप्सेत, अन्यथा विक्रमेत ॥

७.१५
एवं समः समम् अतिसंदध्याद् अनुगृह्णीयाद् वा ॥

७.१६
पर.अनीकस्य प्रत्यनीकं मित्र.अटवीनां वा, शत्रोर् विभूमीनां देशिकं मूल.पार्ष्णि.त्राण.अर्थं वा समो बल.समेन लाभेन पणेत ॥

७.१७
पणितः कल्याण.बुद्धिम् अनुगृह्णीयात्, अन्यथा विक्रमेत ॥

७.१८
जात.व्यसन.प्रकृति.रन्ध्रम् अनेक.विरुद्धम् अन्यतो लभमानो वा समो बल.समाद्द् हीनेन लाभेन पणेत ॥

७.१९
पणितस् तस्य_अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥

७.२०
एवं.भूतो वा समः सामन्त.आयत्त.कार्यः कर्तव्य.बलो वा बल.समाद् विशिष्टेन लाभेन पणेत ॥

७.२१
पणितः कल्याण.बुद्धिम् अनुगृह्णीयात् अन्यथा विक्रमेत ॥

७.२२
जात.व्यसन.प्रकृति.रन्ध्रम् अभिहन्तु.कामः स्व्.आरब्धम् एक.अन्त.सिद्धिं वा_अस्य कर्म.उपहन्तु.कामो मूले यात्रायां वा प्रहर्तु.कामो यातव्याद्.भूयो लभमानो वा ज्यायांसं हीनं समं वा भूयो याचेत ॥

७.२३
भूयो वा याचितः स्व.बल.रक्षा.अर्थं दुर्धर्षम् अन्य.दुर्गम् आसारम् अटवीं वा पर.दण्डेन मर्दितु.कामः प्रकृष्टे_अध्वनि काले वा पर.दण्डं क्षय.व्ययाभ्यां योक्तु.कामः पर.दण्डेन वा विवृद्धस् तम् एव_उच्छेत्तु.कामः पर.दण्डम् आदातु.कामो वा भूयो दद्यात् ॥

७.२४
ज्यायान् वा हीनं यातव्य.अपदेशेन हस्ते कर्तु.कामः परम् उच्छिद्य वा तम् एव_उच्छेत्तु.कामः, त्यागं वा कृत्वा प्रत्यादातु.कामो बल.समाद् विशिष्टेन लाभेन पणेत ॥

७.२५
पणितस् तस्य_अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥

७.२६
यातव्य.संहितो वा तिष्ठेत्, दूष्य.अमित्र.अटवी.दण्डं वा_अस्मै दद्यात् ॥

७.२७
जात.व्यसन.प्रकृति.रन्ध्रो वा ज्यायान् हीनं बल.समेन लाभेन पणेत ॥

७.२८
पणितस् तस्य_अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥

७.२९
एवं.भूतं हीनं ज्यायान् बल.समाद्द् हीनेन लाभेन पणेत ॥

७.३०
पणितस् तस्य_अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥

७.३१
आदौ बुध्येत पणितः पणमानश् च कारणम् ॥

७.३१
ततो वितर्क्य.उभयतो यतः श्रेयश् ततो व्रजेत् ॥

(यातव्य.वृत्तिः - अनुग्राह्य.मित्र.विशेषाह्)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP