अर्थशास्त्रम् अध्याय ०७ - भाग १०

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


१०.०१
"त्वं च_अहं च भूमिं लभावहे" इति भूमि.संधिः ॥

१०.०२
तयोर् यः प्रत्युपस्थित.अर्थः सम्पन्नां भूमिम् अवाप्नोति सो_अतिसंधत्ते ॥

१०.०३
तुल्ये सम्पन्न.अलाभे यो बलवन्तम् आक्रम्य भूमिम् अवाप्नोति सो_अतिसंधत्ते ॥

१०.०४
भूमि.लाभं शत्रु.कर्शनं प्रतापं च हि प्राप्नोति ॥

१०.०५
दुर्बलाद्.भूमि.लाभे सत्यं सौकर्यं भवति ॥

१०.०६
दुर्बल एव च भूमि.लाभः, तत्.सामन्तश् च मित्रम् अमित्र.भावं गच्छति ॥

१०.०७
तुल्ये बलीयस्त्वे यः स्थित.शत्रुम् उत्पाट्य भूमिम् अवाप्नोति सो_अतिसंधत्ते ॥

१०.०८
दुर्ग.अवाप्तिर् हि स्व.भूमि.रक्षणम् अमित्र.अटवी.प्रतिषेधं च करोति ॥

१०.०९
चल.अमित्राद्.भूमि.लाभे शक्य.सामन्ततो विशेषः ॥

१०.१०
दुर्बल.सामन्ता हि क्षिप्र.आप्यायन.योग.क्षेमा भवति ॥

१०.११
विपरीता बलवत् सामन्ता कोश.दण्ड.अवच्छेदनी च भूमिर् भवति ॥

१०.१२
सम्पन्ना नित्य.अमित्रा मन्द.गुणा वा भूमिर् अनित्य.अमित्रा_इति "सम्पन्ना नित्य.अमित्रा श्रेयसी भूमिः सम्पन्ना हि कोश.दण्डौ सम्पादयति, तौ च_अमित्र.प्रतिघातकौ इत्य् आचार्याः ॥

१०.१३
न_इति कौटिल्यः ॥

१०.१४
नित्य.अमित्र.अलाभे भूयान् शत्रु.लाभो भवति ॥

१०.१५
नित्यश् च शत्रुर् उपकृते च_अपकृते च शत्रुर् एव भवति, अनित्यस् तु शत्रुर् उपकाराद् अनपकाराद् वा शाम्यति ॥

१०.१६
यस्या हि भूमेर् बहु.दुर्गाश् चोर.गणैर् म्लेच्छ.अटवीभिर् वा नित्य.अविरहिताः प्रत्यन्ताः सा नित्य.अमित्रा, विपर्यये त्व् अनित्य.अमित्रा ॥

१०.१७
अल्पा प्रत्यासन्ना महती व्यवहिता वा भूमिर् इति अल्पा प्रत्यासन्ना श्रेयसी ॥

१०.१८
सुखा हि प्राप्तुं पालयितुम् अभिसारयितुं च भवति ॥

१०.१९
विपरीता व्यवहिता ॥

१०.२०
व्यवहितयोर् अपि दण्ड.धारणा_आत्म.धारणा वा भूमिर् इति आत्म.धारणा श्रेयसी ॥

१०.२१
सा हि स्व.समुत्थाभ्यां कोश.दण्डाभ्यां धार्यते ॥

१०.२२
विपरीता दण्ड.धारणा दण्ड.स्थानम् ॥

१०.२३
बालिशात् प्राज्ञाद् वा भूमि.लाभ इति बालिशाद्.भूमि.लाभः श्रेयान् ॥

१०.२४
सुप्राप्या_अनुपाल्या हि भवति, अप्रत्यादेया च ॥

१०.२५
विपरीता प्राज्ञाद् अनुरक्ता ॥

१०.२६
पीडनीय.उच्छेदनीययोर् उच्छेदनीयाद् भूमि.लाभः श्रेयान् ॥

१०.२७
उच्छेदनीयो ह्य् अनपाश्रयो दुर्बल.अपाश्रयो वा_अभियुक्तः कोश.दण्डाव् आदाय_अपसर्तु.कामः प्रकृतिभिस् त्यज्यते, न पीडनीयो दुर्ग.मित्र.प्रतिष्टब्धः ॥

१०.२८
दुर्ग.प्रतिष्टब्धयोर् अपि स्थल.नदी.दुर्गीयाभ्यां स्थल.दुर्गीयाद् भूमि.लाभः श्रेयान् ॥

१०.२९
स्थालेयं हि सुरोध.अवमर्द.अवस्कन्दम् अनिह्श्रावि.शत्रु च ॥

१०.३०
नदी.दुर्गं तु द्वि.गुण.क्लेश.करम्, उदकं च पातव्यं वृत्ति.करं च_अमित्रस्य ॥

१०.३१
नदी.पर्वत.दुर्गीयाभ्यां नदी.दुर्गीयाद् ब्भूमि.लाभः श्रेयान् ॥

१०.३२
नदी.दुर्गं हि हस्ति.स्तम्भ.संक्रम.सेतु.बन्ध.नौभिः साध्यम् अनित्य.गाम्भीर्यम् अवस्राव्य् उदकं च ॥

१०.३३
पार्वतं तु स्व्.आरक्षं दुरुपरोधि कृच्छ्र.आरोहणम्, भग्ने च_एकस्मिन् न सर्व.वधः, शिला.वृक्ष.प्रमोक्षश् च महा.अपकारिणाम् ॥

१०.३४
निम्न.स्थल.योधिभ्यो निम्न.योधिभ्यो भूमि.लाभः श्रेयान् ॥

१०.३५
निम्न.योधिनो ह्य् उपरुद्ध.देश.कालाः, स्थल.योधिनस् तु सर्व.देश.काल.योधिनः ॥

१०.३६
खनक.आकाश.योधिभ्यः खनकेभ्यो भूमि.लाभः श्रेयान् ॥

१०.३७
खनका हि खातेन शस्त्रेण च_उभयथा युध्यन्ते, शस्त्रेण_एव_आकाश.योधिनः ॥

१०.३८
एवं.विध्येभ्यः पृथिवीं लभमानो_अर्थ.शास्त्रवित् ।

१०.३८
संहितेभ्यः परेभ्यश् च विशेषम् अधिगच्छति ॥

(मित्र.हिरण्य.भूमि.कर्म.सम्धयह् - तत्र अनवसित.सम्धिह्)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP