TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अर्थशास्त्रम् अध्याय ०७ - भाग १३

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


भाग १३
१३.०१
संहत्य_अरि.विजिगीष्वोर् अमित्रयोः पर.अभियोगिनोः पार्ष्णिं गृह्णतोर् यः शक्ति.सम्पन्नस्य पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥

१३.०२
शक्ति.सम्पन्नो ह्य् अमित्रम् उच्छिद्य पार्ष्णि.ग्राहम् उच्छिन्द्यात्, न हीन.शक्तिर् अलब्ध.लाभः ॥

१३.०३
शक्ति.साम्ये यो विपुल.आरम्भस्य पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥

१३.०४
विपुल.आरम्भो ह्य् अमित्रम् उच्छिद्य पार्ष्णि.ग्राहम् उच्छिन्द्यात्, न_अल्प.आरम्भः सक्त.चक्रः ॥

१३.०५
आरम्भ.साम्ये यः सर्व.संदोहेन प्रयातस्य पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥

१३.०६
शून्य.मूलो ह्य् अस्य सुकरो भवति, नैक.देश.बल.प्रयातः कृत.पार्ष्णि.प्रतिविधानः ॥

१३.०७
बल.उपादान.साम्ये यश् चल.अमित्रं प्रयातस्य पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥

१३.०८
चल.अमित्रं प्रयातो हि सुखेन_अवाप्त.सिद्धिः पार्ष्णि.ग्राहम् उच्छिन्द्यात्, न स्थित.अमित्रं प्रयातः ॥

१३.०९
असौ हि दुर्ग.प्रतिहतः पार्ष्णि.ग्राहे च प्रतिनिवृत्तः स्थितेन_अमित्रेण_अवगृह्यते ॥

१३.१०
तेन पूर्वे व्याख्याताः ॥

१३.११
शत्रु.साम्ये यो धार्मिक.अभियोगिनः पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥

१३.१२
धार्मिक.अभियोगी हि स्वेषां परेषां च द्वेष्यो भवति, अधार्मिक.अभियोगी सम्प्रियः ॥

१३.१३
तेन मूल.हर.तादात्विक.कदर्य.अभियोगिनां पार्ष्णि.ग्रहणं व्याख्यातम् ॥

१३.१४
मित्र.अभियोगिनोः पार्ष्णि.ग्रहणे त एव हेतवः ॥

१३.१५
मित्रम् अमित्रं च_अभियुञ्जानयोर् यो मित्र.अभियोगिनः पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥

१३.१६
मित्र.अभियोगी हि सुखेन_अवाप्त.सिद्धिः पार्ष्णि.ग्राहम् उच्छिन्द्यात् ॥

१३.१७
सुकरो हि मित्रेण संधिर् न_अमित्रेण ॥

१३.१८
मित्रम् अमित्रं च_उद्धरतोर् यो_अमित्र.उद्धारिणः पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥

१३.१९
वृद्ध.मित्रो ह्य् अमित्र.उद्धारी पार्ष्णि.ग्राहम् उच्छिन्द्यात्, न_इतरः स्व.पक्ष.उपघाती ॥

१३.२०
तयोर् अलब्ध.लाभ.अपगमने यस्य.अमित्रो महतो लाभाद् वियुक्तः क्षय.व्यय.अधिको वा स पार्ष्णि.ग्राहो_अतिसंधत्ते ॥

१३.२१
लब्ध.लाभ.अपगमने यस्य_अमित्रो लाभेन शक्त्या हीनः स पार्ष्णि.ग्राहो_अतिसंधत्ते, यस्य वा यातव्यः शत्रोर् विग्रह.अपकार.समर्थः स्यात् ॥

१३.२२
पार्ष्णि.ग्राहयोर् अपि यः शक्य.आरम्भ.बल.उपादान.अधिकः स्थित.शत्रुः पार्श्व.स्थायी वा सो_अतिसंधत्ते ॥

१३.२३
पार्श्व.स्थायी हि यातव्य.अभिसारो मूल.आबाधकश् च भवति, मूल.आबाधक एव पश्चात्.स्थायी ॥

१३.२४
पार्ष्णि.ग्राहास् त्रयो ज्ञेयाः शत्रोश् चेष्टा.निरोधकाः ।

१३.२४
सामन्तः पृष्ठतो वर्गः प्रतिवेशौ च पार्श्वयोः ॥

१३.२५
अरेर् नेतुश् च मध्यस्थो दुर्बलो_अन्तर्धिर् उच्यते ।

१३.२५
प्रतिघातो बलवतो दुर्ग.अटव्य्.अपसारवान् ॥

१३.२६
मध्यमं त्वरि.विजिगीष्वोर् लिप्समानयोर् मध्यमस्य पार्ष्णिं गृह्णतोर् लब्ध.लाभ.अपगमने यो मध्यमं मित्राद् वियोजयत्य् अमित्रं च मित्रम् आप्नोति सो_अतिसंधत्ते ॥

१३.२७
संधेयश् च शत्रुर् उपकुर्वाणो, न मित्रं मित्र.भावाद् उत्क्रान्तम् ॥

१३.२८
तेन_उदासीन.लिप्सा व्याख्याता ॥

१३.२९
"पार्ष्णि.ग्रहण.अभियानयोस् तु मन्त्र.युद्धाद् अभ्युच्चयः ॥ Kअश्०७.१३.३०
व्यायाम.युद्धे हि क्षय.व्ययाभ्याम् उभयोर् अवृद्धिः ॥

१३.३१
जित्वा_अपि हि क्षिण.दण्ड.कोशः पराजितो भवति" इत्य् आचार्याः ॥

१३.३२
न_इति कौटिल्यः ॥

१३.३३
सुमहता_अपि क्षय.व्ययेन शत्रु.विनाशो_अभ्युपगन्तव्यः ॥

१३.३४
तुल्ये क्षय.व्यये यः पुरस्ताद् दूष्य.बलं घातयित्वा निह्शल्यः पश्चाद् वश्य.बलो युध्येत सो_अतिसंधत्ते ॥

१३.३५
द्वयोर् अपि पुरस्ताद् दूष्य.बल.घातिनोर् यो बहुलतरं शक्तिमत्तरम् अत्यन्त.दूष्यं च घातयेत् सो_अतिसंधत्ते ॥

१३.३६
तेन_अमित्र.अटवी.बल.घातो व्याख्यातः ॥

१३.३७
पार्ष्णि.ग्राहो_अभियोक्ता वा यातव्यो वा यदा भवेत् ।

१३.३७
विजिगीषुस् तदा तत्र नेत्रम् एतत् समाचरेत् ॥

१३.३८
पार्ष्णि.ग्राहो भवेन् नेता शत्रोर् मित्र.अभियोगिनः ।

१३.३८
विग्राह्य पूर्वम् आक्रन्दं पार्ष्णि.ग्राह.अभिसारिणा ॥

१३.३९
आक्रन्देन_अभियुञ्जानः पार्ष्णि.ग्राहं निवारयेत् ।

१३.३९
तथा_आक्रन्द.अभिसारेण पार्ष्णि.ग्राह.अभिसारिणम् ॥

१३.४०
अरि.मित्रेण मित्रं च पुरस्ताद् अवघट्टयेत् ।

१३.४०
मित्र.मित्रम् अरेश् च_अपि मित्र.मित्रेण वारयेत् ॥

१३.४१
मित्रेण ग्राहयेत् पार्ष्णिम् अभियुक्तो_अभियोगिनः ।

१३.४१
मित्र.मित्रेण च_आक्रन्दं पार्ष्णि.ग्राहान् निवारयेत् ॥

१३.४२
एवं मण्डलम् आत्म.अर्थं विजिगीषुर् निवेशयेत् ।

१३.४२
पृष्ठतश् च पुरस्ताच् च मित्र.प्रकृति.सम्पदा ॥

१३.४३
कृत्स्ने च मण्डले नित्यं दूतान् गूढांश् च वासयेत् ।

१३.४३
मित्र.भूतः सपत्नानां हत्वा हत्वा च संवृतः ॥

१३.४४
असंवृतस्य कार्याणि प्राप्तान्य् अपि विशेषतः ।

१३.४४
निह्संशयं विपद्यन्ते भिन्न.प्लव इव_उदधौ ॥

(हीन.शक्ति.पूरणम्)

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:24.8570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

banker's reference (banker's inquiry)

  • स्त्री. बँकेची ग्वाही 
  • न. बँकेचे वित्तप्रमाण 
RANDOM WORD

Did you know?

अतिथी व अतिथिसत्कार याचे विशेष महत्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.